२. दुतियपुञ्ञाभिसन्दसुत्तवण्णना
५२. दुतिये अरियकन्तेहीति मग्गफलसम्पयुत्तेहि. तानि हि अरियानं कन्तानि होन्ति पियानि मनापानि. सेसं सुत्तन्ते ताव यं वत्तब्बं सिया, तं विसुद्धिमग्गे (विसुद्धि. १.१२४ आदयो) वुत्तमेव.
गाथासु पन सद्धाति सोतापन्नस्स सद्धा अधिप्पेता. सीलम्पि सोतापन्नस्स सीलमेव. उजुभूतञ्च दस्सनन्ति कायवङ्कादीनं अभावेन खीणासवस्स दस्सनं उजुभूतदस्सनं नाम. आहूति कथयन्ति. पसादन्ति बुद्धधम्मसङ्घेसु पसादं. धम्मदस्सनन्ति चतुसच्चधम्मदस्सनं.