३. पठमसंवाससुत्तवण्णना

५३. ततिये सम्बहुलापि खो गहपती च गहपतानियो चाति बहुका गहपतयो च गहपतानियो च आवाहविवाहकरणत्थाय गच्छन्ता तमेव मग्गं पटिपन्ना होन्ति. संवासाति सहवासा एकतोवासा. छवो छवायाति गुणमरणेन मतत्ता छवो गुणमरणेनेव मताय छवाय सद्धिं. देविया सद्धिन्ति गुणेहि देविभूताय सद्धिं. दुस्सीलोति निस्सीलो. पापधम्मोति लामकधम्मो. अक्कोसकपरिभासकोति दसहि अक्कोसवत्थूहि अक्कोसको, भयं दस्सेत्वा सन्तज्जनेन परिभासको. एवं सब्बत्थ अत्थो वेदितब्बो.

कदरियाति थद्धमच्छरिनो. जानिपतयोति जयम्पतिका. वदञ्ञूति याचकानं वचनस्स अत्थं जानन्ति. सञ्ञताति सीलसंयमेन समन्नागता. धम्मजीविनोति धम्मे ठत्वा जीविकं कप्पेन्तीति धम्मजीविनो. अत्थासं पचुरा होन्तीति वड्ढिसङ्खाता अत्था एतेसं बहू होन्ति. फासुकं उपजायतीति अञ्ञमञ्ञं फासुविहारो जायति. कामकामिनोति कामे कामयमाना.