११. जाणुस्सोणिसुत्तवण्णना
१७७. एकादसमे उपकप्पतूति पापुणातु. ठानेति ओकासे. नो अट्ठानेति नो अनोकासे. नेरयिकानं आहारो नाम तत्थ निब्बत्तनकम्ममेव. तेनेव हि ते तत्थ यापेन्ति. तिरच्छानयोनिकानं पन तिणपण्णादिवसेन आहारो वेदितब्बो. मनुस्सानं ओदनकुम्मासादिवसेन, देवानं सुधाभोजनादिवसेन, पेत्तिवेसयिकानं खेळसिङ्घाणिकादिवसेन. यं वा पनस्स इतो अनुप्पवेच्छन्तीति यं तस्स मित्तादयो इतो ददन्ता अनुपवेसेन्ति. पेत्तिवेसयिका एव हि परदत्तूपजीविनो होन्ति, न अञ्ञेसं परेहि दिन्नं उपकप्पति. दायकोपि अनिप्फलोति यं सन्धाय तं दानं दिन्नं, तस्स उपकप्पतु वा मा वा, दायकेन पन न सक्का निप्फलेन भवितुं, दायको तस्स दानस्स विपाकं लभतियेव.
अट्ठानेपि भवं गोतमो परिकप्पं वदतीति अनोकासे उप्पन्नेपि तस्मिं ञातके भवं गोतमो दानस्स फलं परिकप्पेतियेव पञ्ञापेतियेवाति पुच्छति. ब्राह्मणस्स हि ‘‘एवं दिन्नस्स दानस्स फलं दायको न लभती’’ति लद्धि. अथस्स भगवा पञ्हं पटिजानित्वा ‘‘दायको नाम यत्थ कत्थचि पुञ्ञफलूपजीविट्ठाने निब्बत्तो दानस्स फलं लभतियेवा’’ति दस्सेतुं इध ब्राह्मणातिआदिमाह. सो तत्थ लाभी होतीति सो तत्थ हत्थियोनियं निब्बत्तोपि मङ्गलहत्थिट्ठानं पत्वा लाभी होति. अस्सादीसुपि एसेव नयो. साधुवग्गो उत्तानत्थोयेवाति.
जाणुस्सोणिवग्गो दुतियो.
चतुत्थपण्णासकं निट्ठितं.
(२१) १. करजकायवग्गो
२११. पञ्चमस्स पठमादीनि उत्तानत्थानेव.