४. चतुत्थपण्णासकं

१५५. चतुत्थस्स पठमादीनि उत्तानत्थानेवाति.

८. कम्मनिदानसुत्तवण्णना

१७४. अट्ठमे लोभहेतुकम्पीति पाणातिपातस्स लोभो उपनिस्सयकोटिया हेतु होति दोसमोहसम्पयुत्तोपि. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो.

९. परिक्कमनसुत्तवण्णना

१७५. नवमे परिक्कमनं होतीति परिवज्जनं होति.

१०. चुन्दसुत्तवण्णना

१७६. दसमे कम्मारपुत्तस्साति सुवण्णकारपुत्तस्स. कस्स नो त्वन्ति कस्स नु त्वं. पच्छाभूमकाति पच्छाभूमिवासिका. कमण्डलुकाति कमण्डलुधारिनो. सेवालमालिकाति सेवालमाला विय धारेन्ति. सेवालपटनिवासितातिपि वुत्तमेव. उदकोरोहकाति सायततियकं उदकोरोहनानुयोगमनुयुत्ता. आमसेय्यासीति हत्थेन परिमज्जेय्यासि.

११. जाणुस्सोणिसुत्तवण्णना

१७७. एकादसमे उपकप्पतूति पापुणातु. ठानेति ओकासे. नो अट्ठानेति नो अनोकासे. नेरयिकानं आहारो नाम तत्थ निब्बत्तनकम्ममेव. तेनेव हि ते तत्थ यापेन्ति. तिरच्छानयोनिकानं पन तिणपण्णादिवसेन आहारो वेदितब्बो. मनुस्सानं ओदनकुम्मासादिवसेन, देवानं सुधाभोजनादिवसेन, पेत्तिवेसयिकानं खेळसिङ्घाणिकादिवसेन. यं वा पनस्स इतो अनुप्पवेच्छन्तीति यं तस्स मित्तादयो इतो ददन्ता अनुपवेसेन्ति. पेत्तिवेसयिका एव हि परदत्तूपजीविनो होन्ति, न अञ्ञेसं परेहि दिन्नं उपकप्पति. दायकोपि अनिप्फलोति यं सन्धाय तं दानं दिन्नं, तस्स उपकप्पतु वा मा वा, दायकेन पन न सक्का निप्फलेन भवितुं, दायको तस्स दानस्स विपाकं लभतियेव.

अट्ठानेपि भवं गोतमो परिकप्पं वदतीति अनोकासे उप्पन्नेपि तस्मिं ञातके भवं गोतमो दानस्स फलं परिकप्पेतियेव पञ्ञापेतियेवाति पुच्छति. ब्राह्मणस्स हि ‘‘एवं दिन्नस्स दानस्स फलं दायको न लभती’’ति लद्धि. अथस्स भगवा पञ्हं पटिजानित्वा ‘‘दायको नाम यत्थ कत्थचि पुञ्ञफलूपजीविट्ठाने निब्बत्तो दानस्स फलं लभतियेवा’’ति दस्सेतुं इध ब्राह्मणातिआदिमाह. सो तत्थ लाभी होतीति सो तत्थ हत्थियोनियं निब्बत्तोपि मङ्गलहत्थिट्ठानं पत्वा लाभी होति. अस्सादीसुपि एसेव नयो. साधुवग्गो उत्तानत्थोयेवाति.

जाणुस्सोणिवग्गो दुतियो.

चतुत्थपण्णासकं निट्ठितं.

(२१) १. करजकायवग्गो

२११. पञ्चमस्स पठमादीनि उत्तानत्थानेव.

६. संसप्पनीयसुत्तवण्णना

२१६. छट्ठे संसप्पनीयपरियायं वो, भिक्खवे, धम्मपरियायन्ति संसप्पनस्स कारणं देसनासङ्खातं धम्मदेसनं. संसप्पतीति तं कम्मं करोन्तो आसप्पति परिसप्पति विप्फन्दति. जिम्हा गतीति तेन कम्मेन यं गतिं गमिस्सति, सा जिम्हा होति. जिम्हुपपत्तीति तस्स यं गतिं उपपज्जिस्सति, सापि जिम्हाव होति. संसप्पजातिकाति संसप्पनसभावा. भूता भूतस्स उपपत्ति होतीति भूतस्मा सभावतो विज्जमानकम्मा सत्तस्स निब्बत्ति होति. फस्सा फुसन्तीति विपाकफस्सा फुसन्ति.

७-८. सञ्चेतनिकसुत्तद्वयवण्णना

२१७-२१८. सत्तमे सञ्चेतनिकानन्ति चेतेत्वा पकप्पेत्वा कतानं. उपचितानन्ति चितानं वड्ढितानं. अप्पटिसंवेदित्वाति तेसं कम्मानं विपाकं अवेदियित्वा. ब्यन्तीभावन्ति विगतन्तभावं तेसं कम्मानं परिच्छेदपरिवटुमताकरणं. तञ्च खो दिट्ठेव धम्मेति तञ्च खो विपाकं दिट्ठधम्मवेदनीयं दिट्ठेव धम्मे. उपपज्जन्ति उपपज्जवेदनीयं अनन्तरे अत्तभावे. अपरे वा परियायेति अपरपरियायवेदनीयं पन संसारप्पवत्ते सति सहस्सिमेपि अत्तभावेति. इमिना इदं दस्सेति ‘‘संसारप्पवत्ते पटिलद्धविपाकारहकम्मे न विज्जति सो जगतिप्पदेसो, यत्थ ठितो मुच्चेय्य पापकम्मा’’ति. तिविधाति तिप्पकारा. कायकम्मन्तसन्दोसब्यापत्तीति कायकम्मन्तसङ्खाता विपत्ति. इमिना नयेन सब्बपदानि वेदितब्बानि. अट्ठमे अपण्णको मणीति समन्ततो चतुरस्सो पासको.

९. करजकायसुत्तवण्णना

२१९. नवमे दुक्खस्साति विपाकदुक्खस्स, वट्टदुक्खस्सेव वा. इमस्मिं सुत्ते मणिओपम्मं नत्थि. एवं विगताभिज्झोति एवन्ति निपातमत्तं. यथा वा मेत्तं भावेन्ता विगताभिज्झा भवन्ति, एवं विगताभिज्झो. एवमस्स विगताभिज्झतादीहि नीवरणविक्खम्भनं दस्सेत्वा इदानि अकुसलनिस्सरणानि कथेन्तो मेत्तासहगतेनातिआदिमाह. अप्पमाणन्ति अप्पमाणसत्तारम्मणताय चिण्णवसिताय वा अप्पमाणं. पमाणकतं कम्मं नाम कामावचरकम्मं. न तं तत्रावतिट्ठतीति तं महोघो परित्तं उदकं विय अत्तनो ओकासं गहेत्वा ठातुं न सक्कोति, अथ खो नं ओघे परित्तं उदकं विय इदमेव अप्पमाणं कम्मं अज्झोत्थरित्वा अत्तनो विपाकं निब्बत्तेति. दहरतग्गेति दहरकालतो पट्ठाय.

नायं कायो आदायगमनियोति इमं कायं गहेत्वा परलोकं गन्तुं नाम न सक्काति अत्थो. चित्तन्तरोति चित्तकारणो, अथ वा चित्तेनेव अन्तरिको. एकस्सेव हि चुतिचित्तस्स अनन्तरा दुतिये पटिसन्धिचित्ते देवो नाम होति, नेरयिको नाम होति, तिरच्छानगतो नाम होति. पुरिमनयेपि चित्तेन कारणभूतेन देवो नेरयिको वा होतीति अत्थो. सब्बं तं इध वेदनीयन्ति दिट्ठधम्मवेदनीयकोट्ठासवनेतं वुत्तं. न तं अनुगं भविस्सतीति मेत्ताय उपपज्जवेदनीयभावस्स उपच्छिन्नत्ता उपपज्जवेदनीयवसेन न अनुगतं भविस्सति. इदं सोतापन्नसकदागामिअरियपुग्गलानं पच्चवेक्खणं वेदितब्बं. अनागामितायाति झानानागामिताय. इधपञ्ञस्साति इमस्मिं सासने पञ्ञा इधपञ्ञा नाम, सासनचरिताय अरियपञ्ञाय ठितस्स अरियसावकस्साति अत्थो. उत्तरिविमुत्तिन्ति अरहत्तं. दसमं उत्तानत्थमेवाति.

करजकायवग्गो पठमो.

(२२) २. सामञ्ञवग्गवण्णना

२२१. दुतियस्स पठमं आदिं कत्वा सब्बा पेय्यालतन्ति उत्तानत्थायेवाति.

मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय

दसकनिपातस्स संवण्णना निट्ठिता.