६. देवतानुस्सतिकथावण्णना
१६२. अरियमग्गवसेनाति अरियमग्गस्स अधिगमवसेन. समुदागतेहीति सम्मदेव तदुप्पत्तितो उद्धं आगतेहि. यादिसा हि अरियानं सन्ताने लोकियापि सद्धादयो, न तादिसा कदाचिपि पोथुज्जनिका सद्धादयो. दिब्बन्तीति देवा. चत्तारो महाराजानो एतेसन्ति चतुमहाराजा, ते एव चातुमहाराजिका. तेत्तिंस सहपुञ्ञकारिनो तत्थूपपन्नाति तंसहचरितं ठानं तावतिंसं, तन्निवासिनोपि देवा तंसहचरणतो एव तावतिंसा. दुक्खतो याता अपयाताति यामा. तुसाय पीतिया इता उपगताति तुसिता. भोगानं निम्माने रति एतेसन्ति निम्मानरतिनो. परनिम्मितेसु भोगेसु वसं वत्तेन्तीति परनिम्मितवसवत्तिनो. ब्रह्मानं कायो समूहो ब्रह्मकायो, तप्परियापन्नताय तत्थ भवाति ब्रह्मकायिका. ततुत्तरीति ततो ब्रह्मकायिकेहि उत्तरि, उपरि परित्ताभादिके सन्धाय वदति. देवता सक्खिट्ठाने ठपेत्वाति ‘‘यथारूपाय मग्गेनागताय सद्धाय समन्नागता, सीलेन सुतेन चागेन पञ्ञाय समन्नागता इतो चुता तत्थ उपपन्ना ता देवता, मय्हम्पि तथारूपा सद्धा सीलं सुतं चागो पञ्ञा च संविज्जती’’ति देवता सक्खिट्ठाने ठपेत्वा सक्खिं ओतारेन्तेन विय अत्तनो सद्धादिगुणा अनुस्सरितब्बा.
यदि एवं सुत्ते (अ. नि. ६.१०) उभयगुणानुस्सरणं वुत्तं, तं कथन्ति अनुयोगं मनसि कत्वा आह ‘‘सुत्ते पना’’तिआदि. तत्थ किञ्चापि वुत्तन्ति ‘‘अत्तनो च, तासञ्च देवतान’’न्ति उभयं समधुरं विय सुत्ते (अ. नि. ६.१०) किञ्चापि वुत्तं. अथ खो तं ‘‘देवतानं सद्धञ्च सीलञ्चा’’तिआदिवचनं. सक्खिट्ठाने ठपेतब्बन्ति ‘‘वुत्त’’न्ति परतो पदं आनेत्वा सम्बन्धितब्बं. किमत्थं पन सक्खिट्ठाने ठपनन्ति आह ‘‘देवतानं अत्तनो सद्धादीहि समानगुणदीपनत्थन्ति वेदितब्ब’’न्ति. कस्मा पन सुत्ते यथारुतवसेन अत्थं अग्गहेत्वा एवं अत्थो गय्हतीति आह ‘‘अट्ठकथायञ्ही’’तिआदि.
१६३. तस्माति यस्मा अट्ठकथायं देवता सक्खिट्ठाने ठपेत्वा अत्तनो गुणानुस्सरणं दळ्हं कत्वा वुत्तं, सीलचागानुस्सतीसु विय इधापि अत्तनो गुणानुस्सरणं झानुप्पत्तिनिमित्तं युत्तं, तस्मा. पुब्बभागे भावनारम्भे. अपरभागेति यथा भावेन्तस्स उपचारज्झानं इज्झति, तथा भावनाकाले. यदि अत्तनो एव इध गुणा अनुस्सरितब्बा, कथमयं देवतानुस्सतीति आह ‘‘देवतानं गुणसदिससद्धादिगुणानुस्सरणवसेना’’ति. तेन सदिसकप्पनाय अयं भावना ‘‘देवतानुस्सती’’ति वुत्ता, न देवतानं, तासं गुणानं वा अनुस्सरणेनाति दस्सेति. पुब्बभागे वा पवत्तं देवतागुणानुस्सरणं उपादाय ‘‘देवतानुस्सती’’ति इमिस्सा समञ्ञा वेदितब्बा. तथा हि वक्खति ‘‘पुब्बभागे देवता आरब्भ पवत्तचित्तवसेना’’ति. सेसं सुविञ्ञेय्यमेव.
पकिण्णककथावण्णना
१६४. एतासन्ति एतासं बुद्धानुस्सतिआदीनं छन्नं अनुस्सतीनं. वित्थारदेसनायन्ति वित्थारवसेन पवत्तदेसनायं, महानामसुत्तं (अ. नि. ६.१०; ११.११) सन्धाय वदति. भगवातिआदीनं अत्थन्ति भगवातिआदीनं पदानं अत्थं. अत्थवेदन्ति वा हेतुफलं पटिच्च उप्पन्नं तुट्ठिमाह. धम्मवेदन्ति हेतुं पटिच्च उप्पन्नं तुट्ठिं. ‘‘आरकत्ता अरह’’न्ति अनुस्सरन्तस्स हि यं तं भगवतो किलेसेहि आरकत्तं, सो हेतु. ञापको चेत्थ हेतु अधिप्पेतो, न कारको, सम्पापको वा. योनेन ञायमानो अरहत्तत्थो, तं फलं. इमिना नयेन सेसपदेसुपि हेतुफलविभागो वेदितब्बो. धम्मानुस्सतिआदीसुपि ‘‘आदिमज्झपरियोसानकल्याणत्ता’’तिआदिना, ‘‘यस्मा पन सा सम्मापटिपदा’’तिआदिना च तत्थ तत्थ हेतुअपदेसो कतोयेवाति. धम्मूपसंहितन्ति यथावुत्तहेतुहेतुफलसङ्खातगुणूपसंहितं. गुणेति अत्तनो गुणे.
१६५. अरियसावकानञ्ञेव इज्झन्तीति अरियसावकानं इज्झन्तियेवाति उत्तरपदावधारणं दट्ठब्बं, अवधारणञ्च तेसं सुखसिद्धिदस्सनत्थं. तेनाह ‘‘तेसं ही’’तिआदि. न पुथुज्जनानं सब्बेन सब्बं इज्झन्तीति. तथा हि वक्खति ‘‘एवं सन्तेपी’’तिआदि. यदि एवं, कस्मा महानामसुत्तादीसु (अ. नि. ६.१०; ११.११) बहूसु सुत्तेसु अरियसावकग्गहणं कतन्ति? तेसं बहुलविहारतायाति आचरिया.
निक्खन्तन्ति निग्गतं निस्सटं. मुत्तन्ति विस्सट्ठं. वुट्ठितन्ति अपेतं. सब्बमेतं विक्खम्भनमेव सन्धाय वदति. गेधम्हाति पलिबोधतो. इदम्पीति बुद्धानुस्सतिवसेन लद्धं उपचारज्झानमाह. आरम्मणं करित्वाति पच्चयं कत्वा, पादकं कत्वाति अत्थो. विसुज्झन्तीति परमत्थविसुद्धिं पापुणन्ति.
सम्बाधेति तण्हासंकिलेसादिना सम्पीळे संकटे घरावासे. ओकासाधिगमो लोकुत्तरधम्मस्स अधिगमाय अधिगन्तब्बओकासो. अनुस्सतियो एव अनुस्सतिट्ठानानि. विसुद्धिधम्माति विसुज्झनसभावा, विसुज्झितुं वा भब्बा. परमत्थविसुद्धिधम्मतायाति परमत्थविसुद्धिया निब्बानस्स भब्बभावेन. उपक्कमेनाति पयोगेन. परियोदपनाति विसोधना.
१६६. एवं सन्तेपीति एवं महानामसुत्तादीसु अनेकेसु सुत्तेसु अरियसावकस्सेव वसेन छसु अनुस्सतीसु देसितासुपि. यस्सानुभावेनाति यस्स चित्तप्पसादस्स बलेन. पीतिं पटिलभित्वाति अनुस्सववसेन बुद्धारम्मणं पीतिं उप्पादेत्वा.
छअनुस्सतिनिद्देसवण्णना निट्ठिता.
इति सत्तमपरिच्छेदवण्णना.