७. छअनुस्सतिनिद्देसवण्णना
१. बुद्धानुस्सतिकथावण्णना
१२३. असुभानन्तरन्ति असुभकम्मट्ठानानन्तरं. अनुस्सतीसूति अनुस्सतिकम्मट्ठानेसु. ‘‘अनु अनु सति अनुस्सती’’ति इममत्थं दस्सेतुं ‘‘पुनप्पुनं उप्पज्जनतो’’ति वत्वा न एत्थ अनु-सद्दयोगेन सति-सद्दो अत्थन्तरवाचकोति दस्सेतुं ‘‘सतियेव अनुस्सती’’ति वुत्तं. तेन नायमनु-सद्दो ‘‘उपलब्भती’’तिआदीसु उप-सद्दो विय अनत्थको, नापि ‘‘सञ्जाननं पजानन’’न्तिआदीसु सं-सद्दादयो विय अत्थन्तरदीपकोति दस्सेति. ‘‘पवत्तितब्बट्ठानम्हियेव वा पवत्तत्ता’’ति इमिना च अनुस्सतिया अनुस्सरितब्बानुरूपता वुत्ता होतीति पवत्तकस्सेव अनुरूपतं दस्सेतुं ‘‘कुलपुत्तस्स अनुरूपा’’ति वुत्तं, सद्धापब्बजितस्स वा कुलपुत्तस्स. अनुरूपता नाम पवत्तितब्बट्ठानस्स अनुरूपताय एव होतीति पवत्तकस्सेव अनुरूपता वुत्ता, न उभयस्स. अनुरूपाति च युत्ताति अत्थो. बुद्धन्ति ये गुणे उपादाय भगवति ‘‘बुद्धो’’ति पञ्ञत्ति, ते गुणे एकज्झं गहेत्वा वुत्तं. तेनाह ‘‘बुद्धगुणारम्मणाय सतिया एतमधिवचन’’न्ति. आरब्भाति आलम्बित्वा. धम्मन्ति परियत्तिधम्मेन सद्धिं नवविधम्पि लोकुत्तरधम्मं. ननु च निब्बानं विसुं कम्मट्ठानभावेन वक्खति? किञ्चापि वक्खति, धम्मभावसामञ्ञेन पन मग्गफलेहि सद्धिं इध पाळिया सङ्गहितत्ता तस्सापि धम्मानुस्सतिकम्मट्ठाने गहणं दट्ठब्बं, असङ्खतामतादिभावेन पन मग्गफलेहि विसिट्ठताय तस्स विसुं कम्मट्ठानभावेन गहणं कतं. सीलानुस्सतिआदीनं पन तिस्सन्नं अनुस्सतीनं विसुं कम्मट्ठानभावेन गहणं योगावचरस्स अत्तनो एव सीलस्स चागस्स सद्धादीनञ्च अनुस्सतिट्ठानभावेन गहेतब्बत्ता. रूपकायं गताति अत्तनो करजकायं आरब्भ आरम्मणकरणवसेन पवत्ता. कायेति काये विसयभूते. कोट्ठासनिमित्तारम्मणायाति केसादिकोट्ठासेसु पटिक्कूलनिमित्तारम्मणाय. इतो पुरिमासु सत्तसु अनुस्सतीसु नत्थि निमित्तुप्पत्ति, इध अत्थीति दस्सनत्थं निमित्त-ग्गहणं. तथा अस्सासपस्सासनिमित्तारम्मणायाति एत्थापि. उपसमन्ति सब्बसङ्खारूपसमं, निब्बानन्ति अत्थो.
१२४. अवेच्च बुद्धगुणे याथावतो ञत्वा उप्पन्नो पसादो अवेच्चप्पसादो, अरियमग्गेन आगतप्पसादो, तंसदिसोपि वा यो दिट्ठिगतवातेहि अचलो असम्पकम्पियो, तेन समन्नागतेन. तादिसस्स बुद्धानुस्सतिभावना इज्झति, न इतरस्स. पतिरूपसेनासनेति यथावुत्तअट्ठारसदोसवज्जिते पञ्चङ्गसमन्नागते सेनासने. रहोगतेनाति रहसि गतेन. तेन कायविवेकं दस्सेति. पटिसल्लीनेनाति नानारम्मणतो पटिसल्लीनेन, बहिद्धा पुथुत्तारम्मणतो पटिक्कमापेत्वा कम्मट्ठाने सल्लीनेन, सुसिलिट्ठचित्तेनाति अत्थो. एवन्ति इमाय पाळिया आगतनयेन.
सो भगवाति एत्थ सोति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके ‘‘भगवा’’ति पत्थटकित्तिसद्दो, सो. भगवाति इदं सत्थु नामकित्तनं. तथा हि वुत्तं ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि. १९८, २१०; चूळनि. अजितमाणवपुच्छानिद्देस २). परतो पन भगवाति गुणकित्तनं. अरहन्तिआदीसु नवसु ठानेसु पच्चेकं इतिपि-सद्दं योजेत्वा बुद्धगुणा अनुस्सरितब्बाति दस्सेन्तो ‘‘इतिपि अरहं…पे… इतिपि भगवाति अनुस्सरती’’ति आह. ‘‘इतिपेतं भूतं इतिपेतं तच्छ’’न्तिआदीसु (दी. नि. १.६) विय इति-सद्दो आसन्नपच्चक्खकरणत्थो, पि-सद्दो सम्पिण्डनत्थो. तेन नेसं बहुभावो दीपितो, तानि च गुणसल्लक्खणकारणानि भावेन्तेन चित्तस्स सम्मुखीभूतानि कातब्बानीति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’ति आह.
१२५. दूरता नाम आसन्नता विय उपादायुपादाय वुच्चतीति परमुक्कंसगतं दूरभावं दस्सेन्तो ‘‘सुविदूरविदूरे’’ति आह, सुट्ठु विदूरभावेनेव विदूरेति अत्थो. सा पनस्स किलेसतो दूरता तेसं सब्बसो पहीनत्ताति दस्सेन्तो आह ‘‘मग्गेन किलेसानं विद्धंसितत्ता’’ति. ननु अञ्ञेसम्पि खीणासवानं ते पहीना एवाति अनुयोगं मनसि कत्वा वुत्तं ‘‘सवासनान’’न्ति. न हि भगवन्तं ठपेत्वा अञ्ञे सह वासनाय किलेसे पहातुं सक्कोन्ति, एतेन अञ्ञेहि असाधारणं भगवतो अरहत्तन्ति दस्सितं होति. का पनायं वासना नाम? पहीनकिलेसस्सापि अप्पहीनकिलेसस्स पयोगसदिसपयोगहेतुभूतो किलेसनिहितो सामत्थियविसेसो आयस्मतो पिलिन्दवच्छस्स (पारा. ६२१) वसलसमुदाचारनिमित्तं विय. कथं पन ‘‘आरका’’ति वुत्ते ‘‘किलेसेही’’ति अयमत्थो लब्भतीति? सामञ्ञजोतनाय विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स अनुपयोजेतब्बतो, ‘‘आरकास्स होन्ति पापका अकुसला धम्मा’’तिआदीनि (म. नि. १.४३४) सुत्तपदानेत्थ उदाहरितब्बानि. आरकाति चेत्थ आ-कारस्स रस्सत्तं, क-कारस्स च ह-कारं, सानुसारं कत्वा निरुत्तिनयेन ‘‘अरह’’न्ति पदसिद्धि वेदितब्बा. वुत्तमेवत्थं सुखग्गहणत्थं ‘‘सो ततो आरका नामा’’ति गाथाबन्धमाह. तत्थ समञ्जनसीलो समङ्गी, न समङ्गिता असमङ्गिता असमन्नागमो असहवुत्तिता.
१२६. अनत्थचरणेन किलेसा एव अरयोति किलेसारयो. ‘‘अरीनं हतत्ता अरिहा’’ति वत्तब्बे निरुत्तिनयेन ‘‘अरह’’न्ति वुत्तं.
१२७. यञ्चेतं संसारचक्कन्ति सम्बन्धो. रथचक्कस्स नाभि विय मूलावयवभूतं अन्तो, बहि च समवट्ठितं अविज्जाभवतण्हामयं द्वयन्ति वुत्तं ‘‘अविज्जाभवतण्हामयनाभी’’ति. नाभिया, नेमिया च सम्बन्धा अरसदिसा पच्चयफलभूतेहि अविज्जातण्हाजरामरणेहि सम्बन्धा पुञ्ञादिसङ्खाराति वुत्तं ‘‘पुञ्ञादिअभिसङ्खारार’’न्ति. तत्थ तत्थ भवे परियन्तभावेन पाकटं जरामरणन्ति तं नेमिट्ठानियं कत्वा आह ‘‘जरामरणनेमी’’ति. यथा च रथचक्कपवत्तिया पधानकारणं अक्खो, एवं संसारचक्कपवत्तिया आसवसमुदयोति आह ‘‘आसवसमुदयमयेन अक्खेन विज्झित्वा’’ति. आसवा एव अविज्जादीनं कारणत्ता आसवसमुदयो. यथाह ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३). विपाककटत्तारूपप्पभेदो कामभवादिको तिभवो एव रथो, तस्मिं तिभवरथे. अत्तनो पच्चयेहि समं, सब्बसो वा आदितो पट्ठाय योजितन्ति समायोजितं. आदिरहितं कालं पवत्ततीति कत्वा अनादिकालप्पवत्तं.
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्बोच्छिन्नं वत्तमाना, ‘संसारो’ति पवुच्चती’’ति. (दी. नि. अट्ठ. २.९५ अपसादनावण्णना; सं. नि. अट्ठ. २.२.६०; अ. नि. अट्ठ. २.४.१९९) –
एवं वुत्तसंसारोव संसारचक्कं. अनेनाति भगवता. बोधिमण्डेति बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने, काले वा. वीरियपादेहीति संकिलेसवोदानपक्खियेसु सन्निरुम्भनसन्निक्खिपनकिच्चताय द्विधा पवत्तेहि अत्तनो वीरियसङ्खातेहि पादेहि. सीलपथवियन्ति पतिट्ठट्ठेन सीलमेव पथवी, तस्सं. पतिट्ठायाति सम्पादनवसेन पतिट्ठहित्वा. सद्धाहत्थेनाति अनवज्जधम्मादानसाधनतो सद्धाव हत्थो, तेन. कम्मक्खयकरन्ति कायकम्मादिभेदस्स सब्बस्सपि कम्मस्स खयकरणतो कम्मक्खयकरं. ञाणफरसुन्ति समाधिसिलायं सुनिसितमग्गञाणफरसुं गहेत्वा.
१२८. एवं ‘‘अरानं हतत्ता’’ति एत्थ वुत्तअरघाते संसारं चक्कं विय चक्कन्ति गहेत्वा अत्थयोजनं कत्वा इदानि पटिच्चसमुप्पाददेसनाक्कमेनपि तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. तत्थ अनमतग्गं संसारवट्टन्ति अनु अनु अमतग्गं अविञ्ञातकोटिकं संसारमण्डलं. सेसा दस धम्मा सङ्खारादयो जातिपरियोसाना अरा. कथं? नाभिया अविज्जाय मूलतो, नेमिया जरामरणेन अन्ततो सम्बन्धत्ताति दस्सेन्तो आह ‘‘अविज्जामूलकत्ता जरामरणपरियन्तत्ता चा’’ति. दुक्खादीसूति दुक्खसमुदयनिरोधमग्गेसु. तत्थ दुक्खे अञ्ञाणं तदन्तोगधत्ता, तप्पटिच्छादनतो च, सेसेसु पटिच्छादनतोव. दुक्खन्ति चेत्थ दुक्खं अरियसच्चं अधिप्पेतन्ति तं कामभवादिवसेन तिधा भिन्दित्वा तथा तप्पटिच्छादिकं अविज्जं, अविज्जादिपच्चये तीसु भवेसु सङ्खारादिके च पटिपाटिया दस्सेन्तो ‘‘कामभवे च अविज्जा’’तिआदिमाह. तत्थ कामभवे अविज्जाति कामभवे आदीनवप्पटिच्छादिका अविज्जा. रूपभवे अरूपभवे अविज्जाति एत्थापि एसेव नयो. कामभवे सङ्खारानन्ति कामभूमिपरियापन्नानं सङ्खारानं, कामभवे वा निप्फादेतब्बा ये सङ्खारा, तेसं कामभवूपपत्तिनिब्बत्तकसङ्खारानन्ति अत्थो. पच्चयो होतीति पुञ्ञाभिसङ्खारानं ताव आरम्मणपच्चयेन चेव उपनिस्सयपच्चयेन चाति द्विधा पच्चयो होति. अपुञ्ञाभिसङ्खारेसु सहजातस्स सहजातादिवसेन, असहजातस्स अनन्तरसमनन्तरादिवसेन, नानन्तरस्स पन आरम्मणवसेन चेव उपनिस्सयवसेन च पच्चयो होति. अरूपभवे सङ्खारानन्ति आनेञ्जाभिसङ्खारानं. पच्चयो होति उपनिस्सयवसेनेव. इमस्मिं पनत्थे एत्थ वित्थारियमाने अतिप्पपञ्चो होति, सयमेव च परतो आगमिस्सतीति न नं वित्थारयाम.
तिण्णं आयतनानन्ति चक्खुसोतमनायतनानं. एकस्सायतनस्साति मनायतनस्स. इमिना नयेन फस्सादीनम्पि विभागो वेदितब्बो. तत्थ तत्थ सा सा तण्हाति रूपतण्हादिभेदा तत्थ तत्थ कामभवादीसु उप्पज्जनका तण्हा.
तण्हादिमूलिका कथा अतिसंखित्ताति तं, उपादानभवे च विभजित्वा वित्थारेत्वा दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. तत्थ ‘‘कामे परिभुञ्जिस्सामी’’ति इमिना कामतण्हापवत्तिमाह. तथा ‘‘सग्गसम्पत्तिं अनुभविस्सामी’’तिआदीहि. सा पन तण्हा यस्मा भुसमादानवसेन पवत्तमाना कामुपादानं नाम होति, तस्मा वुत्तं ‘‘कामुपादानपच्चया’’ति. तथेवाति कामुपादानपच्चया एव.
ब्रह्मलोकसम्पत्तिन्ति रूपीब्रह्मलोके सम्पत्तिं. ‘‘सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा’’ति (महानि. १; चूळनि. अजितमाणवपुच्छानिद्देस ८ थोक विसदिसं) वचनतो भवरागोपि कामुपादानमेवाति कत्वा ‘‘कामुपादानपच्चया एव मेत्तं भावेती’’तिआदि वुत्तं. सेसुपादानमूलिकासुपीति एत्थायं योजना – इधेकच्चो ‘‘नत्थि परो लोको’’ति नत्थिकदिट्ठिं गण्हाति, सो दिट्ठुपादानपच्चया कायेन दुच्चरितं चरतीतिआदि वुत्तनयेन योजेतब्बं. अपरो ‘‘असुकस्मिं सम्पत्तिभवे अत्ता उच्छिज्जती’’ति उच्छेददिट्ठिं गण्हाति, सो तत्रूपपत्तिया कायेन सुचरितं चरतीतिआदि वुत्तनयेनेव योजेतब्बं. अपरो ‘‘रूपी मनोमयो हुत्वा अत्ता उच्छिज्जती’’ति रूपूपपत्तिया मग्गं भावेति. भावनापारिपूरियाति सब्बं वुत्तनयेनेव वेदितब्बं. अपरो ‘‘अरूपभवे उप्पज्जित्वा अत्ता उच्छिज्जती’’ति अरूपूपपत्तिया मग्गं भावेति. भावनापारिपूरियाति सब्बं वुत्तनयेनेव वेदितब्बं. एताहियेव अत्तवादुपादानमूलिकापि योजना संवण्णिताति दट्ठब्बं. एवं दिट्ठधम्मनिब्बानवादवसेनापि योजना वेदितब्बा. अपरो ‘‘सीलेन सुद्धी’’ति ‘‘असुद्धिमग्गं सुद्धिमग्गो’’ति परामसन्तो सीलब्बतुपादानपच्चया कायेन दुच्चरितं चरतीतिआदिना सब्बं वुत्तनयेनेव योजेतब्बं.
इदानि य्वायं संसारचक्कं दस्सेन्तेन ‘‘कामभवे अविज्जा कामभवे सङ्खारानं पच्चयो होती’’तिआदिना अविज्जादीनं पच्चयभावो, सङ्खारादीनं पच्चयुप्पन्नभावो च दस्सितो, तमेव पटिसम्भिदामग्गपाळिं आनेत्वा निगमनवसेन दस्सेन्तो ‘‘एवं अय’’न्तिआदिमाह. तत्थ यथा सङ्खारा हेतुनिब्बत्ता, एवं अविज्जापि कामासवादिना सहेतुका एवाति आह ‘‘उभोपेते हेतुसमुप्पन्ना’’ति. पच्चयपरिग्गहेति नामरूपस्स पच्चयानं अविज्जादीनं परिच्छिज्ज गहणे, निप्फादेतब्बे भुम्मं. पञ्ञाति कङ्खावितरणविसुद्धिसङ्खाता पकारतो जानना. धम्मट्ठितिञाणन्ति पटिच्चसमुप्पादावबोधो. इदञ्च धम्मट्ठितिञाणं यस्मा अद्धात्तये कङ्खामलवितरणवसेन पवत्तति, तस्मा ‘‘अतीतम्पि अद्धान’’न्तिआदि वुत्तं. एतेनेव नयेनाति एतेन ‘‘अविज्जा हेतू’’तिआदिना अविज्जायं वुत्तेन नयेन. ‘‘सङ्खारा हेतु, विञ्ञाणं हेतुसमुप्पन्न’’न्तिआदिना (पटि. म. १.४६) सब्बपदानि वित्थारेतब्बानि.
संखिप्पन्ति एत्थ अविज्जादयो, विञ्ञाणादयो चाति सङ्खेपो, हेतु, विपाको च. हेतु विपाकोति वा संखिप्पतीति सङ्खेपो, अविज्जादयो विञ्ञाणादयो च. सङ्खेपभावसामञ्ञेन पन एकवचनं कतन्ति दट्ठब्बं. ते पन सङ्खेपा अतीते हेतु, एतरहि विपाको, एतरहि हेतु, आयतिं विपाकोति एवं कालविभागेन चत्तारो जाता. तेनाह ‘‘पुरिमसङ्खेपो चेत्थ अतीतो अद्धा’’तिआदि. सङ्खेप-सद्दो वा भागाधिवचनन्ति अतीतो हेतुभागो पठमो सङ्खेपो. एस नयो सेसेसुपि. तण्हुपादानभवा गहिताव होन्ति किलेसकम्मभावसामञ्ञतो, तेहि विना अविज्जासङ्खारानं सकिच्चाकरणतो च. कम्मं तण्हा च तस्स सहकारीकारणं हुत्वा वट्टनत्थेन कम्मवट्टं.
विञ्ञाणनामरूपसळायतनफस्सवेदनानं जातिजराभङ्गावत्था ‘‘जातिजरामरण’’न्ति वुत्ताति आह ‘‘जातिजरामरणापदेसेनविञ्ञाणादीनं निद्दिट्ठत्ता’’ति. इमेति विञ्ञाणादयो. आयतिं विपाकवट्टं पच्चुप्पन्नहेतुतो भावीनं अनागतानं गहितत्ता. तेति अविज्जादयो. आकारतोति सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्गहे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा, ततो आकारतो. वीसतिविधा होन्ति अतीतेहेतुपञ्चकादिभेदतो.
सङ्खारविञ्ञाणानं अन्तरा एको सन्धीति हेतुतो फलस्स अविच्छेदप्पवत्तिभावतो हेतुफलसम्बन्धभूतो एको सन्धि. तथा भवजातीनमन्तरा. वेदनातण्हानमन्तरा पन फलतो हेतुनो अविच्छेदप्पवत्तिभावतो फलहेतुसम्बन्धभूतो एको सन्धि. फलभूतोपि हि धम्मो अञ्ञस्स हेतुसभावस्स धम्मस्स पच्चयो होतीति.
इतीति वुत्तप्पकारपरामसनं. तेनाह ‘‘चतुसङ्खेप’’न्तिआदि. सब्बाकारतोति इध वुत्तेहि, अवुत्तेहि च पटिच्चसमुप्पादविभङ्गे (विभ. २२५ आदयो), अनन्तनयसमन्तपट्ठानादीसु च आगतेहि सब्बेहि आकारेहि. जानातीति अवबुज्झति. पस्सतीति दस्सनभूतेन ञाणचक्खुना पच्चक्खतो पस्सति. अञ्ञाति पटिविज्झतीति तेसंयेव वेवचनं. तन्ति तं जाननं. ञातट्ठेनाति यथासभावतो जाननट्ठेन. पजाननट्ठेनाति अनिच्चादीहि पकारेहि पटिविज्झनट्ठेन.
इदानि यदत्थमिदं भवचक्कं इधानीतं, तं दस्सेतुं ‘‘इमिना’’तिआदि वुत्तं. तत्थ ते धम्मेति ते अविज्जादिके धम्मे. यथाभूतं ञत्वाति महावजिरञाणेन याथावतो जानित्वा. निब्बिन्दन्तो बलवविपस्सनाय विरज्जन्तो विमुच्चन्तो अरियमग्गेहि अरे हनीति योजना. तत्थ यदा भगवा विरज्जति विमुच्चति, तदा अरे हनति नाम. ततो परं पन अभिसम्बुद्धक्खणं गहेत्वा वुत्तं ‘‘हनि विहनि विद्धंसेसी’’ति.
१२९. चक्कवत्तिनो अचेतने चक्करतने उप्पन्ने तत्थेव लोको पूजं करोति, अञ्ञत्थ पूजाविसेसा पच्छिज्जन्ति, किमङ्गं पन सम्मासम्बुद्धे उप्पन्नेति दस्सेन्तो ‘‘उप्पन्ने तथागते’’तिआदिमाह. को पन वादो अञ्ञेसं पूजाविसेसानन्ति यथावुत्ततो अञ्ञेसं अमहेसक्खेहि देवमनुस्सेहि करियमानानं नातिउळारानं पूजाविसेसानं अरहभावे का नाम कथा. अत्थानुरूपन्ति अरहत्तत्थस्स अनुरूपं अन्वत्थं.
१३०. असिलोकभयेनाति अकित्तिभयेन. रहो पापं करोन्ति ‘‘मा नं कोचि जञ्ञा’’ति एस भगवा न कदाचि करोति पापहेतूनं बोधिमण्डे एव सुप्पहीनत्ता. अपरो नयो – आरकाति अरहं, सुविदूरभावतोइच्चेव अत्थो. कुतो पन सुविदूरभावतोति? ये अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा, ततो एव अप्पहीनरागदोसमोहा अरियधम्मस्स अकोविदा अरियधम्मे अविनीता अरियधम्मस्स अदस्साविनो अप्पटिपन्ना मिच्छापटिपन्ना च, ततो सुविदूरभावतो. वुत्तञ्हेतं भगवता –
‘‘सङ्घाटिकण्णेचेपि मे, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पादे पादं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो. अथ खो सो आरकाव मय्हं, अहञ्च तस्स. तं किस्स हेतु? धम्मं हि सो, भिक्खवे, भिक्खु न पस्सति, धम्मं अपस्सन्तो मं न पस्सती’’ति (इतिवु. ९२).
यथावुत्तपुग्गला हि सचेपि सायं पातं सत्थु सन्तिकावचराव सियुं, न ते तावता ‘‘सत्थु सन्तिका’’ति वत्तब्बा, तथा सत्थापि नेसं. इति असप्पुरिसानं आरका दूरेति अरहं.
‘‘सम्मा न पटिपज्जन्ति, ये निहीनासया नरा;
आरका तेहि भगवा, दूरे तेनारहं मतो’’ति.
तथा आरकाति अरहं, आसन्नभावतोति अत्थो. कुतो पन आसन्नभावतोति? ये भावितकाया भावितसीला भावितचित्ता भावितपञ्ञा, ततो एव पहीनरागदोसमोहा अरियधम्मस्स कोविदा अरियधम्मे सुविनीता अरियधम्मस्स दस्साविनो सम्मापटिपन्ना, ततो आसन्नभावतो. वुत्तम्पि चेतं भगवता –
‘‘योजनसते चेपि मे, भिक्खवे, भिक्खु विहरेय्य, सो च होति अनभिज्झालु कामेसु न तिब्बसारागो अब्यापन्नचित्तो अप्पदुट्ठमनसङ्कप्पो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो. अथ खो सो सन्तिकेव मय्हं, अहञ्च तस्स. तं किस्स हेतु? धम्मं हि सो, भिक्खवे, भिक्खु पस्सति, धम्मं पस्सन्तो मं पस्सती’’ति (इतिवु. ९२).
तथारूपा हि पुग्गला सत्थु योजनसहस्सन्तरिकापि होन्ति, न तावता ते ‘‘सत्थु दूरचारिनो’’ति वत्तब्बा, तथा सत्थापि नेसं. इति सप्पुरिसानं आरका आसन्नेति अरहं.
ये सम्मा पटिपज्जन्ति, सुप्पणीताधिमुत्तिका;
आरका तेहि आसन्ने, तेनापि अरहं जिनो.
ये इमे रागादयो पापधम्मा यस्मिं सन्ताने उप्पज्जन्ति, तस्स दिट्ठधम्मिकम्पि सम्परायिकम्पि अनत्थं आवहन्ति. निब्बानगामिनिया पटिपदाय एकंसेनेव उजुविपच्चनीकभूता च, ते अत्तहितं, परहितञ्च परिपूरेतुं सम्मा पटिपज्जन्तेहि साधूहि दूरतो रहितब्बा परिच्चजितब्बा पहातब्बाति रहा नाम, ते च यस्मा भगवतो बोधिमूलेयेव अरियमग्गेन सब्बसो पहीना समुच्छिन्ना. यथाह –
‘‘तथागतस्स खो, ब्राह्मण, रागो पहीनो दोसो मोहो, सब्बेपि पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा’’ति (पारा. ९-१० अत्थतो समानं).
तस्मा सब्बसो न सन्ति एतस्स रहाति अरहोति वत्तब्बे ओकारस्स सानुसारं अ-कारादेसं कत्वा ‘‘अरह’’न्ति वुत्तं.
पापधम्मा रहा नाम, साधूहि रहितब्बतो;
तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो.
ये ते सब्बसो परिञ्ञातक्खन्धा पहीनकिलेसा भावितमग्गा सच्छिकतनिरोधा अरहन्तो खीणासवा, ये च सेक्खा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, ये च परिसुद्धपयोगा कल्याणज्झासया सद्धासीलसुतादिगुणसम्पन्ना पुग्गला, तेहि न रहितब्बो न परिच्चजितब्बो, ते च भगवताति अरहं. तथा हि अरियपुग्गला सत्थारा दिट्ठधम्मस्स पच्चक्खकरणतो सत्थु धम्मसरीरेन अविरहिता एव होन्ति. यथाह आयस्मा पिङ्गियो –
‘‘पस्सामि नं मनसा चक्खुनाव,
रत्तिन्दिवं ब्राह्मण अप्पमत्तो;
नमस्समानो विवसेमि रत्तिं,
तेनेव मञ्ञामि अविप्पवासं.
‘‘सद्धा च पीति च मनो सति च,
नापेन्तिमे गोतमसासनम्हा;
यं यं दिसं वजति भूरिपञ्ञो,
स तेन तेनेव नतोहमस्मी’’ति. (सु. नि. ११४८-११४९);
तेनेव च ते अञ्ञं सत्थारं न उद्दिसन्ति. यथाह –
‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसेय्याति नेतं ठानं विज्जती’’ति (म. नि. ३.१२८; अ. नि. १.२७६).
कल्याणपुथुज्जनापि येभुय्येन सत्थरि निच्चलसद्धा एव होन्ति. इति सुप्पटिपन्नेहि पुरिसविसेसेहि अविरहितब्बतो, तेसञ्च अविरहनतो न सन्ति एतस्स रहा परिच्चजनका, नत्थि वा एतस्स रहो साधूहि परिच्चजितब्बताति अरहं.
‘‘ये सच्छिकतसद्धम्मा, अरिया सुद्धगोचरा;
न तेहि रहितो होति, नाथो तेनारहं मतो’’ति.
रहोति च गमनं वुच्चति, भगवतो च नानागतीसु परिब्भमनसङ्खातं संसारे गमनं नत्थि कम्मक्खयकरेन अरियमग्गेन बोधिमूलेयेव सब्बसो ससम्भारस्स कम्मवट्टस्स विद्धंसितत्ता. यथाह –
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति. (अ. नि. ४.३६);
एवं नत्थि एतस्स रहोगमनं गतीसु पच्चाजातीतिपि अरहं.
रहो वा गमनं यस्स, संसारे नत्थि सब्बसो;
पहीनजातिमरणो, अरहं सुगतो मतो.
पासंसत्ता वा भगवा अरहं. अक्खरचिन्तका हि पसंसायं अरह-सद्दं वण्णेन्ति. पासंसभावो च भगवतो अनञ्ञसाधारणो यथाभुच्चगुणाधिगतो सदेवके लोके सुप्पतिट्ठितो. तथा हेस अनुत्तरेन सीलेन अनुत्तरेन समाधिना अनुत्तराय पञ्ञाय अनुत्तराय विमुत्तिया असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलोति एवं तस्मिं तस्मिं गुणे विभजित्वा वुच्चमाने पण्डितपुरिसेहि देवेहि ब्रह्मेहि भगवता वा पन परियोसापेतुं असक्कुणेय्यरूपो. इति पासंसत्तापि भगवा अरहं.
गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके;
तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो.
एवं सब्बथापि –
‘‘आरका मन्दबुद्धीनं, आरका च विजानतं;
रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो;
भवेसु च रहाभावा, पासंसा अरहं जिनो’’ति.
१३१. सम्माति अविपरीतं. सामन्ति सयमेव. सम्बुद्धोति हि एत्थ सं-सद्दो ‘‘सय’’न्ति एतस्स अत्थस्स बोधको दट्ठब्बो. सब्बधम्मानन्ति अनवसेसानं ञेय्यधम्मानं. कथं पनेत्थ सब्बधम्मावबोधो लब्भतीति? एकदेसस्स अग्गहणतो. पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसताव विञ्ञायति यथा ‘‘दिक्खितो न ददाती’’ति. एवञ्च कत्वा अत्थविसेसानपेक्खा कत्तरि एव बुद्धसद्दसिद्धि वेदितब्बा कम्मवचनिच्छाय अभावतो. ‘‘सम्मा सामं बुद्धत्ता सम्मासम्बुद्धो’’ति एत्तकमेव हि इध सद्दतो लब्भति, ‘‘सब्बधम्मान’’न्ति पन अत्थतो लब्भमानं गहेत्वा वुत्तं. न हि बुज्झनकिरिया अविसया युज्जति.
इदानि तस्सा विसयं ‘‘सब्बधम्मे’’ति सामञ्ञतो वुत्तं विभजित्वा दस्सेतुं ‘‘अभिञ्ञेय्ये धम्मे’’तिआदि वुत्तं. तत्थ अभिञ्ञेय्येति अभिविसिट्ठेन ञाणेन जानितब्बे. के पन तेति? चतुसच्चधम्मे. अभिञ्ञेय्यतो बुद्धोति अभिञ्ञेय्यभावतो बुज्झि. पुब्बभागे विपस्सनापञ्ञाय, अधिगमक्खणे मग्गपञ्ञाय, अपरभागे सब्बञ्ञुतञ्ञाणादीहि अञ्ञासीति अत्थो. इतो परेसुपि एसेव नयो. परिञ्ञेय्ये धम्मेति दुक्खं अरियसच्चमाह. पहातब्बेति समुदयपक्खिये. सच्छिकातब्बेति निब्बानं सन्धायाह. बहुवचननिद्देसो पन सोपादिसेसादिकं परियायसिद्धं भेदं गहेत्वा कतो, उद्देसो वा अयं चतुसच्चधम्मानन्ति. तथा हि वक्खति ‘‘चक्खुं दुक्खसच्च’’न्तिआदि. उद्देसो च अविनिच्छितत्थपरिच्छेदस्स धम्मस्स वसेन करीयति. उद्देसेन हि उद्दिसियमानानं धम्मानं अत्थितामत्तं वुच्चति, न परिच्छेदोति अपरिच्छेदेन बहुवचनेन वुत्तं यथा ‘‘अप्पच्चया धम्मा, असङ्खता धम्मा’’ति (ध. स. दुकमातिका ७-८). सच्छिकातब्बेति वा फलविमुत्तीनम्पि गहणं, न निब्बानस्सेवाति बहुवचननिद्देसो कतो. एवञ्च भावेतब्बेति एत्थ झानानम्पि गहणं दट्ठब्बं.
गाथायं भावेतब्बञ्चाति एत्थ च-सद्दो अवुत्तसमुच्चयत्थो, तेन सच्छिकातब्बस्स गहणं वेदितब्बं. तस्मा बुद्धोस्मीति यस्मा चत्तारि सच्चानि मया बुद्धानि, सच्चविनिमुत्तञ्च किञ्चि ञेय्यं नत्थि, तस्मा सब्बम्पि ञेय्यं बुद्धोस्मि, अब्भञ्ञासिन्ति अत्थो.
१३२. एवं सच्चवसेन सामञ्ञतो वुत्तमत्थं द्वारारम्मणेहि सद्धिं द्वारप्पवत्तधम्मेहि, खन्धादीहि च सच्चवसेनेव विभजित्वा दस्सेतुं ‘‘अपि चा’’तिआदि आरद्धं. तत्थ मूलकारणभावेनाति सन्तेसुपि अविज्जादीसु अञ्ञेसु कारणेसु तेसम्पि मूलभूतकारणभावेन. तण्हा हि कम्मस्स विचित्तभावहेतुतो, सहायभावूपगमनतो च दुक्खविचित्तताय पधानकारणं. समुट्ठापिकाति उप्पादिका. पुरिमतण्हाति पुरिमभवसिद्धा तण्हा. उभिन्नन्ति चक्खुस्स, तंसमुदयस्स च. अप्पवत्तीति अप्पवत्तिनिमित्तं. निरोधपजाननाति सच्छिकिरियाभिसमयवसेन निरोधस्स पटिविज्झना. एकेकपदुद्धारेनाति ‘‘चक्खुं चक्खुसमुदयो’’तिआदिना एकेककोट्ठासनिद्धारणेन. तण्हायपि परिञ्ञेय्यभावसब्भावतो, उपादानक्खन्धन्तोगधत्ता च दुक्खसच्चसङ्गहं दस्सेतुं ‘‘रूपतण्हादयो छ तण्हाकाया’’ति वुत्तं.
कसिणानीति कसिणज्झानानि. द्वत्तिंसाकाराति द्वत्तिंस कोट्ठासा, तदारम्मणज्झानानि च. नव भवाति कामभवादयो तयो, सञ्ञीभवादयो तयो, एकवोकारभवादयो तयोति नव भवा. चत्तारि झानानीति अग्गहितारम्मणविसेसानि चत्तारि रूपावचरज्झानानि, विपाकज्झानानं वा एतं गहणं. एत्थ च कुसलधम्मानं उपनिस्सयभूता तण्हा समुट्ठापिका पुरिमतण्हाति वेदितब्बा. किरियधम्मानं पन यत्थ ते तस्स अत्तभावस्स कारणभूता.
अनुबुद्धोति बुज्झितब्बधम्मस्स अनुरूपतो बुद्धो. तेनाति तस्मा. यस्मा सामञ्ञतो, विसेसतो च एकेकपदुद्धारेन सब्बधम्मे बुद्धो, तस्मा वुत्तं. किन्ति आह ‘‘सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता’’ति, सब्बस्सपि ञेय्यस्स सब्बाकारतो अविपरीतं सयमेव अभिसम्बुद्धत्ताति अत्थो. इमिनास्स परोपदेसरहितस्स सब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खप्पटिबद्धवुत्तिनो अनावरणञाणसङ्खातस्स सब्बञ्ञुतञ्ञाणस्स अधिगमो दस्सितो.
ननु च सब्बञ्ञुतञ्ञाणतो अञ्ञं अनावरणञाणं, अञ्ञथा ‘‘छ असाधारणञाणानि बुद्धञाणानी’’ति (पटि. म. मातिका १.७३) वचनं विरुज्झेय्याति? न विरुज्झति, विसयपवत्तिभेदवसेन अञ्ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता. एकमेव हि तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयताय सब्बञ्ञुतञ्ञाणं, तत्थ च आवरणाभावतो निस्सङ्गचारमुपादाय ‘‘अनावरणञाण’’न्ति वुत्तं. यथाह पटिसम्भिदायं ‘‘सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण’’न्तिआदि (पटि. म. १.११९). तस्मा नत्थि नेसं अत्थतो भेदो, एकन्तेन चेतं एवमिच्छितब्बं. अञ्ञथा सब्बञ्ञुतानावरणञाणानं साधारणता, असब्बधम्मारम्मणता च आपज्जेय्य. न हि भगवतो ञाणस्स अणुमत्तम्पि आवरणं अत्थि, अनावरणञाणस्स च असब्बधम्मारम्मणभावे यत्थ तं न पवत्तति, तत्थावरणसब्भावतो अनावरणभावोयेव न सिया. अथ वा पन होतु अञ्ञमेव अनावरणञाणं सब्बञ्ञुतञ्ञाणतो, इध पन सब्बत्थ अप्पटिहतवुत्तिताय अनावरणञाणन्ति सब्बञ्ञुतञ्ञाणमेव अधिप्पेतं. तस्स चाधिगमेन भगवा ‘‘सब्बञ्ञू, सब्बविदू, सम्मासम्बुद्धो’’ति च वुच्चति न सकिंयेव सब्बधम्मावबोधतो. तथा च वुत्तं पटिसम्भिदायं (पटि. म. १.१६२) ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं ‘‘बुद्धो’’ति. सब्बधम्मावबोधनसमत्थञाणसमधिगमेन हि भगवतो सन्ताने अनवसेसधम्मे पटिविज्झितुं समत्थता अहोसीति.
एत्थाह – किं पनिदं ञाणं पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति? किञ्चेत्थ – यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, अतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धादिभेदभिन्नानं सङ्खतधम्मानं, असङ्खतसम्मुतिधम्मानञ्च एकज्झं उपट्ठाने दूरतो चित्तपटं पेक्खन्तस्स विय पटिविभागेनावबोधो न सिया, तथा च सति ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सन्तानं अनत्ताकारेन विय सब्बधम्मा अनिरूपितरूपेन भगवतो ञाणस्स विसया होन्तीति आपज्जति. येपि ‘‘सब्बञेय्यधम्मानं ठितलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं ञाणं पवत्तति, तेन ते ‘सब्बविदू’ति वुच्चन्ति, एवञ्च कत्वा ‘चरं समाहितो नागो, तिट्ठन्तोपि समाहितो’ति इदम्पि वचनं सुवुत्तं होती’’ति वदन्ति, तेसम्पि वुत्तदोसानातिवत्ति, ठितलक्खणारम्मणताय च अतीतानागतसम्मुतिधम्मानं तदभावतो एकदेसविसयमेव भगवतो ञाणं सिया. तस्मा सकिंयेव ञाणं पवत्ततीति न युज्जति.
अथ कमेन सब्बस्मिं विसये ञाणं पवत्तति? एवम्पि न युज्जति. न हि जातिभूमिसभावादिवसेन, दिसादेसकालादिवसेन च अनेकभेदभिन्ने ञेय्ये कमेन गय्हमाने तस्स अनवसेसपटिवेधो सम्भवति, अपरियन्तभावतो ञेय्यस्स. ये पन ‘‘अत्थस्स अविसंवादनतो ञेय्यस्स एकदेसं पच्चक्खं कत्वा ‘सेसेपि एव’न्ति अधिमुच्चित्वा ववत्थापनेन सब्बञ्ञू भगवा, तञ्च ञाणं न अनुमानिकं संसयाभावतो. संसयानुबद्धं हि लोके अनुमानञाण’’न्ति वदन्ति, तेसम्पि तं न युत्तं. सब्बस्स हि अप्पच्चक्खभावे अत्थाविसंवादनेन ञेय्यस्स एकदेसं पच्चक्खं कत्वा ‘‘सेसेपि एव’’न्ति अधिमुच्चित्वा ववत्थापनस्स असम्भवतो. यञ्हि तं सेसं, तं अप्पच्चक्खन्ति.
अथ तम्पि पच्चक्खं, तस्स सेसभावो एव न सियाति? सब्बमेतं अकारणं. कस्मा? अविसयविचारणभावतो. वुत्तं हेतं भगवता ‘‘बुद्धविसयो, भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो. यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). इदं पनेत्थ सन्निट्ठानं – यंकिञ्चि भगवता ञातुं इच्छितं सकलं, एकदेसो वा, तत्थ अप्पटिहतवुत्तिताय पच्चक्खतो ञाणं पवत्तति, निच्चसमाधानञ्च विक्खेपाभावतो. ञातुं इच्छितस्स च सकलस्स अविसयभावे तस्स आकङ्खप्पटिबद्धवुत्तिता न सिया, एकन्तेनेव सा इच्छितब्बा ‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्जनप्पटिबद्धा आकङ्खप्पटिबद्धा मनसिकारप्पटिबद्धा चित्तुप्पादप्पटिबद्धा’’ति वचनतो. अतीतानागतविसयम्पि भगवतो ञाणं अनुमानागमतक्कग्गहणविरहितत्ता पच्चक्खमेव.
ननु च एतस्मिं पक्खे यदा सकलं ञातुं इच्छितं, तदा सकिंयेव सकलविसयताय अनिरूपितरूपेन भगवतो ञाणं पवत्तेय्याति वुत्तदोसानातिवत्तियेवाति? न, तस्स विसोधितत्ता. विसोधितो हि सो बुद्धविसयो अचिन्तेय्योति. अञ्ञथा पचुरजनञाणसमानवुत्तिताय बुद्धानं भगवन्तानं ञाणस्स अचिन्तेय्यता न सिया. तस्मा सकलधम्मारम्मणम्पि तं एकधम्मारम्मणं विय सुववत्थापितेयेव ते धम्मे कत्वा पवत्ततीति इदमेत्थ अचिन्तेय्यं. वुत्तञ्हेतं ‘‘यावतकं ञेय्यं, तावतकं ञाणं. यावतकं ञाणं, तावतकं ञेय्यं. ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्य’’न्ति (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५). एवमेकज्झं, विसुं, सकिं, कमेन वा इच्छानुरूपं सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो.
१३३. विज्जाहीति एत्थ विन्दियं विन्दतीति विज्जा, याथावतो उपलब्भतीति अत्थो. अत्तनो वा पटिपक्खस्स विज्झनट्ठेन विज्जा, तमोक्खन्धादिकस्स पदालनट्ठेनाति अत्थो. ततो एव अत्तनो विसयस्स विदितकरणट्ठेनपि विज्जा. सम्पन्नत्ताति समन्नागतत्ता, परिपुण्णत्ता वा, अविकलत्ताति अत्थो. तिस्सन्नं, अट्ठन्नं च विज्जानं तत्थ तत्थ सुत्ते गहणं विनेय्यज्झासयवसेनाति दट्ठब्बं. सत्त सद्धम्मा नाम सद्धा हिरी ओत्तप्पं बाहुसच्चं वीरियं सति पञ्ञा च. ये सन्धाय वुत्तं ‘‘इध भिक्खु सद्धो होती’’तिआदि (अ. नि. १०.११). चत्तारि झानानीति यानि कानिचि चत्तारि रूपावचरज्झानानि.
कस्मा पनेत्थ सीलादयो पन्नरसेव ‘‘चरण’’न्ति वुत्ताति चोदनं सन्धायाह ‘‘इमेयेव ही’’तिआदि. तेन तेसं सिक्खत्तयसङ्गहतो निब्बानुपगमने एकंसतो साधनभावमाह. इदानि तदत्थसाधनाय आगमं दस्सेन्तो ‘‘यथाहा’’तिआदिमाह. भगवातिआदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं.
ननु चायं विज्जाचरणसम्पदा सावकेसुपि लब्भतीति? किञ्चापि लब्भति, न पन तथा, यथा भगवतोति दस्सेतुं ‘‘तत्थ विज्जासम्पदा’’तिआदि वुत्तं. चरणधम्मपरियापन्नत्ता करुणाब्रह्मविहारस्स, सो चेत्थ महग्गतभावप्पत्ता साधारणभावोति आह ‘‘चरणसम्पदा महाकारुणिकतं पूरेत्वा ठिता’’ति. यथा सत्तानं अनत्थं परिवज्जेत्वा अत्थे नियोजनं पञ्ञाय विना न होति, एवं नेसं अत्थानत्थजाननं सत्थु करुणाय विना न होतीति उभयम्पि उभयत्थ सकिच्चकमेव सिया. यत्थ पन यस्सा पधानभावो, तं दस्सेतुं ‘‘सो सब्बञ्ञुताया’’तिआदि वुत्तं. तत्थ यथा तं विज्जाचरणसम्पन्नोति यथा अञ्ञोपि विज्जाचरणसम्पन्नो, तेन विज्जाचरणसम्पन्नस्सेवायं आवेणिका पटिपत्तीति दस्सेति. सा पनायं सत्थु विज्जाचरणसम्पदा सासनस्स निय्यानिकताय सावकानं सम्मापटिपत्तिया एकन्तकारणन्ति दस्सेतुं ‘‘तेनस्सा’’तिआदि वुत्तं. तं सुविञ्ञेय्यमेव.
एत्थ च विज्जासम्पदाय सत्थु पञ्ञामहत्तं पकासितं होति, चरणसम्पदाय करुणामहत्तं. तेसु पञ्ञाय भगवतो धम्मरज्जप्पत्ति, करुणाय धम्मसंविभागो. पञ्ञाय संसारदुक्खनिब्बिदा, करुणाय संसारदुक्खसहनं. पञ्ञाय परदुक्खपरिजाननं, करुणाय परदुक्खपतिकारारम्भो. पञ्ञाय परिनिब्बानाभिमुखभावो, करुणाय तदधिगमो. पञ्ञाय सयं तरणं, करुणाय परेसं तारणं. पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकिच्चसिद्धि. करुणाय वा बोधिसत्तभूमियं संसाराभिमुखभावो, पञ्ञाय तत्थ अनभिरति. तथा करुणाय परेसं अभिंसापनं, पञ्ञाय सयं परेहि अभायनं. करुणाय परं रक्खन्तो अत्तानं रक्खति, पञ्ञाय अत्तानं रक्खन्तो परं रक्खति. तथा करुणाय अपरन्तपो, पञ्ञाय अनत्तन्तपो. तेन अत्तहिताय पटिपन्नादीसु चतूसु पुग्गलेसु चतुत्थपुग्गलभावो सिद्धो होति. तथा करुणाय लोकनाथता, पञ्ञाय अत्तनाथता. करुणाय चस्स निन्नताभावो, पञ्ञाय उन्नमाभावो. तथा करुणाय सब्बसत्तेसु जनितानुग्गहो पञ्ञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो, पञ्ञाय सब्बधम्मेसु विरत्तचित्तो करुणानुगतत्ता न च न सब्बसत्तानुग्गहाय पवत्तो. यथा हि करुणा भगवतो सिनेहसोकविरहिता, एवं पञ्ञा अहंकारममंकारविनिमुत्ताति अञ्ञमञ्ञविसोधिता परमविसुद्धा गुणविसेसा विज्जाचरणसम्पदाहि पकासिताति दट्ठब्बं.
१३४. गमनम्पि हि गतन्ति वुच्चति ‘‘गते ठिते’’तिआदीसु (दी. नि. १.२१४; २.३७६). सोभनन्ति सुभं. सुभभावो विसुद्धताय, विसुद्धता दोसविगमेनाति आह ‘‘परिसुद्धमनवज्ज’’न्ति. गमनञ्च नाम बहुविधन्ति इधाधिप्पेतं गमनं दस्सेन्तो ‘‘अरियमग्गो’’ति आह. सो हि निब्बानस्स गति अधिगमोति कत्वा ‘‘गतं, गमन’’न्ति च वुच्चति. इदानि तस्सेव गहणे कारणं दस्सेतुं ‘‘तेन हेसा’’तिआदि वुत्तं. खेमं दिसन्ति निब्बानं. असज्जमानोति परिपन्थाभावेन सुगतिगमनेपि असज्जन्तो सङ्गं अकरोन्तो, पगेव इतरत्थ. अथ वा एकासने निसीदित्वा खिप्पभिञ्ञावसेनेव चतुन्नम्पि मग्गानं पटिलद्धभावतो असज्जमानो असज्जन्तो गतो. यं गमनं गच्छन्तो सब्बमनत्थं अपहरति, सब्बञ्च अनुत्तरं सम्पत्तिं आवहति, तदेव सोभनं नाम. तेन च भगवा गतोति आह ‘‘इति सोभनगमनत्ता सुगतो’’ति सोभनत्थो सु-सद्दोति कत्वा.
असुन्दरानं दुक्खानं सङ्खारप्पवत्तीनं अभावतो अच्चन्तसुखत्ता एकन्ततो सुन्दरं नाम असङ्खता धातूति आह ‘‘सुन्दरञ्चेस ठानं गतो अमतं निब्बान’’न्ति. तेनाह भगवा ‘‘निब्बानं परमं सुख’’न्ति (म. नि. २.२१५; ध. प. २०३-२०४). सम्माति सुट्ठु. सुट्ठु गमनञ्च नाम पटिपक्खेन अनभिभूतस्स गमनन्ति आह ‘‘पहीने किलेसे पुन अपच्चागच्छन्तो’’ति. इदञ्च सिखाप्पत्तं सम्मागमनं, याय आगमनीयपटिपदाय सिद्धं, सापि सम्मागमनमेवाति एवम्पि भगवा सुगतोति दस्सेतुं ‘‘सम्मा वा गतो’’तिआदि वुत्तं. सम्मापटिपत्तियाति सम्मासम्बोधिया सम्पापने अविपरीतपटिपत्तिया. ‘‘सब्बलोकस्स हितसुखमेव करोन्तो’’ति एतेन महाबोधिया पटिपदा अविभागेन सब्बसत्तानं सब्बदा हितसुखावहभावेनेव पवत्ततीति दस्सेति. ‘‘सस्सतं उच्छेदन्ति इमे अन्ते अनुपगच्छन्तो गतो’’ति एतेन पटिच्चसमुप्पादगतिं दस्सेति. ‘‘कामसुखं अत्तकिलमथन्ति इमे अनुपगच्छन्तो गतो’’ति एतेन अरियमग्गगतिं दस्सेति.
तत्राति युत्तट्ठाने युत्तस्सेव भासने निप्फादेतब्बे, साधेतब्बे चेतं भुम्मं. अभूतन्ति अभूतत्थं. अत्थमुखेन हि वाचाय अभूतता, भूतता वा. अतच्छन्ति तस्सेव वेवचनं. अभूतन्ति वा असन्तं अविज्जमानं. अतच्छन्ति अतथाकारं अञ्ञथासन्तं. अनत्थसञ्हितन्ति दिट्ठधम्मिकेन, सम्परायिकेन वा अनत्थेन सञ्हितं, अनत्थावहं. न अत्थोति अनत्थो, अत्थस्स पटिपक्खो, अभावो च, तेन सञ्हितं, पिसुणवाचं, सम्फप्पलापञ्चाति अत्थो. एवमेत्थ चतुब्बिधस्सापि वचीदुच्चरितस्स सङ्गहो दट्ठब्बो. एत्थ च पठमा वाचा सीलवन्तं ‘‘दुस्सीलो’’ति, अचण्डालादिमेव ‘‘चण्डालो’’तिआदिना भासमानस्स दट्ठब्बा. दुतिया दुस्सीलं ‘‘दुस्सीलो’’ति, चण्डालादिमेव ‘‘चण्डालो’’तिआदिना अविनयेन भासमानस्स. ततिया नेरयिकादिकस्स नेरयिकादिभावविभावनीकथा यथा ‘‘आपायिको देवदत्तो नेरयिको’’तिआदिका (चूळव. ३४८). चतुत्थी ‘‘वेदविहितेन यञ्ञविधिना पाणातिपातादिकतं सुगतिं आवहती’’ति लोकस्स ब्यामोहनकथा. पञ्चमी भूतेन पेसुञ्ञूपसंहारादिकथा. छट्ठा युत्तप्पत्तट्ठाने पवत्तिता दानसीलादिकथा वेदितब्बा. एवं सम्मा गदत्ताति यथावुत्तं अभूतादिं वज्जेत्वा भूतं तच्छं अत्थसञ्हितं पियं मनापं ततो एव सम्मा सुट्ठु गदनतो सुगतो द-कारस्स त-कारं कत्वा. आपाथगमनमत्तेन कस्सचि अप्पियम्पि हि भगवतो वचनं पियं मनापमेव अत्थसिद्धिया लोकस्स हितसुखावहत्ता.
अपिच सोभनं गतं गमनं एतस्साति सुगतो. भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं भद्दकं. तथा लक्खणानुब्यञ्जनपटिमण्डितरूपकायताय दुतविलम्बितखलितानुकड्ढननिप्पीळनुक्कुटिककुटिलाकुलतादिदोसरहितविलासितराजहंसवसभवारणमिगराजगमनं कायगमनं, ञाणगमनञ्च विपुलनिम्मलकरुणासतिवीरियादिगुणविसेससहितं अभिनीहारतो याव महाबोधि अनवज्जताय, सत्तानं हितसुखावहताय च सोभनमेव. अथ वा सयम्भूञाणेन सकलम्पि लोकं परिञ्ञाभिसमयवसेन परिजानन्तो सम्मा गतो अवगतोति सुगतो. तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो. लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो. लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो. तथा यं इमस्स सदेवकस्स लोकस्स दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, सब्बं तं हत्थतले आमलकं विय सम्मा पच्चक्खतो गतो अब्भञ्ञासीति सुगतो.
१३५. सब्बथाति सब्बप्पकारेन. यो यो लोको यथा यथा वेदितब्बो, तथा तथा. ते पन पकारे दस्सेतुं ‘‘सभावतो’’तिआदि वुत्तं. तत्थ सभावतोति दुक्खसभावतो. सब्बो हि लोको दुक्खसभावो. यथाह ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (महाव. १४; दी. नि. २.३८७). समुदयतोति यतो सो समुदेति, ततो तण्हादितो. निरोधतोति यत्थ सो निरुज्झति, ततो विसङ्खारतो. निरोधूपायतोति येन विधिना सो निरोधो पत्तब्बो, ततो अरियमग्गतो, इतो अञ्ञस्स पकारस्स अभावा.
इति ‘‘सब्बथा लोकं अवेदी’’ति वत्वा तदत्थसाधकं सुत्तं दस्सेन्तो ‘‘यत्थ खो आवुसो’’तिआदिमाह. तत्थ ‘‘न जायती’’तिआदिना उजुकं जातिआदीनि पटिक्खिपित्वा ‘‘न चवति न उपपज्जती’’ति पदद्वयेन अपरापरं चवनुपपज्जनानि पटिक्खिपति. केचि पन ‘‘न जायतीतिआदि गब्भसेय्यकवसेन वुत्तं, इतरं ओपपातिकवसेना’’ति वदन्ति. तन्ति जातिआदिरहितं. गमनेनाति पदसा गमनेन. ञातेय्यन्ति जानितब्बं. ‘‘ञाताय’’न्ति वा पाठो, ञाता अयं निब्बानत्थिकोति अधिप्पायो.
कामं पादगमनेन गन्त्वा लोकस्सन्तं ञातुं, दट्ठुं, पत्तुं वा न सक्का, अपिच परिमितपरिच्छिन्नट्ठाने तं पञ्ञापेत्वा दस्सेमीति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ ससञ्ञिम्हीति सञ्ञासहिते. ततो एव समनके सविञ्ञाणके. अविञ्ञाणके पन उतुसमुट्ठानरूपसमुदायमत्ते पञ्ञापेतुं न सक्काति अधिप्पायो. लोकन्ति खन्धादिलोकं. लोकनिरोधन्ति तस्स लोकस्स निरुज्झनं, निब्बानमेव वा. अदेसम्पि हि तं येसं निरोधो, तेसं वसेन उपचारतो, देसतोपि निद्दिसीयति यथा ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’ति (दी. नि. २.४०१; म. नि. १.१३४; विभ. २०४).
गमनेनाति पाकतिकगमनेन. लोकस्सन्तोति सङ्खारलोकस्स अन्तो अन्तकिरियाहेतुभूतं निब्बानं. कुदाचनन्ति कदाचिपि. अपत्वाति अग्गमग्गेन अनधिगन्त्वा. पमोचनन्ति पमुत्ति निस्सरणं. तस्माति यस्मा लोकस्सन्तं अपत्वा वट्टदुक्खतो मुत्ति नत्थि, तस्मा. हवेति निपातमत्तं. लोकविदूति सभावादितो सब्बं लोकं जानन्तो. सुमेधोति सुन्दरपञ्ञो. लोकन्तगूति परिञ्ञाभिसमयेन लोकं विदित्वा पहानाभिसमयेन लोकन्तगू. मग्गब्रह्मचरियवासस्स परिनिट्ठितत्ता वुसितब्रह्मचरियो. सब्बेसं किलेसानं समितत्ता, चतुसच्चधम्मानं वा अभिसमितत्ता समितावी. नासीसति न पत्थेति. यथा इमं लोकं, एवं परञ्च लोकं अप्पटिसन्धिकत्ता.
१३६. एवं यदिपि लोकविदुता अनवसेसतो दस्सिता सभावतो दस्सितत्ता, लोको पन एकदेसेनेव वुत्तोति तं अनवसेसतो दस्सेतुं ‘‘अपिच तयो लोका’’तिआदि वुत्तं. तत्थ इन्द्रियबद्धानं खन्धानं समूहो, सन्तानो च सत्तलोको. रूपादीसु सत्तविसत्तताय सत्तो, लोकीयन्ति एत्थ कुसलाकुसलं, तब्बिपाको चाति लोकोति. अनिन्द्रियबद्धानं रूपादीनं समूहो, सन्तानो च ओकासलोको लोकियन्ति एत्थ तसा, थावरा च, तेसञ्च ओकासभूतोति. तदाधारताय हेस ‘‘भाजनलोको’’तिपि वुच्चति. उभयेपि खन्धा सङ्खारलोको पच्चयेहि सङ्खरीयन्ति, लुज्जन्ति पलुज्जन्ति चाति. आहारट्ठितिकाति पच्चयट्ठितिका, पच्चयायत्तवुत्तिकाति अत्थो. पच्चयत्थो हेत्थ आहार-सद्दो ‘‘अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाया’’तिआदीसु (सं. नि. ५.२३२) विय. एवं हि ‘‘सब्बे सत्ता’’ति इमिना असञ्ञसत्तापि परिग्गहिता होन्ति. सा पनायं आहारट्ठितिकता निप्परियायतो सङ्खारधम्मो, न सत्तधम्मोति आह ‘‘आहारट्ठितिकाति आगतट्ठाने सङ्खारलोको वेदितब्बो’’ति.
यदि एवं ‘‘सब्बे सत्ता’’ति इदं कथन्ति? पुग्गलाधिट्ठाना देसनाति नायं दोसो. यथा अञ्ञत्थापि ‘‘एकधम्मे, भिक्खवे, भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति. कतमस्मिं एकधम्मे? सब्बे सत्ता आहारट्ठितिका’’ति (अ. नि. १०.२७). दिट्ठिगतिकानं सस्सतादिवसेन ‘‘अत्ता, लोको’’ति च परिकप्पना येभुय्येन सत्तविसया, न सङ्खारविसयाति आह ‘‘सस्सतो लोकोति वा असस्सतो लोकोति वा आगतट्ठाने सत्तलोको वेदितब्बो’’ति.
यावता चन्दिमसूरिया परिहरन्तीति यत्तके ठाने चन्दिमसूरिया परिवत्तन्ति परिब्भमन्ति. दिसा भन्ति विरोचमानाति तेसं परिब्भमनेनेव ता दिसा पभस्सरा हुत्वा विरोचन्ति. ताव सहस्सधा लोकोति तत्तकं सहस्सप्पकारो ओकासलोको, सहस्सलोकधातुयोति अत्थो. ‘‘ताव सहस्सवा’’ति वा पाठो.
तम्पीति तं तिविधम्पि लोकं. तथा हिस्स सब्बथापि विदितोति सम्बन्धो. एको लोकोति ‘‘सब्बे सत्ता आहारट्ठितिका’’ति याय पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्चयायत्तवुत्तिता वुत्ता, ताय सब्बो सङ्खारलोको एको एकविधो पकारन्तरस्स अभावतो. द्वे लोकातिआदीसुपि इमिना नयेन अत्थो वेदितब्बो. नाम-ग्गहणेन चेत्थ निब्बानस्स अग्गहणं, तस्स अलोकसभावत्ता. ननु च ‘‘आहारट्ठितिका’’ति एत्थ पच्चयायत्तवुत्तिताय मग्गफलधम्मानम्पि लोकता आपज्जतीति? नापज्जति, परिञ्ञेय्यानं दुक्खसच्चधम्मानं इध ‘‘लोको’’ति अधिप्पेतत्ता. अथ वा ‘‘न लुज्जति न पलुज्जती’’ति यो गहितो तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता. उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा. दसायतनानीति दस रूपायतनानि.
एत्थ च ‘‘आहारट्ठितिका’’ति पच्चयायत्तवुत्तितावचनेन सङ्खारानं अनिच्चता. ताय च ‘‘यदनिच्चं, तं दुक्खं. यं दुक्खं, तदनत्ता’’ति (सं. नि. ३.१५) वचनतो दुक्खानत्तता च पकासिता होन्तीति तीणिपि सामञ्ञलक्खणानि गहितानि. नामन्ति चत्तारो अरूपिनो खन्धा, ते च अत्थतो फस्सादयो. रूपन्ति भूतुपादायरूपानि, तानि च अत्थतो पथवीआदयोति अविसेसेनेव सलक्खणतो सङ्खारा गहिता. तग्गहणेनेव ये तेसं विसेसा कुसलादयो, हेतुआदयो च, तेपि गहिता एव होन्तीति आह ‘‘इति अयं सङ्खारलोकोपि सब्बथा विदितो’’ति.
आगम्म चित्तं सेति एत्थाति आसयो मिगासयो विय. यथा मिगो गोचराय गन्त्वा पच्चागन्त्वा तत्थेव वनगहने सयतीति सो तस्स आसयो, एवं अञ्ञथा पवत्तित्वापि चित्तं आगम्म यत्थ सेति, सो तस्स आसयोति वुच्चति. सो पन सस्सतदिट्ठिआदिवसेन चतुब्बिधो. वुत्तञ्च –
‘‘सस्सतुच्छेददिट्ठि च, खन्ति चेवानुलोमिका;
यथाभूतञ्च यं ञाणं, एतं आसयसद्दित’’न्ति.
तत्थ सब्बदिट्ठीनं सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपि दिट्ठिगतिका सत्ता इमा एव द्वे दिट्ठियो सन्निस्सिता. यथाह ‘‘द्वयनिस्सितो ख्वायं, कच्चान, लोको येभुय्येन अत्थितञ्च नत्थितञ्चा’’ति (सं. नि. २.१५). अत्थिताति हि सस्सतग्गाहो अधिप्पेतो, नत्थिताति उच्छेदग्गाहो. अयं ताव वट्टनिस्सितानं पुथुज्जनानं आसयो. विवट्टनिस्सितानं पन सुद्धसत्तानं अनुलोमिका खन्ति, यथाभूतञाणन्ति दुविधो आसयो.
आसयं जानातीति चतुब्बिधम्पि सत्तानं आसयं जानाति. जानन्तो च तेसं दिट्ठिगतानं, तेसञ्च ञाणानं अप्पवत्तिक्खणेपि जानाति. वुत्तञ्हेतं –
‘‘कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति, कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति’’आदि (पटि. म. १.११३).
अप्पहीनभावेन सन्ताने अनु अनु सयन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. एतेन नेसं कारणलाभे उप्पज्जनारहतं दस्सेति. अप्पहीना हि किलेसा कारणलाभे सति उप्पज्जन्ति. के पन ते? रागादयो सत्त अनागता किलेसा, अतीता, पच्चुप्पन्ना च तंसभावत्ता तथा वुच्चन्ति. न हि धम्मानं कालभेदेन सभावभेदो अत्थि. तं सत्तविधं अनुसयं तस्स तस्स सत्तस्स सन्ताने परोपरभावेन पवत्तमानं जानाति.
चरितन्ति सुचरितदुच्चरितं. तं हि विभङ्गे (विभ. ८१४, ८१७) चरितनिद्देसे निद्दिट्ठं. अथ वा चरितन्ति चरिया वेदितब्बा. ता पन रागदोसमोहसद्धाबुद्धिवितक्कवसेन छ मूलचरिया, तासं अपरियन्तो अन्तरभेदो, संसग्गभेदो पन तेसट्ठिविधो. तं चरितं सभावतो संकिलेसवोदानतो समुट्ठानतो फलतो निस्सन्दतोति एवमादिना पकारेन जानाति.
अधिमुत्ति अज्झासयधातु. सा दुविधा हीनाधिमुत्ति पणीताधिमुत्तीति. याय हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेयेव सेवन्ति, पणीताधिमुत्तिका च पणीताधिमुत्तिकेयेव. सा अज्झासयधातु अज्झासयसभावो अधिमुत्ति. तं अधिमुत्तिं जानाति ‘‘इमस्स अधिमुत्ति हीना, इमस्स पणीता’’ति, तत्थापि ‘‘इमस्स मुदु, इमस्स मुदुतरा, इमस्स मुदुतमा’’तिआदिना. इन्द्रियानं हि तिक्खमुदुभावादिना यथारहं अधिमुत्तिया तिक्खमुदुभावादिको वेदितब्बो. तथा हि वुत्तं सम्मोहविनोदनीयं (विभ. अट्ठ. ८१८, ८२०) ‘‘हेट्ठा गहितापि अधिमुत्ति इध सत्तानं तिक्खिन्द्रियमुदिन्द्रियभावदस्सनत्थं पुन गहिता’’ति.
अप्परजं अक्खं एतेसन्ति अप्परजक्खा, अप्पं वा रजं पञ्ञामये अक्खिम्हि एतेसन्ति अप्परजक्खा, अनुस्सदरागादिरजा सत्ता, ते अप्परजक्खे. महारजक्खेति एत्थापि एसेव नयो. उस्सदरागादिरजा महारजक्खा.
तिक्खिन्द्रियेति तिखिणेहि सद्धादीहि इन्द्रियेहि समन्नागते. मुदिन्द्रियेति मुदुकेहि सद्धादीहि इन्द्रियेहि समन्नागते. उपनिस्सयइन्द्रियानि नाम इधाधिप्पेतानि. स्वाकारेति सुन्दराकारे कल्याणपकतिके, विवट्टज्झासयेति अत्थो. सुविञ्ञापयेति सम्मत्तनियामं विञ्ञापेतुं सुकरे सद्धे, पञ्ञवन्ते च. भब्बे अभब्बेति एत्थ भब्बेति कम्मावरणकिलेसावरणविपाकावरणरहिते. वुत्तविपरियायेन द्वाकारदुविञ्ञापयाभब्बा वेदितब्बा. एत्थ च ‘‘इमस्स रागरजो अप्पो, इमस्स दोसरजो अप्पो’’तिआदिना अप्परजक्खेसु जाननं वेदितब्बं. सेसेसुपि एसेव नयो. तस्माति यस्मा भगवा अपरिमाणे सत्ते आसयादितो अनवसेसेत्वा जानाति, तस्मा अस्स भगवतो सत्तलोकोपि सब्बथा विदितो.
ननु च सत्तेसु पमाणादिपि जानितब्बो अत्थीति? अत्थि. तस्स पन जाननं न निब्बिदाय विरागाय निरोधायाति इध न गहितं, भगवतो पन तम्पि सुविदितं सुववत्थापितमेव, पयोजनाभावा देसनं नारुळ्हं. तेन वुत्तं –
‘‘अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि ‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यो वायं मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी’’’तिआदि (सं. नि. ५.११२१).
१३७. ओकासलोकोपि सब्बथा विदितोति सम्बन्धो. चक्कवाळन्ति लोकधातु. सा हि नेमिमण्डलसदिसेन चक्कवाळपब्बतेन समन्ततो परिक्खित्तत्ता ‘‘चक्कवाळ’’न्ति वुच्चति. चतुतिंससतानि चाति चतुअधिकानि तिंससतानि, तीणिसहस्सानि, चत्तारिसतानि चाति अत्थो. अड्ढुड्ढानीति उपड्ढचतुत्थानि, तीणिसतानि, पञ्ञासञ्चाति अत्थो. नहुतानीति दससहस्सानि. सङ्खाताति कथिता. सण्ठितीति हेट्ठा, उपरितो चाति सब्बसो ठिति.
एवं सण्ठितेति एवमवट्ठिते. एत्थाति चक्कवाळे. अच्चुग्गतो तावदेवाति तत्तकमेव चतुरासीति योजनसहस्सानियेव उब्बेधो. न केवलं चेत्थ उब्बेधोव, अथ खो आयामवित्थारापिस्स तत्तकायेव. वुत्तञ्हेतं –
‘‘सिनेरु, भिक्खवे, पब्बतराजा चतुरासीति योजनसहस्सानि आयामेन, चतुरासीति योजनसहस्सानि वित्थारेना’’ति (अ. नि. ७.६६).
ततोति सिनेरुस्स हेट्ठा, उपरि च वुत्तप्पमाणतो. उपड्ढुपड्ढेनाति उपड्ढेन उपड्ढेन. इदं वुत्तं होति – द्वाचत्तालीस योजनसहस्सानि समुद्दे अज्झोगाळ्हो तत्तकमेव च उपरि उग्गतो युगन्धरपब्बतो, एकवीस योजनसहस्सानि समुद्दे अज्झोगाळ्हो तत्तकमेव च उपरि उग्गतो ईसधरो पब्बतोति इमिना नयेन सेसेसुपि उपड्ढुपड्ढपमाणता वेदितब्बा. यथा महासमुद्दो याव चक्कवाळपादमूला अनुपुब्बनिन्नो, एवं याव सिनेरुपादमूलाति हेट्ठा सिनेरुपमाणतो उपड्ढपमाणोपि युगन्धरपब्बतो पथवियं सुप्पतिट्ठितो, एवं ईसधरादयोपीति दट्ठब्बं. वुत्तं हेतं ‘‘महासमुद्दो, भिक्खवे, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो’’ति (उदा. ४५; चूळव. ३८४; अ. नि. ८.१९). सिनेरुयुगन्धरादीनं अन्तरे सीदन्तरसमुद्दा नाम. ते वित्थारतो यथाक्कमं सिनेरुआदीनं अच्चुग्गतसमानपरिमाणाति वदन्ति. ब्रहाति महन्तो.
सिनेरुस्स समन्ततोति परिक्खिपनवसेन सिनेरुस्स समन्ततो ठिता. सिनेरुं ताव परिक्खिपित्वा ठितो युगन्धरो, तं परिक्खिपित्वा ईसधरो. एवं तं तं परिक्खिपित्वा ठिता ‘‘सिनेरुस्स समन्ततो’’ति वुत्ता.
योजनानं सतानुच्चो, हिमवा पञ्च पब्बतोति हिमवा पब्बतो पञ्च योजनानं सतानि उच्चो उब्बेधो. नगव्हयाति नग-सद्देन अव्हातब्बा रुक्खाभिधाना. पञ्ञासयोजनक्खन्धसाखायामाति’ उब्बेधतो पञ्ञासयोजनक्खन्धायामा, उब्बेधतो, समन्ततो च पञ्ञासयोजनसाखायामा च. ततो एव सतयोजनवित्थिण्णा, तावदेव च उग्गता. यस्सानुभावेनाति यस्सा महन्तता कप्पट्ठायितादिप्पकारेन पभावेन.
गरुळानं सिम्बलिरुक्खो सिनेरुस्स दुतियपरिभण्डे पतिट्ठितो.
सिरीसेनाति पच्चत्ते करणवचनं. सत्तमन्ति लिङ्गविपल्लासेन वुत्तं, सिरीसो भवति सत्तमोति अत्थो.
तत्थ चण्डमण्डलं हेट्ठा, सूरियमण्डलं उपरि. तस्स आसन्नभावेन चन्दमण्डलं अत्तनो छायाय विकलभावेन उपट्ठाति. तानि योजनन्तरिकानि युगन्धरग्गपमाणे आकासे विचरन्ति. असुरभवनं सिनेरुस्स हेट्ठा. अवीचि जम्बुदीपस्स. जम्बुदीपो सकटसण्ठानो. अपरगोयानं आदाससण्ठानो. पुब्बविदेहो अद्धचन्दसण्ठानो. उत्तरकुरु पीठसण्ठानो. तंतंनिवासीनं, तंतंपरिवारदीपवासीनञ्च मनुस्सानं मुखम्पि तंतंसण्ठानन्ति वदन्ति. तदन्तरेसूति तेसं चक्कवाळानं अन्तरेसु. तिण्णं हि पत्तानं अञ्ञमञ्ञआसन्नभावेन ठपितानं अन्तरसदिसे तिण्णं तिण्णं चक्कवाळानं अन्तरे एकेको लोकन्तरनिरयो.
अनन्तानीति अपरिमाणानि, ‘‘एत्तकानी’’ति अञ्ञेहि मिनितुं असक्कुणेय्यानि. भगवा अनन्तेन बुद्धञाणेन अवेदि ‘‘अनन्तो आकासो, अनन्तो सत्तनिकायो, अनन्तानि चक्कवाळानी’’ति तिविधम्पि अनन्तं बुद्धञाणं परिच्छिन्दति सयम्पि अनन्तत्ता. यावतकं हि ञेय्यं, तावतकं ञाणं. यावतकं ञाणं, तावतकं ञेय्यं. ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्यन्ति. तेन वुत्तं ‘‘अनन्तेन बुद्धञाणेन अवेदी’’ति. अनन्तता चस्स अनन्तञेय्यपटिविज्झनेनेव वेदितब्बा तत्थ अप्पटिहतचारत्ता. ननु चेत्थ विवट्टादीनम्पि विदितता वत्तब्बाति? सच्चं वत्तब्बं, सा पन परतो अभिञ्ञाकथायं आगमिस्सतीति इध न गहिता.
१३८. अत्तनाति निस्सक्कवचनमेतं. गुणेहि अत्तना विसिट्ठतरस्साति सम्बन्धो. तर-ग्गहणं चेत्थ ‘‘अनुत्तरो’’ति पदस्स अत्थनिद्देसताय कतं, न विसिट्ठस्स कस्सचि अत्थिताय. सदेवके हि लोके सदिसकप्पोपि नाम कोचि तथागतस्स नत्थि, कुतो सदिसो. विसिट्ठे पन का कथा. कस्सचीति कस्सचिपि. अभिभवतीति सीलसम्पदाय उपनिस्सयभूतानं हिरोत्तप्पमेत्ताकरुणानं, विसेसपच्चयानं सद्धासतिवीरियपञ्ञानञ्च उक्कंसप्पत्तिया समुदागमतो पट्ठाय अनञ्ञसाधारणो सवासनपटिपक्खस्स पहीनत्ता उक्कंसपारमिप्पत्तो सत्थु सीलगुणो. तेन भगवा सदेवकं लोकं अञ्ञदत्थु अभिभुय्य पवत्तति, न सयं केनचि अभिभुय्यतीति अधिप्पायो. एवं समाधिगुणादीसुपि यथारहं वत्तब्बं. सीलादयो चेते लोकियलोकुत्तरमिस्सका वेदितब्बा. विमुत्तिञाणदस्सनं पन लोकियं कामावचरमेव.
यदि एवं, कथं तेन सदेवकं लोकं अभिभवतीति? तस्सापि आनुभावतो असदिसत्ता. तम्पि हि विसयतो, पवत्तितो, पवत्ति आकारतो च उत्तरितरमेव. तं हि अनञ्ञसाधारणं सत्थु विमुत्तिगुणं आरब्भ पवत्तति, पवत्तमानञ्च अतक्कावचरं परमगम्भीरं सण्हसुखुमं सविसयं पटिपक्खधम्मानं सुप्पहीनत्ता सुट्ठु पाकटं विभूततरं कत्वा पवत्तति, सम्मदेव च वसीभावस्स पापितत्ता, भवङ्गपरिवासस्स च अतिपरित्तकत्ता लहुं लहुं पवत्ततीति.
एवं सीलादिगुणेहि भगवतो उत्तरितरस्स अभावं दस्सेत्वा इदानि सदिसस्सापि अभावं दस्सेतुं ‘‘असमो’’तिआदि वुत्तं. तत्थ असमोति एकस्मिं काले नत्थि एतस्स सीलादिगुणेन समा सदिसाति असमो. तथा असमेहि अतीतानागतबुद्धेहि समो, असमा वा समा एतस्साति असमसमो. सीलादिगुणेन नत्थि एतस्स पटिमाति अप्पटिमो. सेसपदद्वयेपि एसेव नयो. तत्थ उपमामत्तं पटिमा, सदिसूपमा पटिभागो, युगग्गाहवसेन ठितो पटिपुग्गलो वेदितब्बो.
न खो पनाहं समनुपस्सामीति मम समन्तचक्खुना हत्थतले आमलकं विय सब्बलोकं पस्सन्तोपि तत्थ सदेवके…पे… पजाय अत्तना अत्ततो सीलसम्पन्नतरं सम्पन्नतरसीलं कञ्चि पुग्गलं न खो पन पस्सामि, तादिसस्स अभावतोति अधिप्पायो. अग्गप्पसादसुत्तादीनीति एत्थ –
‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञिनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो. ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होती’’ति (अ. नि. ४.३४; ५.३२; १०.१५; इतिवु९०) –
इदं अग्गप्पसादसुत्तं. आदि-सद्देन –
‘‘सदेवके…पे… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२४; दी. नि. ३.१८८) –
एवमादीनि सुत्तपदानि वेदितब्बानि. आदिका गाथायोति एत्थ –
‘‘अहं हि अरहा लोके, अहं सत्था अनुत्तरो;
एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो. (महाव. ११; म. नि. १.२८५; २.३४१);
‘‘दन्तो दमयतं सेट्ठो, सन्तो समयतं इसि;
मुत्तो मोचयतं अग्गो, तिण्णो तारयतं वरो. (इतिवु. ११२);
‘‘नयिमस्मिं लोके परस्मिं वा पन,
बुद्धेन सेट्ठो सदिसो च विज्जति;
यमाहु दक्खिणेय्यानं अग्गतं गतो,
पुञ्ञत्थिकानं विपुलफलेसिन’’न्ति. (वि. व. १०४७; कथा. ७९९) –
एवमादिका गाथा वित्थारेतब्बा.
१३९. दमेतीति समेति, कायसमादीहि योजेतीति अत्थो. तं पन कायसमादीहि योजनं यथारहं तदङ्गविनयादीसु पतिट्ठापनं होतीति आह ‘‘विनेतीति वुत्तं होती’’ति. दमेतुं युत्ताति दमनारहा. अमनुस्सपुरिसाति एत्थ न मनुस्साति अमनुस्सा. तंसदिसता एत्थ जोतीयति, तेन मनुस्सत्तमत्तं नत्थि, अञ्ञं समानन्ति यक्खादयो ‘‘अमनुस्सा’’ति अधिप्पेता, न ये केचि मनुस्सेहि अञ्ञे. तथा हि तिरच्छानपुरिसानं विसुं गहणं कतं, यक्खादयो एव च निद्दिट्ठा. अपलालो हिमवन्तवासी. चूळोदरमहोदरा नागदीपवासिनो. अग्गिसिखधूमसिखा सीहळदीपवासिनो. निब्बिसा कता दोसविसस्स विनोदनेन. तेनाह ‘‘सरणेसु च सीलेसु च पतिट्ठापिता’’ति. कूटदन्तादयोति आदि-सद्देन घोटमुखउपालिगहपतिआदीनं सङ्गहो दट्ठब्बो. सक्कदेवराजादयोति आदि-सद्देन अजकलापयक्खबकब्रह्मादीनं सङ्गहो दट्ठब्बो. इदं चेत्थ सुत्तन्ति इदं केसिसुत्तं. विनीता विचित्रेहि विनयनूपायेहीति एतस्मिं अत्थे वित्थारेतब्बं यथारहं सण्हादीहि उपायेहि विनयस्स दीपनतो.
विसुद्धसीलादीनं पठमज्झानादीनीति ‘‘विसुद्धसीलस्स पठमज्झानं, पठमज्झानलाभिनो दुतियज्झान’’न्तिआदिना तस्स तस्स उपरूपरि विसेसं आचिक्खन्तोति सम्बन्धो. सोतापन्नादीनन्ति एत्थापि एसेव नयो. ‘‘दन्तेपि दमेतियेवा’’ति इदं पुब्बे ‘‘सब्बेन सब्बं दमथं अनुपगता पुरिसदम्मा’’ति वुत्ताति कत्वा वुत्तं. ये पन विप्पकतदम्मभावा सब्बथा दमेतब्बतं नातिवत्ता, ते सत्ते सन्धाय ‘‘दन्तेपि दमेतियेवा’’ति वुत्तं. तेपि हि पुरिसदम्मा एवाति, यतो ने सत्था दमेति.
अत्थपदन्ति अत्थाभिब्यञ्जकपदं, वाक्यन्ति अत्थो. वाक्येन हि अत्थाभिब्यत्ति, न नामादिपदमत्तेन. एकपदभावेन च अनञ्ञसाधारणो सत्थु पुरिसदम्मसारथिभावो दस्सितो होति. तेनाह ‘‘भगवा ही’’तिआदि. अट्ठ दिसाति अट्ठ समापत्तियो. ता हि अञ्ञमञ्ञसम्बन्धापि असंकिण्णभावेन दिस्सन्ति अपदिस्सन्तीति दिसा, दिसा वियाति वा दिसा. असज्जमानाति न सज्जमाना वसीभावप्पत्तिया निस्सङ्गचारा. धावन्ति जवनवुत्तियोगतो. एकंयेव दिसं धावति, अत्तनो कायं अपरिवत्तेन्तोति अधिप्पायो. सत्थारा पन दमिता पुरिसदम्मा एकिरियापथेनेव अट्ठ दिसा धावन्ति. तेनाह ‘‘एकपल्लङ्केनेव निसिन्ना’’ति. अट्ठ दिसाति च निदस्सनमत्तमेतं, लोकियेहि अगतपुब्बं निरोधसमापत्तिदिसं, अमतदिसञ्च पक्खन्दनतो.
१४०. दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ नियुत्तोति दिट्ठधम्मिको, इधलोकत्थो. कम्मकिलेसवसेन सम्परेतब्बतो सम्मा गन्तब्बतो सम्परायो, परलोको, तत्थ नियुत्तोति सम्परायिको, परलोकत्थो. परमो उत्तमो अत्थो परमत्थो, निब्बानं. तेहि दिट्ठधम्मिकसम्परायिकपरमत्थेहि. यथारहन्ति यथानुरूपं. तेसु अत्थेसु यो यो पुग्गलो यं यं अरहति, तदनुरूपं. अनुसासतीति विनेति तस्मिं अत्थे पतिट्ठपेति, सह अत्थेन वत्ततीति सत्थो, भण्डमूलेन वाणिज्जाय देसन्तरं गच्छन्तो जनसमूहो. हितुपदेसादिवसेन परिपालेतब्बो सासितब्बो सो एतस्स अत्थीति सत्था, सत्थवाहो. सो विय भगवाति आह ‘‘सत्था वियाति सत्था, भगवा सत्थवाहो’’ति.
इदानि तमत्थं निद्देसपाळिनयेन दस्सेतुं ‘‘यथा सत्थवाहो’’तिआदि वुत्तं. तत्थ सत्थेति सत्थिके जने. कं तारेन्ति एत्थाति कन्तारो, निरुदको अरञ्ञप्पदेसो. रुळ्हीवसेन पन इतरोपि अरञ्ञप्पदेसो तथा वुच्चति. चोरकन्तारन्ति चोरेहि अधिट्ठितकन्तारं. तथा वाळकन्तारं. दुब्भिक्खकन्तारन्ति दुल्लभभिक्खं कन्तारं. तारेतीति अखेमन्तट्ठानं अतिक्कामेति. उत्तारेतीतिआदि उपसग्गेन पदं वड्ढेत्वा वुत्तं. अथ वा उत्तारेतीति खेमन्तभूमिं उपनेन्तो तारेति. नित्तारेतीति अखेमन्तट्ठानतो निक्खामेन्तो तारेति. पतारेतीति परिग्गहेत्वा तारेति, हत्थेन परिग्गहेत्वा विय तारेतीति अत्थो. सब्बम्पेतं तारणुत्तारणादिखेमट्ठाने ठपनमेवाति आह ‘‘खेमन्तभूमिं सम्पापेती’’ति. सत्तेति वेनेय्यसत्ते. महागहनताय, महानत्थताय, दुन्नित्थरणताय च जातियेव कन्तारो जातिकन्तारो, तं जातिकन्तारं.
उक्कट्ठपरिच्छेदवसेनाति उक्कट्ठसत्तपरिच्छेदवसेन. देवमनुस्सा एव हि उक्कट्ठसत्ता, न तिरच्छानादयो. भब्बपुग्गलपरिच्छेदवसेनाति सम्मत्तनियामोक्कमनस्स योग्यपुग्गलस्स परिच्छिन्दनवसेन. एतन्ति ‘‘देवमनुस्सान’’न्ति एतं वचनं. भगवतोति निस्सक्कवचनं यथा ‘‘उपज्झायतो अज्झेती’’ति, भगवतो सन्तिकेति वा अत्थो. उपनिस्सयसम्पत्तिन्ति तिहेतुकपटिसन्धिआदिकं मग्गफलाधिगमस्स बलवकारणं.
गग्गरायाति गग्गराय नाम रञ्ञो देविया, ताय वा कारितत्ता ‘‘गग्गरा’’ति लद्धनामाय. सरे निमित्तं अग्गहेसीति ‘‘धम्मो एसो वुच्चती’’ति धम्मसञ्ञाय सरे निमित्तं गण्हि, गण्हन्तो च पसन्नचित्तो परिसपरियन्ते निपज्जि. सन्निरुम्भित्वा अट्ठासीति तस्स सीसे दण्डस्स ठपितभावं अपस्सन्तो तत्थ दण्डं उप्पीळेत्वा अट्ठासि. मण्डूकोपि दण्डे ठपितेपि उप्पीळितेपि धम्मगतेन पसादेन विस्सरमकरोन्तोव कालमकासि. देवलोके निब्बत्तसत्तानं अयं धम्मता, या ‘‘कुतोहं इध निब्बत्तो, तत्थ किं नु खो कम्ममकासि’’न्ति आवज्जना. तस्मा अत्तनो पुरिमभवस्स दिट्ठत्ता आह ‘‘अरे अहम्पि नाम इधनिब्बत्तो’’ति. भगवतो पादे वन्दि कतञ्ञुतासंवड्ढितेन पेमगारवबहुमानेन.
भगवा जानन्तोव महाजनस्स कम्मफलं, बुद्धानुभावञ्च पच्चक्खं कातुकामो ‘‘को मे वन्दती’’ति गाथाय पुच्छि. तत्थ कोति देवनागयक्खगन्धब्बादीसु को, कतमोति अत्थो. मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. ‘‘यससा’’ति इमिना एदिसेन परिवारेन, परिच्छेदेन च. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन सुन्दरेन. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति सब्बा दसपि दिसा पभासेन्तो, चन्दो विय, सूरियो विय च एकोभासं एकालोकं करोन्तोति अत्थो.
एवं पन भगवता पुच्छितो देवपुत्तो अत्तानं पवेदेन्तो ‘‘मण्डूकोहं पुरे आसि’’न्ति गाथमाह. तत्थ पुरेति पुरिमजातियं. ‘‘उदके’’ति इदं तदा अत्तनो उप्पत्तिट्ठानदस्सनं. ‘‘उदके मण्डूको’’ति एतेन उद्धमायिकादिकस्स थले मण्डूकस्स निवत्तनं कतं होति. गावो चरन्ति एत्थाति गोचरो, गुन्नं घासेसनट्ठानं. इध पन गोचरो वियाति गोचरो, वारि उदकं गोचरो एतस्साति वारिगोचरो. उदकचारीपि हि कोचि कच्छपादि अवारिगोचरोपि होतीति ‘‘वारिगोचरो’’ति विसेसेत्वा वुत्तं. तव धम्मं सुणन्तस्साति ब्रह्मस्सरेन करवीकरुतमञ्जुना देसेन्तस्स तव धम्मं ‘‘धम्मो एसो वुच्चती’’ति सरे निमित्तग्गाहवसेन सुणन्तस्स. अनादरे चेतं सामिवचनं. अवधि वच्छपालकोति वच्छे रक्खन्तो गोपालदारको मम समीपं आगन्त्वा दण्डमोलुब्भ तिट्ठन्तो मम सीसे दण्डं सन्निरुम्भित्वा मं मारेसीति अत्थो.
सितं कत्वाति ‘‘तथा परित्ततरेनापि पुञ्ञानुभावेन एवं अतिविय उळारा लोकियलोकुत्तरा सम्पत्तियो लब्भन्ती’’ति पीतिसोमनस्सजातो भासुरतरधवलविप्फुरन्तदस्सनकिरणावलीहि भिय्योसो मत्ताय तं पदेसं ओभासेन्तो सितं कत्वा. पीतिसोमनस्सवसेन हि सो –
‘‘मुहुत्तं चित्तपसादस्स, इद्धिं पस्स यसञ्च मे;
आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे.
‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम;
पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति. (वि. व. ८५९-८६०);
इमा द्वे गाथा वत्वा पक्कामि.
१४१. यं पन किञ्चीति एत्थ यन्ति अनियमितवचनं. तथा किञ्चीति. पनाति वचनालङ्कारमत्तं. तस्मा यं किञ्चीति ञेय्यस्स अनवसेसपरियादानं कतं होति. पनाति वा विसेसत्थदीपको निपातो. तेन ‘‘सम्मासम्बुद्धो’’ति इमिना सङ्खेपतो, वित्थारतो च सत्थु चतुसच्चाभिसम्बोधो वुत्तो. ‘‘बुद्धो’’ति पन इमिना तदञ्ञस्सपि ञेय्यस्सावबोधो. पुरिमेन वा सत्थु पटिवेधञाणानुभावो, पच्छिमेन देसनाञाणानुभावो. पीति उपरि वुच्चमानो विसेसो जोतीयति. सब्बसो पटिपक्खेहि विमुच्चतीति विमोक्खो, अग्गमग्गो. तस्स अन्तो अग्गफलं, तत्थ भवं तस्मिं लद्धे लद्धब्बतो विमोक्खन्तिकञाणं, सब्बञ्ञुतञ्ञाणेन सद्धिं सब्बम्पि बुद्धञाणं. एवं पवत्तोति एत्थ –
‘‘सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपलेपसङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धो. बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहिकतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति (महानि. १९२) –