५. चागानुस्सतिकथावण्णना
१६०. पकतियाति सभावेन. चागाधिमुत्तेनाति देय्यधम्मपरिच्चागे युत्तप्पयुत्तेन तन्निन्नेन तप्पोणेन. निच्चं सदा पवत्ता दानसंविभागा यस्स सो निच्चपवत्तदानसंविभागो, तेन. इधापि ‘‘पकतिया’’ति आनेत्वा सम्बन्धितब्बं. यं परस्स पटियत्तं दिय्यति, तं दानं. यं अत्तना परिभुञ्जितब्बतो संविभजति, सो संविभागो. इतो दानि पभुतीति इतो पट्ठाय दानि अज्जतग्गे अज्जदिवसं आदिं कत्वा. अदत्वा न भुञ्जिस्सामीति दानसमादानं कत्वा. तंदिवसन्ति तस्मिं भावनारम्भदिवसे. तत्थ निमित्तं गण्हित्वाति तस्मिं दाने परिच्चागचेतनाय पवत्तिआकारस्स सल्लक्खणवसेन निमित्तं गहेत्वा. विगतमलमच्छेरतादिगुणवसेनाति विगतानि मलमच्छेरानि एतस्माति विगतमलमच्छेरो, चागो, तस्स भावो विगतमलमच्छेरता. तदादीनं गुणानं, सम्पत्तीनं, आनिसंसानं वा वसेन.
सतं धम्मं अनुक्कमन्ति साधूनं बोधिसत्तानं धम्मं पवेणिं अनु अनु कमन्तो ओक्कमन्तो, अवोक्कमन्तो वा. ये इमे दायकस्स लाभा आयुवण्णसुखबलपटिभानादयो, पियभावादयो च भगवता संवण्णिता पकित्तिता. मनुस्सत्तं वाति वा-सद्दो अवुत्तविकप्पत्थो, तेन इन्द्रियपाटवभावकम्मस्सकताञाणादीनं सङ्गहो दट्ठब्बो.
मच्छेरमलेनाति मच्छेरसङ्खातेन मलेन. अथ वा मच्छेरञ्च मलञ्च मच्छेरमलं, तेन मच्छेरेन चेव लोभादिमलेन चाति अत्थो. पजायनवसेनाति यथासकं कम्मनिब्बत्तनवसेन. कण्हधम्मानन्ति लोभादिएकन्तकाळकानं पापधम्मानं. विगतत्ताति पहीनत्ता. विगतमलमच्छेरेन चेतसाति इत्थम्भूतलक्खणे करणवचनं. सोतापन्नस्स सतोति गेहं आवसन्तस्स सोतापन्नस्स समानस्स. निस्सयविहारन्ति निस्साय विहरितब्बविहारं, देवसिकं वळञ्जनककम्मट्ठानन्ति अत्थो. अभिभवित्वाति अगारं आवसन्तानं अञ्ञेसं उप्पज्जनकरागादिउपक्किलेसे अभिभुय्य.
यो किञ्चि देन्तोपि सापेक्खोव देति, सो मुत्तचागो न होति, अयं पन न एवन्ति ‘‘मुत्तचागो’’ति वुत्तं. विस्सट्ठचागोति निरपेक्खपरिच्चागोति अत्थो. यथा पाणातिपातबहुलो पुग्गलो ‘‘लोहितपाणी’’ति वुच्चति, एवं दानबहुलो पुग्गलो ‘‘पयतपाणी’’ति वुत्तोति दस्सेन्तो ‘‘दातुं सदा धोतहत्थोयेवा’’ति आह. तत्थ सदाति निच्चं, अभिण्हन्ति अत्थो. परिच्चागोति देय्यधम्मपरिच्चागोति अधिकारतो विञ्ञायति. यं यं देय्यधम्मं परे याचनका. याचने योगो याचनयोगो, परेहि याचितुं युत्तोति अत्थो. याजेन युत्तोति दानेन युत्तो सदा परिच्चजनतो. उभयेति यथावुत्ते दाने, संविभागे च रतो अभिरतो.
१६१. यथा परिसुद्धसीलस्स पुग्गलस्स अखण्डतादिगुणवसेन अत्तनो सीलस्स अनुस्सरन्तस्स सीलानुस्सतिभावना इज्झति, एवं परिसुद्धउळारपरिच्चागस्स पुग्गलस्स अनुपक्किलिट्ठमेव अत्तनो परिच्चागं अनुस्सरन्तस्स भावना इज्झतीति दस्सेतुं ‘‘विगतमलमच्छेरतादिगुणवसेना’’तिआदि वुत्तं, तं वुत्तत्थमेव.
भिय्योसोति उपरिपि. मत्ताय पमाणस्स महतिया मत्ताय, विपुलेन पमाणेनाति अत्थो. चागाधिमुत्तोति परिच्चागे अधिमुत्तो निन्नपोणपब्भारो. ततो एव अलोभज्झासयो कत्थचिपि अनभिसङ्गचित्तो. पटिग्गाहकेसु मेत्तायनवसेन परिच्चागो होतीति मेत्ताय मेत्ताभावनाय अनुलोमकारी अनुरूपपटिपत्ति. विसारदोति विसदो अत्तनोव गुणेन कत्थचिपि अमङ्कुभूतो अभिभुय्य विहारी. सेसं सुविञ्ञेय्यमेव.