२. धम्मानुस्सतिकथावण्णना
१४६. धम्मानुस्सतिन्ति एत्थ पदत्थो, सभावत्थो च आदितो वुत्तोयेवाति तं अनामसित्वा भावनाविधानमेव दस्सेतुं ‘‘धम्मानुस्सतिं भावेतुकामेनापी’’तिआदि आरद्धं. कस्मा पनेत्थ बुद्धानुस्सतियं विय ‘‘अवेच्चप्पसादसमन्नागतेना’’ति न वुत्तं. ननु एता पटिपाटिया छ अनुस्सतियो अरियसावकानं वसेन देसनं आरुळ्हाति? सच्चमेतं, एवं सन्तेपि ‘‘परिसुद्धसीलादिगुणानं पुथुज्जनानम्पि इज्झन्ती’’ति दस्सनत्थं ‘‘अवेच्चप्पसादसमन्नागतेना’’ति इध न वुत्तं, अरियसावकानं पन सुखेन इज्झन्तीति. तथापि पाळियं आगतत्ता च बुद्धानुस्सतिनिद्देसे वुत्तन्ति दट्ठब्बं, अयञ्च विचारो परतो आगमिस्सतेव.
१४७. परियत्तिधम्मोपीति पि-सद्देन लोकुत्तरधम्मं सम्पिण्डेति. इतरेसूति सन्दिट्ठिकादिपदेसु. लोकुत्तरधम्मोवाति अवधारणं निप्परियायेन सन्दिट्ठिकादिअत्थं सन्धाय वुत्तं, परियायतो पनेते परियत्तिधम्मेपि सम्भवन्तेव. तथा हि परियत्तिधम्मो बहुस्सुतेन आगतागमेन परमेन सतिनेपक्केन समन्नागतेन पञ्ञवता आदिकल्याणतादिविसेसतो सयं दट्ठब्बोति सन्दिट्ठिको. आचरियपयिरुपासनाय विना न लब्भाति चे? लोकुत्तरधम्मेपि समाने कल्याणमित्तसन्निस्सयेनेव सिज्झनतो, तथा सत्थुसन्दस्सनेपि. ‘‘सन्दिट्ठिया जयती’’ति अयं पनत्थो तित्थियनिम्मद्दने निप्परियायतोव लब्भति, किलेसजये परियायतो परम्पराहेतुभावतो. ‘‘सन्दिट्ठं अरहती’’ति अयम्पि अत्थो लब्भतेव, सब्बसो संकिलेसधम्मानं पहानं, वोदानधम्मानं परिब्रूहनञ्च उद्दिस्स पवत्तत्ता. अयञ्च अत्थो ‘‘ये खो त्वं, गोतमि, धम्मे जानेय्यासि, इमे धम्मा सरागाय संवत्तन्ति नो विरागाय, सञ्ञोगाय संवत्तन्ति नो विसञ्ञोगाय, सउपादानाय संवत्तन्ति नो अनुपादानाय. एकंसेन, गोतमि, धारेय्यासि ‘नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन’’’न्ति (चूळव. ४०६; अ. नि. ८.५३), ‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा’’ति (म. नि. १.२४०) च एवमादीहि सुत्तपदेहि विभावेतब्बो. अकालिकाधिगमुपायताय अकालिको. विज्जमानतापरिसुद्धताहि एहिपस्सविधिं अरहतीति एहिपस्सिको. ततो एव वट्टदुक्खनित्थरणत्थिकेहि अत्तनो चित्ते उपनयनं, चित्तस्स वा तत्थ उपनयनं अरहतीति ओपनेय्यिको. विमुत्तायतनसीसे ठत्वा परिचयेन सम्मदेव अत्थवेदं, धम्मवेदञ्च लभन्तेहि पच्चत्तं वेदितब्बो विञ्ञूहीति. एवं सन्दिट्ठिकादिपदेसु परियत्तिधम्मम्पि पक्खिपित्वा मनसिकारो युज्जतेव.
साति गाथा. समन्तभद्रकत्ताति सब्बभागेहि सुन्दरत्ता. धम्मस्साति सासनधम्मस्स. किञ्चापि अवयवविनिमुत्तो समुदायो नाम परमत्थतो कोचि नत्थि, येसु पन अवयवेसु समुदायरूपेन अवेक्खितेसु ‘‘गाथा’’ति समञ्ञा, तं ततो भिन्नं विय कत्वा संसामिवोहारं आरोपेत्वा दस्सेन्तो ‘‘पठमेन पादेन आदिकल्याणा’’तिआदिमाह. ‘‘एकानुसन्धिक’’न्ति इदं नातिबहुविभागं यथानुसन्धिना एकानुसन्धिकं सन्धाय वुत्तं, इतरस्स पन तेनेव देसेतब्बधम्मविभागेन आदिमज्झपरियोसानभागा लब्भन्तीति. निदानेनाति कालदेसदेसकपरिसादिअपदिसनलक्खणेन निदानगन्थेन. निगमनेनाति ‘‘इदमवोचा’’तिआदिकेन (सं. नि. १.२४९), ‘‘इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ. नि. १०.२७) वा यथावुत्तत्थनिगमनेन.
अयं कथा विसेसतो सुत्तपिटकसंवण्णनाति कत्वा सुत्तपिटकवसेन धम्मस्स आदिकल्याणादिकं दस्सेत्वा इदानि सुत्तपिटकविनयपिटकानं वसेन तं दस्सेतुं ‘‘सनिदानसउप्पत्तिकत्ता’’तिआदि वुत्तं. तत्थ सनिदानसउप्पत्तिकत्ताति यथावुत्तनिदानेन सनिदानताय, सअट्ठुप्पत्तिकताय च. वेनेय्यानं अनुरूपतोति सिक्खापदपञ्ञत्तिया, धम्मदेसनाय च तंतंसिक्खापदभावेन पञ्ञापियमानस्स वेनेय्यज्झासयानुरूपं पवत्तियमानस्स अनुरूपतो. अत्थस्साति देसियमानस्स च सीलादिअत्थस्स. ‘‘तं किस्स हेतु (सं. नि. १.२४९)? सेय्यथापि, भिक्खवे’’तिआदिना (सं. नि. ३.९५) तत्थ तत्थ हेतूपमागहणेन हेतुदाहरणयुत्ततो.
एवं सुत्तविनयवसेन परियत्तिधम्मस्स आदिमज्झपरियोसानकल्याणतं दस्सेत्वा इदानि तीणि पिटकानि एकज्झं गहेत्वा तं दस्सेतुं ‘‘सकलोपी’’तिआदि वुत्तं. तत्थ सासनधम्मोति –
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति. (ध. प. १८३; दी. नि. २.९०) –
एवं वुत्तस्स सत्थुसासनस्स पकासको परियत्तिधम्मो. सीलेन आदिकल्याणो सीलमूलकत्ता सासनस्स. समथादीहि मज्झेकल्याणो तेसं सासनसम्पत्तिया वेमज्झभावतो. निब्बानेन परियोसानकल्याणो तदधिगमतो उत्तरिकरणीयाभावतो. सासने सम्मापटिपत्ति नाम पञ्ञाय होति, तस्सा च सीलं, समाधि च मूलन्ति आह ‘‘सीलसमाधीहि आदिकल्याणो’’ति. पञ्ञा पन अनुबोधपटिवेधवसेन दुविधाति तदुभयम्पि गण्हन्तो ‘‘विपस्सनामग्गेहि मज्झेकल्याणो’’ति आह. तस्स निप्फत्ति फलं, किच्चं निब्बानसच्छिकिरिया, ततो परं कत्तब्बं नत्थीति दस्सेन्तो आह ‘‘फलनिब्बानेहि परियोसानकल्याणो’’ति. फलग्गहणेन वा सउपादिसेसनिब्बानमाह, इतरेन इतरं, तदुभयञ्च सासनसम्पत्तिया ओसानन्ति आह ‘‘फलनिब्बानेहि परियोसानकल्याणो’’ति.
बुद्धस्स सुबोधिता सम्मासम्बुद्धता, ताय आदिकल्याणो तप्पभवत्ता. सब्बसो संकिलेसप्पहानं वोदानं, पारिपूरी च धम्मसुधम्मता, ताय मज्झेकल्याणो तंसरीरत्ता. सत्थारा यथानुसिट्ठं तथा पटिपत्ति सङ्घसुप्पटिपत्ति, ताय परियोसानकल्याणो, ताय सासनस्स लोके सुप्पतिट्ठितभावतो. तन्ति सासनधम्मं. तथत्तायाति यथत्ताय भगवता धम्मो देसितो, तथत्ताय तथभावाय. सो पन अभिसम्बोधि पच्चेकबोधि सावकबोधीति तिविधो, इतो अञ्ञथा निब्बानाधिगमस्स अभावतो. तत्थ सब्बगुणेहि अग्गभावतो, इतरबोधिद्वयमूलताय च पठमाय बोधिया आदिकल्याणता, गुणेहि वेमज्झभावतो दुतियाय मज्झेकल्याणता, तदुभयावरताय, तदोसानताय च सासनधम्मस्स ततियाय परियोसानकल्याणता वुत्ता.
एसोति सासनधम्मो. नीवरणविक्खम्भनतोति विमुत्तायतनसीसे ठत्वा सद्धम्मं सुणन्तस्स नीवरणानं विक्खम्भनसम्भवतो. वुत्तं हेतं –
‘‘यथा यथावुसो, भिक्खुनो सत्था वा धम्मं देसेति, अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी, तथा तथा सो तत्थ लभति अत्थवेदं लभति धम्मवेद’’न्ति (अ. नि. ५.२६).
‘‘यस्मिं, भिक्खवे, समये अरियसावको ओहितसोतो धम्मं सुणाति, पञ्चस्स नीवरणानि तस्मिं समये पहीनानि होन्ती’’ति (सं. नि. ५.२१९) –
च आदि. समथविपस्सनासुखावहनतोति समथसुखस्स च विपस्सनासुखस्स च सम्पादनतो. वुत्तम्पि चेतं –
‘‘सो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुख’’न्तिआदि (दी. नि. १.२७९; म. नि. २.१३८).
तथा –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानतं;
अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति च. (ध. प. ३७४, ३७३);
तथापटिपन्नोति यथा समथविपस्सनासुखं आवहति, यथा वा सत्थारा अनुसिट्ठं, तथा पटिपन्नो सासनधम्मो. तादिभावावहनतोति छळङ्गुपेक्खावसेन इट्ठादीसु तादिभावस्स लोकधम्मेहि अनुपलेपस्स आवहनतो. एस भगवा वुत्तनयेन तिविधकल्याणं धम्मं देसेन्तो यं सासनब्रह्मचरियं, मग्गब्रह्मचरियञ्च पकासेति, तं यथानुरूपं अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जनन्ति योजना.
तत्थ अविसेसेन तिस्सो सिक्खा, सकलो च तन्तिधम्मो सासनब्रह्मचरियं. यं सन्धाय वुत्तं ‘‘कतमेसानं खो, भन्ते, बुद्धानं भगवन्तानं ब्रह्मचरियं नचिरट्ठितिकं अहोसी’’तिआदि (पारा. १८). सब्बसिक्खानं मण्डभूतसिक्खत्तयसङ्गहितो अरियमग्गो मग्गब्रह्मचरियं. यं सन्धाय वुत्तं ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीय’’न्ति (महाव. २३; सं. नि. ५.१८६). यथानुरूपन्ति यथारहं. सिक्खत्तयसङ्गहं हि सासनब्रह्मचरियं अत्थसम्पत्तिया सात्थं. मग्गब्रह्मचरिये वत्तब्बमेव नत्थि. अत्थसम्पत्तियाति सम्पन्नत्थताय. सम्पत्तिअत्थो हि इध सह-सद्दो. इतरं पन यथावुत्तेनत्थेन सात्थं, सब्यञ्जनञ्च. ये पनेत्थ ‘‘वचनसभावं सात्थं, अत्थसभावं सब्यञ्जन’’न्ति विभजित्वा वदन्ति, तं न सुन्दरं, तथा विभत्तस्स परियत्तिधम्मस्स अभावतो. सद्दत्था हि अभिन्नरूपा विय हुत्वा विनियोगं गच्छन्ति. तथा हि नेसं लोकियामिस्सीभावं पटिजानन्ति. सतिपि वा भेदे ‘‘सब्यञ्जन’’न्ति एत्थ यदि तुल्ययोगो अधिप्पेतो ‘‘सपुत्तो आगतो’’तिआदीसु विय, एवं सति ‘‘अत्थपटिसरणा, भिक्खवे, होथ, मा ब्यञ्जनपटिसरणा’’ति अत्थप्पधानवादो बाधितो सिया, अथ विज्जमानतामत्तं ‘‘सलोमको सपक्खको’’तिआदीसु विय ब्यञ्जनसम्पत्ति अग्गहिता सिया. तस्मा अट्ठकथायं वुत्तनयेनेव अत्थो गहेतब्बो.
सात्थं सब्यञ्जनन्ति एत्थ नेत्तिनयेनापि अत्थं दस्सेतुं ‘‘सङ्कासन…पे… सब्यञ्जन’’न्ति वुत्तं. तत्थ यदिपि नेत्तियं ब्यञ्जनमुखेन ब्यञ्जनत्थग्गहणं होतीति ‘‘अक्खरं पद’’न्तिआदिना (नेत्ति. ४ द्वादसपद) ब्यञ्जनपदानि पठमं उद्दिट्ठानि, इध पन पाळियं ‘‘सात्थं सब्यञ्जन’’न्ति आगतत्ता अत्थपदानियेव पठमं दस्सेतुं ‘‘सङ्कासनपकासना’’तिआदि वुत्तं. तत्थ सङ्खेपतो कासनं दीपनं सङ्कासनं ‘‘मञ्ञमानो भिक्खु बद्धो मारस्स, अमञ्ञमानो मुत्तो’’तिआदीसु (सं. नि. ३.६४) विय. तत्तकेन हि तेन भिक्खुना पटिविद्धं. तेनाह ‘‘अञ्ञातं भगवा’’तिआदि. पठमं कासनं पकासनं. आदिकम्मस्मिं हि अयं पसद्दो ‘‘पञ्ञपेति पट्ठपेती’’तिआदीसु (सं. नि. २.२०) विय. तिक्खिन्द्रियापेक्खं चेतं पदद्वयं उद्देसभावतो. तिक्खिन्द्रियो हि सङ्खेपतो पठमञ्च वुत्तमत्थं पटिपज्जति. संखित्तस्स वित्थारवचनं, सकिं वुत्तस्स पुन वचनञ्च विवरणविभजनानि. यथा ‘‘कुसला धम्मा’’ति सङ्खेपतो सकिंयेव च वुत्तस्स अत्थस्स ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्त’’न्तिआदिना (ध. स. १) वित्थारतो विवरणवसेन, विभजनवसेन च पुन वचनं. मज्झिमिन्द्रियापेक्खमेतं पदद्वयं निद्देसभावतो. विवटस्स वित्थारतराभिधानं, विभत्तस्स च पकारेहि ञापनं वेनेय्यानं चित्तपरितोसनं उत्तानीकरणपञ्ञापनानि. यथा ‘‘फस्सो होती’’तिआदिना (ध. स. २) विवटविभत्तस्स अत्थस्स ‘‘कतमो तस्मिं समये फस्सो? यो तस्मिं समये फस्सो फुसना सम्फुसना’’तिआदिना (ध. स. २) उत्तानीकिरिया, पञ्ञापना च. मुदिन्द्रियापेक्खमेतं पदद्वयं पटिनिद्देसभावतो. ‘‘पञ्ञापनपट्ठपनविवरणविभजनउत्तानीकरणपकासनअत्थपदसमायोगतो’’तिपि पाठो.
कथं पनायं पाठविकप्पो जातोति? वुच्चते – नेत्तिपाळियं आगतनयेन पुरिमपाठो. तत्थ हि –
‘‘सङ्कासना पकासना,
विवरणा विभजनुत्तानीकम्मपञ्ञत्ति;
एतेहि छहि पदेहि,
अत्थो कम्मञ्च निद्दिट्ठ’’न्ति. (नेत्ति. ४ द्वादसपद) –
देसनाहारयोजनाय च एतस्सेवत्थस्स ‘‘सङ्कासना पकासना’’तिआदिना आगतं. पच्छिमो पन ‘‘पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति ‘पस्सथा’ति चाहा’’ति (सं. नि. २.२०) सुत्ते आगतनयेन ब्यञ्जनमत्तकतो. एवञ्च नेसं द्विन्नं पाठानं विसेसो, न अत्थतो. तथा हि सङ्खेपतो ‘‘पठमं ञापनं पञ्ञापनं, पठममेव ठपनं पट्ठपन’’न्ति इमानि पदानि सङ्कासनपकासनपदेहि अत्थतो अविसिट्ठानि. यञ्च पुरिमपाठे छट्ठं पदं ‘‘पकारतो ञापन’’न्ति पञ्ञापनं वुत्तं, तं दुतियपाठे पकासनपदेन ‘‘निब्बिसेसं पकारतो कासन’’न्ति कत्वा. यस्मा ञापनकासनानि अत्थावभासनसभावताय अभिन्नानि, सब्बेसञ्च वेनेय्यानं चित्तस्स तोसनं, बुद्धिया च निसानं याथावतो वत्थुसभावावभासने जायतीति. एवं अत्थपदरूपत्ता परियत्तिअत्थस्स यथावुत्तछअत्थपदसमायोगतो सात्थं सासनं.
अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देससम्पत्तियाति एत्थ उच्चारणवेलायं अपरियोसिते पदे वण्णो अक्खरं. ‘‘एकक्खरं पदं अक्खर’’न्ति एके ‘‘आ एवं किर त’’न्तिआदीसु आ-कारादयो विय. ‘‘विसुद्धकरणानं मनसा देसनावाचाय अक्खरणतो अक्खर’’न्ति अञ्ञे. विभत्तियन्तं अत्थञापनतो पदं. सङ्खेपतो वुत्तं पदाभिहितं अत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यं. ‘‘किरियापदं अब्ययकारकविसेसनयुत्तं वाक्य’’न्ति हि वदन्ति. पकारतो वाक्यविभागो आकारो. आकाराभिहितं निब्बचनं निरुत्ति. निब्बचनवित्थारो निस्सेसुपदेसतो निद्देसो. एतेसं अक्खरादीनं ब्यञ्जनपदानं सम्पत्तिया सम्पन्नताय सब्यञ्जनं.
तत्रायमस्स अत्थपदसमायोगो, ब्यञ्जनसम्पत्ति च – अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानीकरोति, निद्देसेहि पञ्ञपेति, तथा अक्खरेहि उग्घाटेत्वा पदेहि विनेति उग्घटितञ्ञुं, ब्यञ्जनेहि विपञ्चेत्वा आकारेहि विनेति विपञ्चितञ्ञुं, निरुत्तीहि नेत्वा निद्देसेहि विनेति नेय्यं. एवञ्चायं धम्मो उग्घटियमानो उग्घटितञ्ञुं विनेति, विपञ्चियमानो विपञ्चितञ्ञुं, निय्यमानो नेय्यं. तत्थ उग्घटना आदि, विपञ्चना मज्झे, नयनमन्ते. एवं तीसु कालेसु तिधा देसितो दोसत्तयविधमनो गुणत्तयावहो तिविधवेनेय्यविनयनोति. एवम्पि तिविधकल्याणोयं धम्मो अत्थब्यञ्जनपारिपूरिया ‘‘सात्थो सब्यञ्जनो’’ति वेदितब्बो ‘‘परिपुण्णो, परिसुद्धो’’ति च.
अत्थगम्भीरतातिआदीसु अत्थो नाम तन्तिअत्थो. धम्मो तन्ति. पटिवेधो तन्तिया, तन्तिअत्थस्स च यथाभूतावबोधो. देसना मनसा ववत्थापिताय तन्तिया देसना. ते पनेते अत्थादयो यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा, अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. अथ वा अत्थो नाम हेतुफलं. धम्मो हेतु. देसना पञ्ञत्ति, यथाधम्मं धम्माभिलापो, अनुलोमपटिलोमसङ्खेपवित्थारादिवसेन वा कथनं. पटिवेधो अभिसमयो, अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्ञत्तिपथानुरूपं पञ्ञत्तीसु अवबोधो, तेसं तेसं वा धम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो. तेपि चेते अत्थादयो यस्मा अनुपचितकुसलसम्भारेहि दुप्पञ्ञेहि ससादीहि विय महासमुद्दो दुक्खोगाहा, अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. तेसु पटिवेधस्सापि अत्थसन्निस्सितत्ता वुत्तं ‘‘अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थ’’न्ति अत्थगुणदीपनतो. तासं धम्मदेसनानं ब्यञ्जनसन्निस्सितत्ता वुत्तं ‘‘धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जन’’न्ति तासं ब्यञ्जनसम्पत्तिदीपनतो.
अत्थेसु पभेदगतं ञाणं अत्थपटिसम्भिदा. अत्थधम्मनिरुत्तिपटिसम्भिदासु पभेदगतं ञाणं पटिभानपटिसम्भिदाति इमिस्सापि पटिसम्भिदाय अत्थविसयत्ता आह ‘‘अत्थपटिभानपटिसम्भिदाविसयतो सात्थ’’न्ति, अत्थसम्पत्तिया असति तदभावतो. धम्मोति तन्ति. निरुत्तीति तन्तिपदानं निद्धारेत्वा वचनं. तत्थ पभेदगतानि ञाणानि धम्मनिरुत्तिपटिसम्भिदाति आह ‘‘धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्जनन्ति, असति ब्यञ्जनसम्पत्तिया तदभावतो. परिक्खकजनप्पसादकन्ति एत्थ इति-सद्दो हेतुअत्थो. यस्मा परिक्खकजनानं किंकुसलगवेसीनं पसादावहं, तस्मा सात्थं. अत्थसम्पन्नन्ति फलेन हेतुनो अनुमानं नदीपूरेन विय उपरि वुट्ठिप्पवत्तिया. सात्थकता पनस्स पण्डितवेदनीयताय, सा परमगम्भीरसण्हसुखुमभावतो वेदितब्बा. वुत्तञ्हेतं ‘‘गम्भीरो दुद्दसो’’तिआदि (महाव. ८). लोकियजनप्पसादकन्ति सब्यञ्जनन्ति यस्मा लोकियजनस्स पसादावहं, तस्मा सब्यञ्जनं. लोकियजनो हि ब्यञ्जनसम्पत्तिया तुस्सति, इधापि फलेन हेतुनो अनुमानं. सब्यञ्जनता पनस्स सद्धेय्यताय, सा आदिकल्याणादिभावतो वेदितब्बा.
अथ वा पण्डितवेदनीयतो सात्थ’’न्ति पञ्ञापदट्ठानताय अत्थसम्पन्नतं आह, ततो परिक्खकजनप्पसादकं. सद्धेय्यतो सब्यञ्जनन्ति सद्धापदट्ठानताय ब्यञ्जनसम्पन्नतं, ततो लोकियजनप्पसादकन्ति एवमेत्थ अत्थो दट्ठब्बो. गम्भीराधिप्पायतो सात्थन्ति अधिप्पायतो अगाधापारताय अत्थसम्पन्नं अञ्ञथा तदभावतो. उत्तानपदतो सब्यञ्जनन्ति सुबोधसद्दताय ब्यञ्जनसम्पन्नं, परमगम्भीरस्सपि अत्थस्स वेनेय्यानं सुविञ्ञेय्यभावापादनतो. सब्बोपेस पठमस्स अत्थद्वयस्स पभेदो दट्ठब्बो, तथा चेव तत्थ तत्थ संवण्णितं. तथा हेत्थ विकप्पस्स, समुच्चयस्स वा अग्गहणं. उपनेतब्बस्साति पक्खिपितब्बस्स वोदानत्थस्स अवुत्तस्स अभावतो. सकलपरिपुण्णभावेनाति सब्बभागेहि परिपुण्णताय. अपनेतब्बस्साति संकिलेसधम्मस्स.
पटिपत्तियाति सीलविसुद्धियादिसम्मापटिपत्तिया, तन्निमित्तं. अधिगमब्यत्तितोति सच्चपटिवेधेन अधिगमवेय्यत्तियसब्भावतो सात्थं कपिलवतादि विय तुच्छं निरत्थकं अहुत्वा अत्थसम्पन्नन्ति कत्वा. परियत्तियाति परियत्तिधम्मपरिचयेन. आगमब्यत्तितोति दुरक्खातधम्मेसु परिचयं करोन्तस्स विय सम्मोहं अजनेत्वा बाहुसच्चवेय्यत्तियसब्भावतो सब्यञ्चनं. ब्यञ्जनसम्पत्तिया हि सति आगमब्यत्तीति. सीलादिपञ्चधम्मक्खन्धयुत्ततोति सीलादीहि पञ्चहि धम्मकोट्ठासेहि अविरहितत्ता. केवलपरिपुण्णं अनवसेसेन समन्ततो पुण्णं पूरितं. निरुपक्किलेसतोति दिट्ठिमानादिउपक्किलेसाभावतो. नित्थरणत्थायाति वट्टदुक्खतो निस्सरणाय. लोकामिसनिरपेक्खतोति कथञ्चिपि तण्हासन्निस्सयस्स अनिस्सयनतो.
एवं आदिकल्याणतादिअपदेसेन सत्थु पुरिमवेसारज्जद्वयवसेन धम्मस्स स्वाक्खाततं विभावेत्वा इदानि पच्छिमवेसारज्जद्वयवसेनापि तं दस्सेतुं ‘‘अत्थविपल्लासाभावतो वा सुट्ठु अक्खातोति स्वाक्खातो’’ति वत्वा तमत्थं ब्यतिरेकमुखेन विभावेन्तो ‘‘यथा ही’’तिआदिमाह. तत्थ विपल्लासमापज्जतीति तेसं धम्मे ‘‘अन्तरायिका’’ति वुत्तधम्मानं विपाकादीनं अन्तरायिकत्ताभावतो एकंसेन अपायूपपत्तिहेतुताय अभावतो. निय्यानिकत्ताभावतोति अतम्मयताभावतो, संसारतो च निय्यानिकाति वुत्तधम्मानं एकच्चयञ्ञकिरियापकतिपुरिसन्तरञ्ञाणादीनं ततो निय्यानिकत्ताभावतो विपरीतो एव होति. तेनाति अत्थस्स विपल्लासापज्जनेन. ते अञ्ञतित्थिया. तथाभावानतिक्कमनतोति कम्मन्तरायादीनं पञ्चन्नं अन्तरायिकभावस्स अरियमग्गधम्मानं निय्यानिकभावस्स कदाचिपि अनतिवत्तनतो.
निब्बानानुरूपाय पटिपत्तियाति अधिगन्तब्बस्स सब्बसङ्खतविनिस्सटस्स निब्बानस्स अनुरूपाय सब्बसङ्खारनिस्सरणूपायभूताय सपुब्बभागाय सम्मापटिपत्तिया अक्खातत्ताति योजना. पटिपदानुरूपस्साति सब्बदुक्खनिय्यानिकभूता आरम्मणकरणमत्तेनापि किलेसेहि अनामसनीया यादिसी पटिपदा, तदनुरूपस्स. सुपञ्ञत्ताति सीलादिक्खन्धत्तयसङ्गहिता सम्मादिट्ठिआदिप्पभेदा मिच्छादिट्ठिआदीनं पहायिकभावेन सुट्ठु सम्मदेव विहिता. संसन्दति किलेसमलविसुद्धिताय समेति. एवं मग्गनिब्बानानं पटिपदापटिपज्जनीयभावेहि अञ्ञमञ्ञानुरूपताय स्वाक्खाततं दस्सेत्वा इदानि तिविधस्सापि लोकुत्तरधम्मस्स पच्चेकं स्वाक्खाततं दस्सेतुं ‘‘अरियमग्गो चेत्था’’तिआदि वुत्तं. तत्थ अन्तद्वयन्ति सस्सतुच्छेदं, कामसुखअत्तकिलमथानुयोगं, लीनुद्धच्चं, पतिट्ठानायूहनन्ति एवं पभेदं अन्तद्वयं. अनुपगम्माति अनुपगन्त्वा, अनुपगमनहेतु वा. पटिपस्सद्धकिलेसानीति सुट्ठु वूपसन्तकिलेसानि, पटिपस्सद्धिप्पहानवसेन सम्मदेव पहीनदोसानि. सस्सतादिसभाववसेनाति ‘‘सस्सतञ्च वो, भिक्खवे, धम्मं देसेस्सामि अमतञ्च ताणञ्च लेणञ्चा’’तिआदिना तेसु तेसु सुत्तेसु सस्सतादिभावकित्तनवसेन.
१४८. ‘‘रागादीनं अभावं करोन्तेन अरियपुग्गलेन सामं दट्ठब्बो’’ति इमिना ‘‘अरियमग्गेन मम रागादयो पहीना’’ति सयं अत्तना अनञ्ञनेय्येन दट्ठब्बोति सन्दिट्ठि, सन्दिट्ठि एव सन्दिट्ठिको.
तेन तेन अरियसावकेन परसद्धाय परस्स सद्दहनेन परनेय्येन गन्तब्बतं हित्वा ञापेतब्बतं पहाय पच्चवेक्खणञाणेन करणभूतेन. पसत्था दिट्ठि सन्दिट्ठि यथा सम्बोज्झङ्गो. अरियमग्गो अत्तना सम्पयुत्ताय सन्दिट्ठिया किलेसे जयति, अरियफलं ताय एव अत्तनो कारणभूताय, निब्बानं आरम्मणकरणेन अत्तनो विसयीभूताय सन्दिट्ठिया किलेसे जयतीति योजना.
भावनाभिसमयवसेन मग्गधम्मो. सच्छिकिरियाभिसमयवसेन निब्बानधम्मो. फलम्पि हेट्ठिमं सकदागामिविपस्सनादीनं पच्चयभावेन उपरि मग्गाधिगमस्स उपनिस्सयभावतो परियायतो ‘‘दिस्समानो वट्टभयं निवत्तेती’’ति वत्तब्बतं लभति.
१४९. नास्स कालोति नास्स आगमेतब्बो कालो अत्थि. यथा हि लोकियकुसलस्स ‘‘उपपज्जे, अपरपरियाये’’तिआदिना फलदानं पति आगमेतब्बो कालो अत्थि, न एवमेतस्साति अत्थो. तेनाह ‘‘न पञ्चाहा’’तिआदि. पकट्ठोति दूरो. फलदानं पति कालो पकट्ठो अस्साति कालिको, कालन्तरफलदायी. तेनाह ‘‘अत्तनो फलदाने’’ति. पत्तोति उपनीतो. इदन्ति ‘‘अकालिको’’ति पदं.
१५०. विधिन्ति विधानं, ‘‘एहि पस्सा’’ति एवंपवत्तविधिवचनं. विज्जमानत्ताति परमत्थतो उपलब्भमानत्ता. परिसुद्धत्ताति किलेसमलविरहेन सब्बथा विसुद्धत्ता. अमनुञ्ञम्पि कदाचि पयोजनवसेन यथासभावप्पकासनेन दस्सेतब्बं भवेय्याति तदभावं दस्सेन्तो आह ‘‘मनुञ्ञभावप्पकासनेना’’ति.
१५१. उपनेतब्बोति उपनेय्यो, उपनेय्योव ओपनेय्यिकोति इमस्स अत्थस्स अधिप्पेतत्ता आह ‘‘उपनेतब्बोति ओपनेय्यिको’’ति. चित्ते उपनयनं उप्पादनन्ति आह ‘‘इदं सङ्खते लोकुत्तरधम्मे युज्जती’’ति. चित्ते उपनयनन्ति पन आरम्मणभूतस्स धम्मस्स आरम्मणभावूपनयने अधिप्पेते असङ्खतेपि युज्जेय्य ‘‘आरम्मणकरणसङ्खातं उपनयनं अरहतीति ओपनेय्यिको’’ति. अल्लीयनन्ति फुसनं. निब्बानं उपनेति अरियपुग्गलन्ति अधिप्पायो.
१५२. विञ्ञूहीति विदूहि, पटिविद्धसच्चेहीति अत्थो. ते पन एकंसतो उग्घटितञ्ञूआदयो होन्तीति आह ‘‘उग्घटितञ्ञूआदीही’’ति. ‘‘पच्चत्त’’न्ति एतस्स ‘‘पति अत्तनी’’ति भुम्मवसेन अत्थो गहेतब्बोति आह ‘‘अत्तनि अत्तनी’’ति. वेदितब्बोति वुत्तं, कथं वेदितब्बोति आह ‘‘भावितो मे’’तिआदि. तत्थ ‘‘मे’’ति इमिना ‘‘पच्चत्त’’न्ति पदेन वुत्तमत्थं अन्वयतो दस्सेत्वा पुन ब्यतिरेकेन दस्सेतुं ‘‘न ही’’तिआदि वुत्तं, तं सुविञ्ञेय्यमेव. ‘‘विञ्ञूही’’ति इदं अन्तोगधावधारणन्ति दस्सेन्तो ‘‘बालानं पन अविसयो चेसा’’ति आह.
एवं आदिकल्याणतादिना अञ्ञमञ्ञस्स अनुरूपदेसनाय धम्मस्स स्वाक्खाततं दस्सेत्वा इदानि पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं पदं कारणवचनन्ति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ सन्दिट्ठिकत्ताति यस्मा अयं धम्मो वुत्तनयेन सामं दट्ठब्बो, सन्दिट्ठिया किलेसे विद्धंसेति, सन्दस्सनञ्च अरहति, तस्मा स्वाक्खातो दुरक्खाते तित्थियधम्मे तदभावतो. इमिना नयेन सेसपदेसुपि यथारहं अत्थो दट्ठब्बो.
१५३. तस्सेवन्तिआदीसु यं वत्तब्बं, तं बुद्धानुस्सतियं वुत्तनयेन वेदितब्बं.