३. सङ्घानुस्सतिकथावण्णना

१५४. अरियसङ्घगुणाति आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो, सदेवकेन च लोकेन ‘‘सरण’’न्ति अरणीयतो अरियो च सो सङ्घो च, अरियानं वा सङ्घो अरियसङ्घो, तस्स गुणा.

१५५. यं सम्मापटिपदं पटिपन्नो ‘‘सुट्ठु पटिपन्नो’’ति वुच्चति. सा अरियमग्गपटिपदा पटिपक्खधम्मे अनिवत्तिधम्मे कत्वा पजहनतो पयोजनाभावा सयम्पि अनिवत्तिधम्मा, अधिगन्तब्बस्स च निब्बानस्स एकंसतो अनुलोमीति. ततो एव अपच्चनीका, अनुधम्मभूता च, तस्सा च पटिपन्नत्ता अरियसङ्घो ‘‘सुप्पटिपन्नो’’ति वुत्तोति दस्सेतुं ‘‘सुट्ठु पटिपन्नो’’तिआदि वुत्तं. तत्थ ‘‘अनिवत्तिपटिपद’’न्ति इमिना उजुप्पटिपत्तिं दस्सेति. पुनप्पुनं निवत्तने हि सति उजुप्पटिपत्ति न होति. ‘‘अनुलोमपटिपदं अपच्चनीकपटिपद’’न्ति इमिना ञायप्पटिपत्तिं. पटिपज्जितब्बस्स हि निब्बानस्स अनुलोमनेन, अपच्चनीकताय चस्सा ञायतो. ‘‘धम्मानुधम्मपटिपद’’न्ति इमिना सामीचिप्पटिपत्तिं अनुच्छविकभावदीपनतो. एतेन पठमपदस्स पपञ्चनिद्देसो, इतरानि तीणि पदानीति दस्सेति. तेनाह ‘‘यस्मा पना’’तिआदि.

यथानुसिट्ठं पटिपज्जनेन किच्चसिद्धितो अरियभावावहं सवनं सक्कच्चसवनं नामाति वुत्तं ‘‘सक्कच्चं सुणन्तीति सावका’’ति, तेन अरिया एव निप्परियायतो सत्थु सावका नामाति दस्सेति. सीलदिट्ठिसामञ्ञतायाति अरियेन सीलेन, अरियाय च दिट्ठिया समानभावेन. अरियानञ्हि सीलदिट्ठियो मज्झे भिन्नसुवण्णं विय निन्नानाकरणं मग्गेनागतत्ता. तेन ते यत्थ कत्थचि ठितापि संहताव. तेनाह ‘‘सङ्घातभावमापन्नो’’ति. मायासाठेय्यादिपापधम्मसमुच्छेदेन उजु. ततो एव गोमुत्तवङ्काभावेन अवङ्का. चन्दलेखावङ्काभावेन अकुटिला. नङ्गलकोटिवङ्काभावेन अजिम्हा. अवङ्कादिभावेन वा उजु. परिसुद्धट्ठेन अरिया. अपण्णकभावेन ञायति कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाति ञायो. वट्टदुक्खनिय्यानाय अनुच्छविकत्ता. अनुरूपत्ता सामीचि ओपायिकातिपि सङ्खं समञ्ञं गता सम्मापटिपत्ति, ताय समङ्गिताय सुप्पटिपन्ना ‘‘सम्मा पटिपज्जन्ती’’ति कत्वा. वत्तमानत्थो हि अयं पटिपन्न-सद्दो यथा ‘‘सोतापत्तिफलसच्छिकिरियाय पटिपन्नो’’ति (पु. प. २०६). अतीतं पटिपदन्ति यथावुत्तमग्गसम्मापटिपत्तिं वदति. उभयेन च सामञ्ञनिद्देसेन, ‘‘सुप्पटिपन्ना च सुप्पटिपन्ना च सुप्पटिपन्ना’’ति एकसेसनयेन वा गहितानं समूहो ‘‘सुप्पटिपन्नो’’ति वुत्तोति दस्सेति.

एवं आदिपदत्थनिद्देसभावेन इतरपदानं अत्थं वत्वा इदानि चतुन्नम्पि पदानं अवोमिस्सकं अत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ यथानुसिट्ठन्ति सत्थारा यथा अनुसिट्ठं, तथा अनुसासनीअनुरूपन्ति अत्थो. अपण्णकपटिपदन्ति अविरज्झनकपटिपदं, अनवज्जपटिपत्तिन्ति अत्थो. एत्थ च स्वाक्खाते धम्मविनये अपण्णकपटिपदं पटिपन्नत्ताति एवं सम्बन्धितब्बं. पुरिमपदेन सम्बन्धे दुतियपदं न वत्तब्बं सिया, ननु च दुतियपदेन सम्बन्धेपि पठमं पदं न वत्तब्बं सियाति? न तस्स पठमं अपेक्खितत्ता. सा पन सावकानं अपण्णकपटिपदा यथानुसिट्ठं पटिपदाति दस्सनत्थं ‘‘यथानुसिट्ठं पटिपन्नत्ता’’ति वत्तब्बं. उभयस्सापि वा सुप्पटिपन्नभावसाधनत्ता उभयं वुत्तं. तथा हि पि-सद्देन उभयं समुच्चिनोति.

किलेसजिम्हवसेन अन्तद्वयगाहोति सब्बसो तं पहाय सम्मापटिपदा कायादिवङ्कप्पहायिनी उजुप्पटिपत्ति होतीति आह ‘‘मज्झिमाय पटिपदाय…पे… उजुप्पटिपन्नो’’ति.

ञायो नाम युत्तप्पत्तपटिपत्ति, निब्बानञ्च, सब्बसङ्खारसमथताय आदित्तं चेलं, सीसं वा अज्झुपेक्खित्वापि पटिपज्जितब्बमेवाति आह ‘‘ञायो वुच्चति निब्बान’’न्ति. निब्बायनकिरियामुखेन चेत्थ निब्बानं वुत्तन्ति दट्ठब्बं, मग्गञाणादीहि वा ञायति पटिविज्झीयति सच्छिकरीयति चाति ञायो निब्बानन्ति एवमेत्थ अत्थो दट्ठब्बो.

गुणसम्भावनाय परेहि कयिरमानं पच्चुपट्ठानादिसामीचिकम्मं अरहन्तीति सामीचिकम्मारहा.

१५६. यदिदन्ति अन्तोगधलिङ्गवचनभेदो निपातोति तस्स वचनभेदेन अत्थमाह ‘‘या इमानी’’ति. एवन्ति पकारत्थे निपातो, इमिना पकारेनाति अत्थो. तेन इतरानि तीणि युगळानि दस्सितानि होन्तीति आह ‘‘एवं चत्तारि पुरिसयुगळानि होन्ती’’ति. एतन्ति एतं ‘‘पुरिसपुग्गला’’ति बहुवचनवसेन वुत्तं पदं. पुरिसा च ते पुग्गला च पुरिसपुग्गला. तत्थ ‘‘पुरिसा’’ति इमिना पठमाय पकतिया गहणं, ‘‘पुग्गला’’ति पन दुतियायपि सत्तसामञ्ञेनाति एवं वा एत्थ अत्थो दट्ठब्बो. चतुन्नं पच्चयानं कीदिसानं? आनेत्वा हुनितब्बानन्ति अधिकारतो पाकटोयमत्थो. दातब्बन्ति वा पच्चत्तवचनं ‘‘चतुन्नं पच्चयान’’न्ति पदं अपेक्खित्वा सामिवसेन परिणामेतब्बं, अञ्ञथा येसं केसञ्चि चतुन्नं पच्चयानं ‘‘आहुन’’न्ति समञ्ञा सिया. आहुनं अरहतीति वा आहुनेय्यो. सक्कादीनम्पि वा आहवनन्ति सक्कादीहिपि दिय्यमानं दानं. यत्थ हुतं महप्फलन्ति यस्मिं आवहनीयग्गिम्हि हुतं दधिआदि आहुनेय्यग्गिगहपतग्गिदक्खिणेय्यग्गीसु हुततो उळारफलन्ति तेसं ब्राह्मणानं लद्धि. हुतन्ति दिन्नं. निकायन्तरेति सब्बत्थिकवादिनिकाये.

ठपेत्वा १६५ तेति ते पियमनापे ञातिमित्ते अपनेत्वा, तेसं अदत्वाति अधिप्पायो. एस एसो. एकबुद्धन्तरे च दिस्सतीति एकस्मिं बुद्धन्तरे वीतिवत्ते दिस्सति. च-सद्देन कदाचि असङ्ख्येय्येपि कप्पे वीतिवत्तेति दस्सेति. अब्बोकिण्णन्ति पटिपक्खेहि अवोमिस्सं, किरियाविसेसकञ्चेतं. पियमनापत्तकरधम्मा नाम सीलादयो, ते अरियसङ्घे सुप्पतिट्ठिता. अयं हेत्थ अधिप्पायो – ञातिमित्ता विप्पयुत्ता न चिरस्सेव समागच्छन्ति, अनवट्ठिता च तेसु पियमनापता, न एवमरियसङ्घो. तस्मा सङ्घोव पाहुनेय्योति. पुब्बकारन्ति अग्गकिरियं. सब्बप्पकारेनाति आदरगारवबहुमानादिना, देय्यधम्मस्स सक्कच्चकरणादिना च सब्बेन पकारेन. स्वायं पाहवनीय-सद्दो ‘‘पाहुनेय्यो’’ति वुच्चति परियायभावेन.

दक्खन्ति एताय सत्ता यथाधिप्पेताहि सम्पत्तीहि वड्ढन्तीति दक्खिणा. तथाभावकरणेन दक्खिणं अरहति. यथा उळारातिविपुलुद्रयलाभेन विसोधितं नाम होति, एवं दक्खिणा विपुलफलतायाति वुत्तं ‘‘महप्फलकरणताय विसोधेती’’ति.

पुञ्ञत्थिकेहि अञ्जलि करणीया एत्थाति अञ्जलिकरणीयो.

यदिपि पाळियं ‘‘अनुत्तर’’न्ति वुत्तं. नत्थि इतो उत्तरं विसिट्ठन्ति हि अनुत्तरं. समम्पिस्स पन नत्थीति दस्सेन्तो ‘‘असदिस’’न्ति आह. खित्तं वुत्तं बीजं महप्फलभावकरणेन तायति रक्खति, खिपन्ति वपन्ति एत्थ बीजानीति वा खेत्तं, केदारादि, खेत्तं विय खेत्तं, पुञ्ञानं खेत्तं पुञ्ञक्खेत्तं. सेसं बुद्धानुस्सतियं वुत्तनयानुसारेन वेदितब्बं.