१५. परिक्खारहारविभङ्गविभावना

४९. येन येन संवण्णनाविसेसभूतेन विभङ्गेन दुक्खसच्चादीनं एकत्ततादयो विभत्ता, सो संवण्णनाविसेसभूतो परिपुण्णो, ‘‘कतमो परिक्खारहारविभङ्गो नामा’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो परिक्खारो हारो’’तिआदि वुत्तं. तत्थ तत्थाति तेसु निद्दिट्ठेसु सोळससु देसनाहारादीसु कतमो संवण्णनाविसेसो परिक्खारो हारो परिक्खारहारविभङ्गो नामाति पुच्छति. ‘‘ये धम्मा यं धम्मं जनयन्ती’’तिआदिनिद्देसस्स इदानि मया वुच्चमानो ‘‘यो धम्मो यं धम्मं जनयति, तस्स सो परिक्खारो’’तिआदिको परिक्खारभूतस्स हेतुनो चेव पच्चयस्स च वित्थारसंवण्णनाविसेसो परिक्खारविभङ्गो नाम.

‘‘कतमो संवण्णेतब्बो परिक्खारो’’ति पुच्छितब्बत्ता ‘‘यो धम्मो’’तिआदि वुत्तं. तत्थ यो हेतुपच्चयप्पकारो धम्मो यं फलभूतं धम्मं जनयति जनेति, तस्स फलधम्मस्स सो हेतुपच्चयप्पकारो धम्मो परिक्खारो नाम. ‘‘किंलक्खणो परिक्खारो’’ति पुच्छितब्बत्ता तथा पुच्छित्वा लक्खणविसेसं दस्सेतुं ‘‘किंलक्खणो’’तिआदि वुत्तं. अट्ठकथायं पन – ‘‘तत्थ ‘यो धम्मो यं धम्मं जनयति, तस्स सो परिक्खारो’ति सङ्खेपतो परिक्खारलक्खणं वत्वा तं विभागेन दस्सेतुं ‘किंलक्खणो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ४९) वुत्तं. ‘‘कित्तका धम्मा जनयन्ती’’ति पुच्छितब्बत्ता ‘‘द्वे धम्मा जनयन्ति हेतु च पच्चयो चा’’ति वुत्तं. ‘‘हेतुपि कारणं, पच्चयोपि कारणं, तस्मा कारणायेव केन लक्खणेन द्विधा वुत्ता’’ति वत्तब्बत्ता ‘‘तत्थ किंलक्खणो’’तिआदि वुत्तं. जनितब्बफलतो अञ्ञेहि फलेहि असाधारणलक्खणो हेतु, सब्बफलेहि साधारणलक्खणो पच्चयो, इमिना विसेसलक्खणेन द्विधा वत्तब्बाति अत्थो. ‘‘साधारणासाधारणविसेसो कीदिसो भवे’’ति पुच्छितब्बत्ता ‘‘यथा किं भवे’’ति पुच्छित्वा ‘‘यथा अङ्कुरस्सा’’तिआदि वुत्तं. यथा यो साधारणासाधारणविसेसो अत्थि, तथा सो साधारणासाधारणविसेसो किं विय भवेति अत्थो. अङ्कुरस्स निब्बत्तिया बीजं असाधारणं यथा, तथा हेतु फलस्स निब्बत्तिया असाधारणो भवे. पथवी च आपो च अङ्कुरस्स निब्बत्तिया साधारणा भवन्ति यथा, तथा पच्चयो फलस्स निब्बत्तिया साधारणो भवे. सब्बफलस्स पच्चयत्ता अङ्कुरस्स बीजं असाधारणं जनकं हेतु. ‘‘कथं पथवी, आपो च साधारणा जनकाति सद्दहितब्बा’’ति पुच्छितब्बत्ता ‘‘अङ्कुरस्स ही’’तिआदि वुत्तं. समं समानं फलं भवापेतीति सभावो, को सो? बीजं हेतुयेव. ‘‘किं हेतुपच्चयानं विसेसो बीजङ्कुरोपमायेव दस्सेतब्बो, उदाहु अञ्ञूपमायपि दस्सेतब्बो’’ति वत्तब्बत्ता अञ्ञाय उपमायपि विसेसं दस्सेतुं ‘‘यथा वा पना’’तिआदि वुत्तं. इमाय उपमायपि हेतुपच्चयानं विसेसो विजानितब्बोति अधिप्पायो.

बीजङ्कुरादीसु बाहिरेसु परिक्खारभूतानं हेतुपच्चयानं विसेसो आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कथं अज्झत्तिकेसु विभत्तो’’ति पुच्छितब्बत्ता ‘‘अयञ्हि संसारो’’तिआदि वुत्तं. अथ वा ‘‘बाहिरेसु परिक्खारभूतो हेतुपच्चयो युत्तो होतु, कथं अज्झत्तिकेसु युत्तो’’ति वत्तब्बत्ता ‘‘अयञ्हि संसारो’’तिआदि वुत्तं. अट्ठकथायं पन – ‘‘एवं बाहिरं हेतुपच्चयविभागं दस्सेत्वा इदानि अज्झत्तिकं दस्सेतुं ‘अयञ्हि संसारो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ४९) वुत्तं. हेतुपच्चयेहि सह संसारो भवतीति सहेतुपच्चयो. अयं संसारो हि यस्मा सहेतुपच्चयो हुत्वा निब्बत्तो, तस्मा अज्झत्तिकेपि परिक्खारभूतो हेतुपच्चयो युत्तोयेवाति दट्ठब्बोति अधिप्पायो.

सो इमस्स संसारस्स सहेतुपच्चयत्तं यदि भगवता वुत्तं, एवं सति अम्हेहि सद्दहितब्बं, ‘‘कथं सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘एवञ्ही’’तिआदि वुत्तं. एवन्ति इमिना अविज्जादिना हेतुपच्चयेन सब्बो पटिच्चसमुप्पादो संसारोति निब्बत्तोति भगवता संसारस्स सहेतुपच्चयत्तं वुत्तं, तस्मा सद्दहितब्बं. अविज्जादयो सङ्खारादीनं पच्चयो होतु, ‘‘कतमो अविज्जाय हेतू’’ति पुच्छितब्बत्ता ‘‘इति अविज्जा अविज्जाय हेतू’’ति वुत्तं. ‘‘कतमो अविज्जाय पच्चयो’’ति पुच्छितब्बत्ता ‘‘अयोनिसो मनसिकारो पच्चयो’’ति वुत्तं. ‘‘कतमा अविज्जा कतमाय अविज्जाय हेतू’’ति पुच्छितब्बत्ता ‘‘पुरिमिका अविज्जा पच्छिमिकाय अविज्जाय हेतू’’ति वुत्तं. ‘‘कतमा पुरिमिका अविज्जा कतमा पच्छिमिका अविज्जा’’ति पुच्छितब्बत्ता ‘‘तत्था’’तिआदि वुत्तं. ‘‘अविज्जापरियुट्ठानस्स हेतुभूतो पुरिमो अविज्जानुसयो समनन्तरोव किं, उदाहु परम्परहेतुपि होती’’ति पुच्छितब्बत्ता ‘‘बीजङ्कुरो विया’’तिआदि वुत्तं. बीजङ्कुरोति बीजानं अङ्कुरोति बीजङ्कुरो, बीजानं समनन्तरहेतुताय अङ्कुरो निब्बत्तति विय. यत्थ रुक्खादिके यं फलं निब्बत्तति, तस्मिं रुक्खादिके निब्बत्तस्स अस्स फलस्स इदं बीजं पन परम्परहेतुताय हेतुभूतं भवति.

‘‘बीजं पन एकंयेव होति, कथं द्विधा वत्तब्ब’’न्ति वत्तब्बत्ता ‘‘दुविधो ही’’तिआदि वुत्तं, समनन्तरकालपरम्परकालभेदेन हेतुपि दुविधो होतियेवाति अत्थो. बीजभूतो हेतु दुविधो यथा, एवं अविज्जाय हेतुभूतो अविज्जानुसयोपि समनन्तरहेतु च परम्परहेतु चाति कालभेदेन दुविधो भवति, समनन्तरो अविज्जानुसयो समनन्तरस्स अविज्जापरियुट्ठानस्स समनन्तरहेतु होति. पुरिमतरो अविज्जानुसयो पच्छिमतरस्स अविज्जापरियुट्ठानस्स परम्परहेतु होति. इति बीजभूतो असाधारणो हेतु, पथवीआपादिको साधारणो पच्चयोति विसेसो पाकटो यथा, एवं अविज्जानुसयो असाधारणो हेतु, अयोनिसोमनसिकारो साधारणो पच्चयोति विसेसो दट्ठब्बो.

‘‘एत्तकेनेव हेतुपच्चयानं विसेसो वत्तब्बो’’ति वत्तब्बत्ता ‘‘यथा वा पन थालकञ्चा’’तिआदि वुत्तं. अट्ठकथायं पन – ‘‘यथा वा पनातिआदिनापि हेतुपच्चयविभागमेव दस्सेती’’ति वुत्तं. तत्थ पदीपस्स पच्चयभूतं थालकञ्च वट्टि च तेलञ्च पदीपस्स सभावहेतु समानहेतु न होतीति योजना. ‘‘पदीपस्स पच्चयभूतम्पि थालकादिकं सभावहेतु न होतीति कस्मा सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘न हि सक्का’’तिआदि वुत्तं. पदीपस्स पच्चयभूतं अनग्गिकं अग्गिरहितं थालकञ्च वट्टिञ्च तेलञ्च दीपेतुं जालेतुं हि यस्मा न सक्का, तस्मा पुरिमो पदीपो पच्छिमस्स पदीपस्स सभावहेतु होति विय, एवं थालकादिकं सभावहेतु न होति. इति एवंपकारो सभावो समानो पदीपो हेतु होति यथा, परभावो असमानो थालकादिको पच्चयो होति यथा च, तथा अज्झत्तिको सभावो हेतु होति, बाहिरो असमानो पच्चयो होति. जनको अविज्जानुसयो अविज्जापरियुट्ठानस्स हेतु होति, परिग्गाहको उपत्थम्भको पच्चयो होति. अञ्ञेहि फलेहि असाधारणो हेतु होति, सब्बेहि फलेहि साधारणो पच्चयो होतीति योजेत्वा पदीपोपमायपि हेतुपच्चयानं पाकटो विसेसो दट्ठब्बोति अधिप्पायो.

हेतुपच्चयप्पभेदं कारणं परिक्खारोति आचरियेन वुत्तं, तस्स कारणस्स कारणभावो च फलापेक्खो होति, तस्मा ‘‘यो कारणभावो येनाकारेन होति, कतमो सो कारणभावो, कतमो सो आकारो’’ति पुच्छितब्बत्ता च ‘‘यं फलं येन विसेसेन होति, कतमं तं फलं, कतमो सो विसेसो’’ति पुच्छितब्बत्ता च ‘‘कारणफलानं यो सम्बन्धो होति, कतमो सो सम्बन्धो’’ति पुच्छितब्बत्ता च तं सब्बं विभावेतुं ‘‘अवुपच्छेदत्थो’’तिआदि वुत्तं. अयमनुसन्ध्यत्थो च अट्ठकथायं ‘‘इदानि यस्मा कारणं ‘परिक्खारो’ति वुत्तं, कारणभावो च फलापेक्खाय, तस्मा कारणस्स यो कारणभावो यथा च सो होति, यञ्च फलं, यो च तस्स विसेसो, यो च कारणफलानं सम्बन्धो, तं सब्बं विभावेतुं ‘अवुपच्छेदत्थो’तिआदि वुत्त’’न्ति (नेत्ति. अट्ठ. ४९) इमिना वुत्तोति दट्ठब्बो.

तत्थ अवुपच्छिन्नस्स हेतुपच्चयसङ्खातस्स कारणस्स यो अनुपच्छेदत्थो अत्थि, सो अनुपच्छेदत्थो सन्ततिअत्थो होति फलेन सम्बन्धत्ता, यञ्च कारणं अत्तनो फलस्स जनकं उपत्थम्भकं हुत्वा निरुज्झति, सो अनुपच्छिन्नो एव नाम होतीति. यञ्च फलं अञ्ञस्स कारणं हुत्वा निरुज्झति, तस्मिं अनुपच्छिन्ने तस्स च सन्ततिअत्थो होति. यं पन फलं अञ्ञस्स फलस्स कारणं अहुत्वा निरुज्झति, तं उपच्छिन्नं होति, यथा तं अरहतो चुतिचित्तन्ति. कारणतो निब्बत्तस्स फलस्स यो निब्बत्तिअत्थो अत्थि, सो निब्बत्तिअत्थो फलत्थो होति. पटिसन्धिक्खन्धानं यो पटिसन्धिअत्थो पटिसन्दहनत्थो अत्थि, सो पटिसन्धिअत्थो पुनब्भवत्थो पुनब्भवनत्थो होति. किलेसानं यो पलिबोधत्थो सन्ताने उप्पज्जनत्थो अत्थि, सो पलिबोधत्थो परियुट्ठानत्थो होति. किलेसानं मग्गेन यो असमुग्घातत्थो अत्थि, सो असमुग्घातत्थो अनुसयत्थो होति. अविज्जाय चतुन्नं सच्चानं यो असम्पटिवेधत्थो अत्थि, सो असम्पटिवेधत्थो अविज्जत्थो होति. अरहत्तमग्गेन यो अपरिञ्ञातत्थो अत्थि, सो अपरिञ्ञातत्थो विञ्ञाणस्स पटिसन्धिविञ्ञाणस्स बीजत्थो होति.

एत्तावता कारणभावो च कारणाकारो च फलञ्च फलविसेसो च आचरियेन विभत्तो, अम्हेहि च ञातो, ‘‘कतमो परम्परहेतुपच्चयत्थो, कतमो च सम्बन्धत्थो’’ति पुच्छितब्बत्ता ‘‘यत्थ अवुपच्छेदो’’तिआदि वुत्तं. यत्थ यस्सं रूपारूपपवत्तियं अवुपच्छिन्नस्स हेतुपच्चयप्पभेदस्स कारणस्स यो अवुपच्छेदो अत्थि, सो अवुपच्छेदो तत्थ तिस्सं रूपारूपपवत्तियं सन्तति होति. यत्थ यस्सं रूपारूपपवत्तियं या सन्तति अत्थि, सा सन्ततितत्थ रूपारूपपवत्तियं निब्बत्ति होतीतिआदिना योजेत्वा परम्परहेतुआदिको विञ्ञातब्बो.

सीलक्खन्धोति परिसुद्धसीलक्खन्धो. समाधिक्खन्धस्साति महग्गतक्खन्धस्स, समाधिपट्ठानो हि महग्गतधम्मो. पञ्ञाक्खन्धोति मग्गफलपञ्ञापधानक्खन्धो. सो हि विमुत्तिञाणदस्सनसङ्खातस्स पच्चवेक्खणञाणक्खन्धस्स पच्चयो होति. तित्थञ्ञुतादीनं अत्थो पदट्ठानहारविभङ्गवण्णनायं वुत्तोव.

सभावो हेतूति आचरियेन वुत्तो, ‘‘कीदिसो सो सभावो हेतू’’ति पुच्छितब्बत्ता ‘‘यथा वा पन चक्खुञ्च पटिच्चा’’तिआदि वुत्तं. चक्खुविञ्ञाणं चक्खुञ्च चक्खुन्द्रियञ्च पटिच्च निस्सयं कत्वा रूपे पटिच्च आरम्मणं कत्वा उप्पज्जति. तत्थ चक्खादीसु चक्खुन्द्रियं आधिपतेय्यपच्चयताय इन्द्रियपच्चयताय चक्खुविञ्ञाणस्स पच्चयो, रूपारम्मणं पुरेजातारम्मणपच्चयताय पच्चयो, आलोको सन्निस्सयताय उपनिस्सयताय पच्चयो होति. सो पच्चयो होन्तो फलेन चक्खुविञ्ञाणेन असमानत्ता सभावो हेतु न होति, पच्चयो च होति मनसिकारो. किरियमनोधातु पन फलेन चक्खुविञ्ञाणेन विञ्ञाणभावेन समानत्ता सभावो हेतु होति यथा, एवं सङ्खारा नामक्खन्धभावेन समानत्ता विञ्ञाणस्स पच्चया होन्ता सभावो हेतु होन्ति. विञ्ञाणं नामरूपेन एकसन्ततिवसेन समानत्ता नामरूपस्स पच्चयो होन्तं सभावो हेतु होति. इमिना नयेन ‘‘नामरूपं सळायतनस्सा’’तिआदीसुपि अत्थो वेदितब्बो. एवं वुत्तप्पकारो हेतु, पच्चयो जनको, उपत्थम्भको च यो कोचि उपनिस्सयो बलवपच्चयो होति, सब्बो सो हेतुपच्चयो जनकउपत्थम्भको जनितब्बुपत्थम्भियस्स फलस्स परिक्खरणतो अभिसङ्खरणतो निप्परियायतो परिक्खारो नाम.

‘‘वुत्तप्पकारो हेतुपच्चयो परिक्खारो नामाति केन अम्हेहि सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तं. तेन कारणभूतेन सब्बस्स हेतुपच्चयस्स परिक्खारभावेन आयस्मा महाकच्चानो ‘‘ये धम्मा यं धम्मं जनयन्ती’’ति यं वचनं आह, तेन वचनेन सद्दहितब्बो, ‘‘ये धम्मा यं धम्मं जनयन्ती’’ति वचनं निस्साय तुम्हेहि सल्लक्खेतब्बोति अधिप्पायो.

‘‘एत्तकोव परिक्खारो हारो युञ्जितब्बो’’ति वत्तब्बत्ता ‘‘नियुत्तो परिक्खारो हारो’’ति वुत्तं, यो यो परिक्खारो हारो युञ्जितब्बो, सो सो परिक्खारो हारो नीहरित्वा युत्तो युञ्जितब्बोति.

इति परिक्खारहारविभङ्गे सत्तिबलानुरूपा रचिता

विभावना निट्ठिता.

पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति.