८. निस्सयपच्चयनिद्देसवण्णना
८. किस्मिञ्चि कालेति इदं न लब्भति सब्बदापि निस्सयपच्चयताय लब्भमानत्ता. सहजं पुरेजन्ति हि विभागं अनामसित्वा निस्सयतामत्तमेव निस्सयपच्चयता. वत्थुरूपं पञ्चवोकारभवेति वत्थुरूपं पञ्चवोकारभवे चाति च-सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो. तस्साति आरुप्पविपाकट्ठपनस्स. पकासेतब्बत्ताति इमिना अपाकटं पाकटं कत्वा वचनेन चोदना अनोकासाति दस्सेति.
निस्सयपच्चयनिद्देसवण्णना निट्ठिता.