९. उपनिस्सयपच्चयनिद्देसवण्णना
९. उपनिस्सये तयोति अनन्तरारम्मणपकतूपनिस्सयप्पभेदे तयो उपनिस्सये. अनेकसङ्गाहकतायाति अनेकेसं पच्चयधम्मानं सङ्गहणतो. एकन्तेनेव होन्ति चित्तनियमहेतुभावेन पवत्तिनियमतो. येसु पदेसूति येसु कुसलादिपदेसु. सङ्गहितोति सङ्गहं गतो, कुसलादिपदेसु येसं पदानंयेव अनन्तरूपनिस्सयो लब्भतीति अत्थो. तेसु ‘‘केसञ्ची’’ति न वुत्तं. कस्मा? न सक्का वत्तुं एकन्तेनेव उपलब्भनतो. तेसूति कुसलाकुसलपदेसु. न हि कुसलो अकुसलस्स अनन्तरूपनिस्सयो होति, अकुसलो वा कुसलस्स, आरम्मणपकतूपनिस्सया पन अनेकन्तिका, तस्मा तत्थ ‘‘केसञ्ची’’ति वुत्तं. सिद्धानं पच्चयधम्मानन्ति पच्चयभावेन पुरिमनिप्फन्नानं कुसलादीनं कुसलस्स अकुसलस्स वाति अत्थो. अकुसलादीहीति यथासङ्ख्यं अकुसलेन कुसलेन वा. अविसेसेनाति यथावुत्तविसेसे नियमं अग्गहेत्वा अकुसलादीसु अकुसलकुसलानं ‘‘केसञ्ची’’तिआदिना.
अनारम्मणत्ता आरम्मणूपनिस्सयं पुब्बापरनियमेन अप्पवत्तितो अनन्तरूपनिस्सयं न लभतीति योजना. पकतस्साति निप्फादितस्स, उपसेवितस्स वा. न हि रूपसन्तानस्स सद्धादिनिप्फादनं अत्थि, उतुभोजनादिउपसेवनं वा सम्भवति. तेनाह ‘‘यथा हि…पे… रूपसन्तानेना’’ति. ननु च रूपसन्ताने पुब्बेनापरं विसेसो लब्भति, सो च न विना समानजातियेन कारणेनाति स्वायं पकतूपनिस्सयलाभोति कदाचि आसङ्केय्याति आह ‘‘यस्मिञ्चा’’तिआदि. तत्थ तन्ति उतुबीजादिकं कम्मादि च तेन रूपेन पुरिमनिप्फन्नेन. उप्पादनं साभिसन्धिकं दट्ठब्बं. अधिपतीसु पुब्बाभिसङ्खारो विय पकप्पनं संविदहनं. पकरणं वुत्तलक्खणेन कारणभावेन अवट्ठानं, यतो कारणविसेसो ‘‘पकती’’ति वुच्चति. यदि एवं कस्मा रूपस्सेव तं पटिक्खिपीयतीति आह ‘‘यथा च…पे… दट्ठब्बा’’ति. एवम्पि उतुबीजादीनं अङ्कुरादीसु कथं पच्चयविसेसभावोति आह ‘‘उतुबीजादयो पन…पे… भावतो’’ति. उपनिस्सयोति च यस्मा बलवताकारणं अधिप्पेतं, तस्मा न एत्थ एकन्तेन पुरिमनिप्फत्ति इच्छितब्बा. यदि एवं पाळियं कथं पुरिमग्गहणन्ति आह ‘‘पुरिमपुरिमानंयेव पना’’तिआदि. तेपि वा परिकप्पनवसेन पुरिमनिप्फन्नायेव नाम होन्ति. न हि असंविदिताकारे वत्थुस्मिं पत्थनापवत्तीति. तेनाह ‘‘तंसमानलक्खणताया’’ति.
धम्मेति पुग्गलसेनासनपञ्ञत्तीनं उपादानभूते धम्मे. अयं नयोति पञ्ञत्तिमुखेन पञ्ञपेतब्बा तदुपादानभूता धम्मा गय्हन्तीति यथावुत्तो नयो. एत्थेवाति ‘‘सेनासनम्पि उपनिस्सयपच्चयेन पच्चयो’’ति एतस्मिंयेव वचने. कथं पच्चुप्पन्नस्स पकतूपनिस्सयभावोति चोदनाय ‘‘वक्खती’’तिआदिना आगमं दस्सेत्वा युत्तिं दस्सेतुं ‘‘पच्चुप्पन्नानम्पिच तादिसानं पुब्बे पकतत्ता’’ति वुत्तं. तादिसानन्ति यादिसा उतुआदयो पच्चुपट्ठिता, तादिसानं ततो पुब्बे पुरेतरं पकतत्ता पकतूपनिस्सययोग्यताय आपादितत्ता.
कसिणादीनम्पि आरम्मणूपनिस्सयता सम्भवतीति कत्वा वुत्तं ‘‘इमिना अधिप्पायेन ‘एकच्चाया’ति आहा’’ति. तथा हि ‘‘कसिणमण्डलं दिस्वा’’तिआदिना तस्स उपनिस्सयभावो अट्ठकथायं वुत्तो.
अरूपावचरकुसलम्पि उपनिस्सयो होति, पगेव कामावचररूपावचरकुसलन्ति अधिप्पायो. तं पन यथा उपनिस्सयो होति, तं दस्सेतुं ‘‘यस्मिं कसिणादिम्ही’’तिआदि वुत्तं. अनुप्पन्नझानुप्पादनेति रूपावचरज्झानं सन्धायाह, अरूपावचरज्झाने पन वत्तब्बमेव नत्थि. तदुप्पादककुसलानन्ति तस्स रूपावचरविपाकस्स उप्पादककुसलानं, रूपावचरकुसलानन्ति अत्थो. पटिसन्धिनियामकस्साति रूपावचरपटिसन्धिनियामकस्स. चुतितोति रूपावचरपटिसन्धिया अनन्तरपच्चयभूताय चुतिया. पुरिमजवनस्स वसेनाति चुतिया आसन्नजवनभावेन. रूपावचरकुसलं अरूपावचरविपाकस्साति एत्थापि ‘‘तदुप्पादककुसलान’’न्तिआदिना आनेत्वा योजेतब्बं. यथा च ‘‘रूपावचरकुसलं अरूपावचरविपाकस्स उपनिस्सयो’’ति वुत्तं, एवं ‘‘कामावचरकुसलम्पि तदुप्पादककुसलान’’न्तिआदिना योजेतब्बं. लोकुत्तरविपाकस्स तेभूमककुसलानम्पि पादकादिवसेन उपनिस्सयभावो पाकटोयेव, तथा तंतंभूमककुसलानं तंतंभूमककिरियानं, कामावचरकुसलस्स रूपारूपावचरकिरियानं, रूपावचरकुसलस्स अरूपावचरकिरियाय उपनिस्सयभावोति इममत्थं दस्सेन्तो ‘‘एवं पच्चेकं…पे… वेदितब्बो’’ति आह. ‘‘सद्धं उपनिस्साय दानं देती’’तिआदिना पकतूपनिस्सयो उद्देसवसेनेव पाठो आगतो, न विभजनवसेनाति आह ‘‘पाळियम्पि…पे… विस्सज्जितो’’ति. कुसलत्तिकादीसु अनुलोमादिभेदभिन्नत्ता पञ्हावारेसूति बहुवचननिद्देसो.
लोकुत्तरनिब्बत्तनं उपनिस्साय परस्स सिनेहुप्पादने लोकुत्तरधम्मा उपनिस्सयो विय होन्तीति अयमेत्थ लेसो, भाविनो पन लोकुत्तरस्स अकुसलानं उपनिस्सयता सम्भवतीति आह ‘‘न इदं सारतो दट्ठब्बन्ति अधिप्पायो’’ति. रूपावचरादिकुसलानन्ति रूपारूपावचरलोकुत्तरकुसलानं उप्पादियमानस्स रूपावचरकुसलस्साति योजना. रूपावचरकिरियस्स च अरूपावचरविपाको उपनिस्सयो कथन्ति आह ‘‘पुब्बे निवुत्थादीसु…पे… अरहतो’’ति. तं तं विपाकं पत्थेन्तो तस्स तस्स विपाकस्स हेतुभूतं कुसलं निब्बत्तेतीति विपाकानं कुसलूपनिस्सयताति आह ‘‘चतुभूमका…पे… उपनिस्सयो’’ति. लोकियकुसलानं पन लोकुत्तरविपाका उपनिस्सयो न होन्तीति दस्सेन्तो ‘‘यदिपी’’तिआदिमाह. तेनेव हि ‘‘तथा तेभूमकविपाको’’ति तेभूमकग्गहणं कतं. तत्थ तेनाति अनागामिना. तन्ति अरहत्तफलं. तस्माति अदिट्ठपुब्बत्ता. तानि वियाति सोतापत्तिफलानि विय. तेसन्ति पुथुज्जनादीनं. इमस्साति अनागामिनो. इदं वुत्तं होति – यथा पुथुज्जनादीनं सन्ताने झानादीनं सोतापत्तिफलादीनं न उपनिस्सयपच्चयो अनुपलद्धपुब्बत्ता, एवं अनागामिनो झानादीनं अग्गफलं उपनिस्सयपच्चयो अदिट्ठपुब्बत्ता. तेनाह ‘‘उपलद्धपुब्बसदिसमेव हि अनागतम्पि उपनिस्सयो’’ति. अट्ठकथायं पन हेट्ठिमफलानं कुसलूपनिस्सयता वुत्ता एव.
यथा विपाका कुसलानं, एवं किरियापि तेसं उपनिस्सयो होतीति तं नयं दस्सेतुं ‘‘किरियं अत्थपटिसम्भिदादि’’न्तिआदि वुत्तं. योनिसोमनसिकारे वत्तब्बमेव नत्थीति चतुभूमककुसलस्सपि योनिसोमनसिकारो उपनिस्सयो होतीति एत्थ वत्तब्बमेव नत्थि, तदत्थं योनिसोमनसिकारं पवत्तेन्तस्साति अत्थो. तन्ति योनिसोमनसिकारं. अकुसलस्स च चतुभूमकविपाकस्स उपनिस्सयो योनिसोमनसिकारोति योजना. एवं किरियस्सपीति यथा कुसलस्स योनिसोमनसिकारस्स वसेन उपनिस्सयो वुत्तो, एवं किरियस्सपि योनिसोमनसिकारस्स वसेन योजेतब्बन्ति अत्थो. सो हि तं उपनिस्साय रागादिउप्पादने अकुसलस्स वुत्तनयेन कुसलाकुसलूपनिस्सयभावमुखेन चतुभूमकविपाकस्स उपनिस्सयो होतियेव. यदि किरियसङ्खातो…पे… होतियेव, अथ कस्मा पकतूपनिस्सयविभजने किरिया न गहिता, उतुभोजनसेनासनानियेव गहितानीति आह ‘‘नेवविपाकनविपाकधम्मधम्मेसु…पे… नयदस्सनमत्तमेवा’’ति. एवमादिकन्ति आदि-सद्देन ‘‘कुसलं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति न उपनिस्सयपच्चया’’ति एवमादिकं सङ्गण्हाति. उपनिस्सयपरियायो उपनिससद्दोति कत्वा वुत्तं ‘‘विञ्ञाणूपनिसं नामरूपं, नामरूपूपनिसञ्च सळायतनन्तिआदिकेना’’ति. एत्थ हि विञ्ञाणस्स नामरूपानं फस्सरूपादीनं चक्खायतनादीनञ्च उपनिस्सयभावो वुत्तोति.
उपनिस्सयपच्चयनिद्देसवण्णना निट्ठिता.