१०. पुरेजातपच्चयनिद्देसवण्णना

१०. दस्सितमेव नयदस्सनवसेनाति योजना. यदि दस्सितमेव, कस्मा वुत्तं ‘‘सावसेसवसेन देसना कता’’ति आह ‘‘सरूपेन अदस्सितत्ता’’ति. ‘‘यं यं धम्मं पुरेजातं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं पुरेजातपच्चयेन पच्चयो’’ति एवं सरूपेन पाळियं अदस्सितत्ता. इद्धिविधाभिञ्ञाय चाति च-सद्देन चुतूपपातञाणस्सपि सङ्गहो दट्ठब्बो. तस्सपि हि रूपधम्मारम्मणकाले अट्ठारससु यं किञ्चि आरम्मणपुरेजातं होति पच्चुप्पन्नारम्मणत्ता. ‘‘चवमाने उपपज्जमाने’’ति हि वुत्तं. दिब्बचक्खुदिब्बसोतञाणेसु च वत्तब्बमेव नत्थि.

इतरस्सपि अभावाति आरम्मणपुरेजातस्सपि अभावा अग्गहणं पटिसन्धिभाविनोति योजना. सतिपि कस्सचि पटिसन्धिभाविनो आरम्मणपुरेजाते विभूतं पन कत्वा आरम्मणकरणाभावतो अविज्जमानसदिसन्ति कत्वा वुत्तं ‘‘इतरस्सपि अभावा’’ति. तेनेवाह ‘‘पटिसन्धिया विय अपरिब्यत्तस्स आरम्मणस्स आरम्मणमत्तभावतो’’ति. सन्तीरणभाविनो मनोविञ्ञाणधातुयापि एकन्तेनेव पुरेजातपच्चयो रूपादीनि पञ्चारम्मणानीति योजना. एत्थ च ‘‘मनोधातूनञ्चा’’तिआदि ‘‘तदारम्मणभाविनो’’ति पदस्स पुरतो वत्तब्बो, उप्पटिपाटिया लिखितं.

पुरेजातपच्चयनिद्देसवण्णना निट्ठिता.