६. सहजातपच्चयनिद्देसवण्णना

६. पोराणपाठोति पुरातनो अट्ठकथापाठो. इमस्साति इमस्स पदस्स. अवुत्तस्साति पाळियं अवुत्तस्स. यदिपि सहगतसद्दस्स अत्थसंवण्णनायं संसट्ठसद्दस्स विय समानत्थस्सपि कत्थचि सद्दन्तरस्स अत्थो वुच्चति परियायविसेसबोधनत्थं, तथापि न मूलसद्दस्स अत्थो विभावितो होतीति दस्सेन्तो आह ‘‘न च…पे… होती’’ति. ‘‘अञ्ञमञ्ञ’’न्ति च ‘‘अञ्ञअञ्ञ’’न्ति वत्तब्बे म-कारागमं कत्वा निद्देसो, कम्मब्यतिहारे चेतं पदं, तस्मा इतरेतरन्ति वुत्तं होति. पच्चयपच्चयुप्पन्नानं एकस्मिंयेव खणे पच्चयुप्पन्नपच्चयभावस्स इच्छितत्ता यो हि यस्स पच्चयो यस्मिं खणे, तस्मिंयेव खणे सोपि तस्स पच्चयोति अयमेत्थ अञ्ञमञ्ञपच्चयता. तथा हि अट्ठकथायं ‘‘अञ्ञो अञ्ञस्सा’’ति वत्वा ‘‘इमिना…पे… दीपेती’’ति वुत्तं. ओक्कमनं पविसनन्ति अत्थो. आसनक्खणे हि धम्मा पुरिमभवतो इमं भवं पविसन्ता विय होन्ति. तेन वुत्तं ‘‘परलोकतो इमं लोकं आगन्त्वा पविसन्तं विय उप्पज्जती’’ति. तस्मा अविसेसेन पटिसन्धि ओक्कन्तिसद्दाभिधेय्याति अधिप्पायेन वुत्तं ‘‘ओक्कन्ति…पे… अधिप्पायेनाहा’’ति. तंनिवारणत्थन्ति तस्स खणन्तरे रूपीनं सहजातपच्चयभावस्स ‘‘कञ्चि काले न सहजातपच्चयेन पच्चयो’’ति निवारणत्थं. तेन पदद्वयेन समानेसु पच्चयपच्चयुप्पन्नधम्मेसु पुरिमतो पच्छिमस्स विसेसमत्थं दस्सेति.

एवञ्च ‘‘कञ्चि काले’’ति पदस्स ‘‘केचि कालेति वा, किस्मिञ्चि काले’’ति वा विभत्तिविपल्लासेन अत्थो गहेतब्बोति अधिप्पायेन पठमविकप्पं दस्सेत्वा इदानि पकारन्तरेन दस्सेतुं ‘‘कञ्चि कालेति केचि किस्मिञ्चि कालेति वा अत्थो’’ति आह. तेन ‘‘कञ्ची’’ति अयं सामञ्ञनिद्देसोति दस्सेति. यो हि अयं ‘‘केची’’ति पच्चत्तबहुवचनाभिधेय्यो अत्थो, यो च ‘‘किस्मिञ्ची’’ति भुम्मेकवचनाभिधेय्यो, तदुभयं सति कालवन्तकालताविभागे किं-सद्दस्स वचनीयतासामञ्ञेन पन एकज्झं कत्वा ‘‘कञ्ची’’ति पाळियं वुत्तन्ति तं विभजित्वा दस्सेतुं ‘‘केचि किस्मिञ्ची’’ति वुत्तं. अट्ठकथायं पन ‘‘किस्मिञ्ची’’ति भुम्मवसेनेव वुत्तं. तेन यथावुत्तअत्थविभागेन पदेन. वत्थुभूताति वत्थुसभावा. हदयरूपमेव सन्धाय वदति. रूपन्तरानन्ति हदयवत्थुतो अञ्ञरूपानं. अरूपीनं सहजातपच्चयतं पुब्बे ‘‘ओक्कन्तिक्खणे नामरूप’’न्ति एत्थ अनिवारितं निवारेतीति योजना, तथा वत्थुस्स च कालन्तरे पटिसन्धिकालतो अञ्ञस्मिं काले अरूपीनं निवारेतीति. एवञ्च कत्वातिआदिना यथावुत्तअत्थवण्णनाय पाळियं विभत्तिनिद्देसस्स रूपकभावमाह. पुनपि पुरिमतो पच्छिमस्स उपचयेन विसेसं दस्सेतुं ‘‘पुरिमेन चा’’तिआदि वुत्तं. तत्थ पुरिमेनाति ‘‘ओक्कन्तिक्खणे नामरूप’’न्ति इमिना पच्चयनिद्देसवचनेन. ‘‘एको खन्धो वत्थु च तिण्णं खन्धान’’न्तिआदिना पटिच्चवारादिपाठेन. अत्थविवरणञ्हि पच्चयनिद्देसपाळिया सब्बेपि सत्त महावारा. वत्थुस्स वत्तब्बत्ते आपन्ने किन्ति पच्चयोति तस्स नामस्साति योजना. एतेनाति ‘‘रूपिनो धम्मा अरूपीनं धम्मान’’न्ति एतेन वचनेन. केवलस्साति नामरहितस्स वत्थुस्स. तथाति नामस्स पच्चयभावेन.

कत्थचीति ‘‘रूपिनो धम्मा अरूपीनं धम्मानं कञ्चि कालं सहजातपच्चयेन पच्चयो’’ति एतस्मिं निद्देसे. एत्थ हि अञ्ञमञ्ञसहजातपच्चयभावो लब्भति. वचनेनाति ‘‘अञ्ञमञ्ञ’’न्ति इमिना वचनेन पाळियं सहजातपच्चयभावस्स असङ्गहितत्ता, अत्थतो पन लब्भतेवाति. तेनाह ‘‘लब्भमानेपी’’ति. तस्साति अञ्ञमञ्ञपच्चयत्तस्स. एवन्ति ‘‘न अञ्ञमञ्ञवसेना’’ति इमिना पकारेन. समुदायेकदेसवसेन सामिवचनन्ति अवयवावयविसम्बन्धे अवयविनि सामिवचनन्ति अत्थो, निद्धारणे वा ‘‘कण्हा गावीन’’न्तिआदीसु विय.

सहजातपच्चयनिद्देसवण्णना निट्ठिता.