२. सहजातवारवण्णना
२३४-२४२. सहजातपच्चयकरणन्ति सहजातं पच्चयधम्मं पच्चयं कत्वा पवत्ति. सहजातायत्तभावगमनन्ति सहजाते पच्चयधम्मे आयत्तभावस्स गमनं पच्चयुप्पन्नस्स अत्तना सहजातपच्चयायत्तवुत्तिता. एत्थ च सहजातपच्चयसङ्खातं सहजातं करोतीति सहजातो, तथापवत्तो पच्चयुप्पन्नधम्मो. तत्थ पवत्तमानो सहजातसद्दो यस्मा तस्स पच्चयुप्पन्नस्स अत्तना सहजातं पच्चयधम्मं पच्चयं कत्वा पवत्तिं तदायत्तभावूपगमनञ्च वदतीति वुच्चति, तस्मा वुत्तं ‘‘सहजातसद्देन…पे… वुत्त’’न्ति. तस्स करणस्स गमनस्स वाति तस्स यथावुत्तस्स सहजातपच्चयकरणस्स सहजातायत्तभावूपगमनस्स वा. ‘‘कुसलं धम्मं सहजातो’’ति इमस्स कुसलं धम्मं सहजातं तंसहभावितञ्च पच्चयं कत्वाति अयमत्थोति आह ‘‘कुसलादीनं कम्मभावतो’’ति. सहजातपच्चयसहभावीनं पच्चयानं सङ्गण्हत्थञ्हेत्थ ‘‘सहजातायत्तभावगमनं वा’’ति वुत्तं.
तंकम्मभावतोति तेसं यथावुत्तपच्चयकरणतदायत्तभावगमनानं कम्मभावतो. अट्ठकथायं पन ‘‘कुसलं धम्मं सहजातोति कुसलं धम्मं पटिच्च तेन सहजातो हुत्वा’’ति पटिच्चसद्दं आहरित्वा अत्थो वुत्तो, तं ‘‘पटिच्चत्थो सहजातत्थो’’ति कत्वा वुत्तं. सहजातसद्दयोगे कुसलं धम्मन्ति उपयोगवचनस्स युत्ति न वुत्ता, ‘‘तेन सहजातो हुत्वा’’ति पन वुत्तत्ता करणत्थे उपयोगवचनन्ति दस्सितन्ति केचि. निस्सयवारे पन कुसलं धम्मं निस्सयत्थेन पच्चयं कत्वाति वदन्तेन इधापि ‘‘कुसलं धम्मं सहजातत्थेन पच्चयं कत्वा’’ति अयमत्थो वुत्तोयेव होति, पटिच्चसद्दाहरणम्पि इममेवत्थं ञापेतीति दट्ठब्बं. उपादारूपं किञ्चि भूतरूपस्स अनुपालकं उपत्थम्भकञ्च होन्तम्पि सहजातलक्खणेन न होति, तस्मा पटिच्चत्थं न फरतीति आह ‘‘पटिच्चाति इमिना वचनेन दीपितो पच्चयो न होती’’ति. निदस्सनवसेन वुत्तन्ति उदाहरणवसेन वुत्तं, न अनवसेसतोति अत्थो. यथावुत्तोति पटिच्चत्थफरणवसेन वुत्तो. यथा च उपादारूपं भूतरूपस्स उपादारूपस्स च पच्चयो न होति, एवं ठपेत्वा छ वत्थूनि सेसरूपानि अरूपधम्मानं पच्चयो न होतीति दस्सेन्तो ‘‘वत्थुवज्जानि रूपानि च अरूपान’’न्ति आह.
सहजातवारवण्णना निट्ठिता.