(१) विभङ्गवारवण्णना

५३. तिकपदानं तिकन्तरपदेहि विसदिसता पाकटायेवाति वुत्तं ‘‘तिकपदनानत्तमत्तेन विना’’ति. मूलावसानवसेनाति ‘‘एकमूलेकावसानं नवा’’तिआदिना वुत्तमूलावसानवसेन. ‘‘न तायेव वेदनात्तिकादीसू’’ति एत्थ या सदिसता पटिक्खित्ता, तं दस्सेतुं ‘‘सदिसतं सन्धाय ‘न तायेवा’ति वुत्त’’न्ति आह. याति या पुच्छा. सब्बपुच्छासमाहरणन्ति सब्बासं एकूनपञ्ञासाय पुच्छानं समुच्चयनं अनवसेसेत्वा कथनं. इध इमस्मिं पटिच्चवारुद्देसे कत्तब्बं. आदितो हि अनवसेसतो वुत्ते पच्छा यथारहं तदेकदेसवचनं युत्तं. न हि तत्थ एकूनपञ्ञास पुच्छा विस्सज्जनं लभन्तीति तत्थ तस्मिं धम्मानुलोमपच्चनीये पीतित्तिके एकूनपञ्ञास पुच्छा विस्सज्जनं न हि लभन्ति, अट्ठवीसे पन लभन्तीति अत्थो.

तेन सहजातपच्चयभूतेनाति तेन वेदनादिभेदेन एकेन धम्मेन सहजातपच्चयो होन्तेन, सहजातपच्चयतं वा पत्तेन पापुणन्तेनाति अत्थो. अनुञ्ञातं विय होतीति यदिपि अट्ठकथायं ‘‘याव निरोधगमना’’तिआदिवचनेहि खणत्तयसमङ्गी उप्पज्जतीति अनुञ्ञातं विय होति, उप्पादक्खणसमङ्गीयेव पन उप्पज्जतीति वुत्तो पटिच्चवारादीनं छन्नं वारानं उप्पादमेव गहेत्वा पवत्तत्ता. तथा हि तेसु पच्छाजातपच्चयो अनुलोमतो न तिट्ठति.

इध कुसलवचनेन गहिते खन्धे सन्धाय वुत्तन्ति इमस्मिं पटिच्चवारे ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जती’’ति कुसलसद्देन गहिते खन्धे सन्धाय वुत्तं चतूसुपि कुसलखन्धेसु एकतो उप्पज्जमानेसु सामञ्ञतो वुत्तेसु सहजातादिसाधारणपच्चयवसेन अविसेसतो सब्बे सब्बेसं पच्चयाति अयमेव इमस्स पच्चयो, इमस्सेव अयं पच्चयोति च नियमेत्वा वत्तुं न सक्का. तेन वुत्तं अट्ठकथायं ‘‘एकस्सेव द्विन्नंयेव वा’’तिआदि. ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्चा’’तिआदीसु पन विसेसनभावेन वेदनादीनं विसुं गहितत्ता ‘‘एकं खन्धं पटिच्च द्वे खन्धा’’तिआदि वत्तुं सक्का. तेन वुत्तं ‘‘वेदनात्तिकादीसु पना’’तिआदि. तथाति इमिना ‘‘एकेकस्सपि दुकादिभेदानञ्चा’’ति इमं अनुकड्ढति.

एतस्मिन्ति ‘‘विपाकाब्याकतं किरियाब्याकत’’न्ति एवं विपाककिरियाब्याकतग्गहणे. ‘‘सब्बस्मिं न गहेतब्ब’’न्ति वुत्तं, कत्थ पन गहेतब्बन्ति आह ‘‘चित्तसमुट्ठानञ्च रूपन्ति एत्थेवा’’ति. एवं पठमे वाक्ये अतिब्यापितं परिहरित्वा दुतिये अब्यापितं परिहरितुं ‘‘न केवल’’न्तिआदि वुत्तं. एत्थाति ‘‘विपाकाब्याकतं किरियाब्याकत’’न्ति एत्थ न गहेतब्बं तस्सपि आरुप्पे उप्पज्जमानस्स रूपेन विना उप्पत्तितो. एत्थ च यथा हेतुपच्चयग्गहणेनेव अहेतुकं निवत्तितं, एवं चित्तसमुट्ठानञ्च रूपन्ति रूपग्गहणेनेव आरुप्पे विपाकोपि तत्थ उप्पज्जमानेन चित्तुप्पादेन सद्धिं न गहितो. तं पनेतं अत्थसिद्धमेव अकत्वा सरूपतो पाकटतरं कत्वा दस्सेतुं अट्ठकथायं ‘‘विपाकाब्याकत’’न्तिआदि वुत्तं. पटिसन्धिपच्छिमचित्तानि पनेत्थ सतिपि रूपस्स अनुप्पादने ववत्थानाभावतो न गहितानीति दट्ठब्बं.

पच्चयभूतस्साति खन्धानं पच्चयभूतस्स वत्थुस्स अग्गहिततापत्तिं निवारेतुं, कथं? पच्चयुप्पन्नभावेन, कत्थ? ‘‘कटत्ता च रूप’’न्ति एतस्मिं सामञ्ञवचने ‘‘खन्धे पटिच्च वत्थू’’ति वुत्तं, एवञ्हिस्स पच्चयुप्पन्नता दस्सिता होतीति. अञ्ञमञ्ञापेक्खं वचनद्वयन्ति ‘‘खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा’’ति पदद्वयं सन्धाय वुत्तं. सामञ्ञेन गहितन्ति ‘‘कटत्ता च रूप’’न्ति इमिना सामञ्ञवचनेन, कटत्तारूपसामञ्ञेन वा गहितं.

उपादारूपग्गहणेन विना ‘‘उपादारूप’’न्ति अग्गहेत्वा केवलं चित्तसमुट्ठानरूपं ‘‘कटत्तारूपं’’इच्चेव गहेत्वाति अत्थो. एतस्मिं पन दस्सनेति ‘‘महाभूतेपि पटिच्च उप्पत्तिदस्सनत्थ’’न्ति वुत्ते एतस्मिं अत्थदस्सने. खन्धपच्चयसहितन्ति पटिसन्धियं कटत्तारूपं, पवत्तियं चित्तसमुट्ठानं रूपं वदति. असहितन्ति पन पवत्तियं कटत्तारूपं आहारसमुट्ठानं उतुसमुट्ठानं अनिन्द्रियबद्धं असञ्ञभवसङ्गहितञ्च रूपं. पटिसन्धियम्पीति पि-सद्देन पवत्तियम्पि कटत्तारूपं अञ्ञञ्च तत्थ उप्पज्जनकं उपादारूपन्ति अत्थो दट्ठब्बो. कथं पनेत्थ भूते पटिच्च उप्पज्जमानस्स रूपस्स हेतुपच्चया उप्पज्जतीति? ‘‘खन्धे पटिच्च हेतुपच्चया उप्पज्जमानं रूपं भूतेपि पटिच्च उप्पज्जती’’ति एवं पदमेतं, भूतानं वा हेतुपच्चयतो निब्बत्तत्ता एवं वुत्तं. कारणकारणम्पि हि कारणन्त्वेव वुच्चति यथा ‘‘चोरेहि गामो दड्ढो’’ति.

भूते पटिच्च उपादारूपन्ति पदुद्धारो कतो, ‘‘महाभूते पटिच्च उपादारूप’’न्ति पन पाठोति अट्ठकथायञ्च तमेव वुत्तं. अयं हेत्थत्थो – ‘‘महाभूते पटिच्च उपादारूप’’न्ति इमस्मिं पाठे वुत्तनयेन उपादारूपम्पि कुसले खन्धे महाभूते च पटिच्च उप्पज्जतीति. को पन सो नयोति तं दस्सेतुं ‘‘महाभूते…पे… सन्धायाहा’’ति वुत्तं. तत्थ अत्थतो अयं नयो वुत्तोति ‘‘महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति इमिना अब्याकते खन्धे महाभूते च पटिच्च उपादारूपानं उप्पत्तिवचनेन कुसले खन्धे महाभूते च पटिच्च उपादारूपानं उप्पत्ति अत्थतो वुत्तो होतीति अत्थो.

५४. रूपेन विना पच्चयुप्पन्नं न लब्भतीति एतेन या पुच्छा अरूपमिस्सकावसाना, तापि इध न गय्हन्ति, पगेव रूपावसानाति दस्सेति.

५७. ताय समानलक्खणाति पञ्चक्खन्धपटिसन्धिताय गब्भसेय्यकपटिसन्धिया समानलक्खणा. परिपुण्णधम्मानन्ति परियत्तिविभागानं पञ्चक्खन्धधम्मानं. एत्थाति एतस्मिं सहजातपच्चयनिद्देसे.

चित्तकम्मसमुट्ठानरूपन्ति चित्तसमुट्ठानरूपं कम्मसमुट्ठानरूपञ्च. पुन आहारसमुट्ठानन्ति एत्थ पुनगहणं उतुसमुट्ठानापेक्खं. न हि तं पुब्बे बाहिरग्गहणेन अग्गहितं, आहारसमुट्ठानं पन अग्गहितमेव, उतुसमुट्ठानस्स कस्मा पुनगहणन्ति आह ‘‘एतेही’’तिआदि. तत्थाति असञ्ञसत्तेसु. तस्साति उतुसमुट्ठानस्स. आदिम्हीति बाहिरआहारसमुट्ठानउतुसमुट्ठानअसञ्ञसत्तवसेन आगतवारेहि पठमवारे. अविसेसवचनन्ति बाहिरादिविसेसं अकत्वा वुत्तवचनं, अरूपम्पि पच्चयं लभन्तं अत्थं हेतादिके पच्चये लभन्तं सह सङ्गण्हित्वाति योजना. तस्साति, तत्थाति च पदद्वयेन यथावुत्तं पठमवारमेव पच्चामसति. तंसमानगतिकन्ति चित्तसमुट्ठानगतिकं. इधापीति इमस्मिं सहजातपच्चयनिद्देसेपि. कम्मपच्चयविभङ्गे वियाति नानाक्खणिककम्मपच्चयनिद्देसे विय. तथा हि वुत्तं अट्ठकथायं ‘‘तंसमुट्ठानन्ति इमिना पटिसन्धिक्खणे कटत्तारूपम्पि सङ्गण्हाती’’ति. अयञ्च अत्थविसेसो एत्थ एकंसेन इच्छितब्बोति दस्सेन्तो ‘‘न हि…पे… अत्थी’’ति आह.

अविसेसेत्वाति ‘‘उतुसमुट्ठान’’न्तिआदिना विसेसं अकत्वा. उपादारूपन्ति विसेसेत्वाव कस्मा पन वुत्तानीति योजना. हेतुपच्चयादीसूति आदि-सद्देन सहजातपच्चयादिं सङ्गण्हाति. सहाति चित्तसमुट्ठानरूपं कटत्तारूपन्ति एवं एकतो. विसुन्ति चित्तसमुट्ठानं रूपं कटत्तारूपतो विसेसेत्वा. तत्थ बाहिरग्गहणादीहि वियाति यथा ‘‘बाहिरं एकं महाभूत’’न्तिआदीसु बाहिरआहारसमुट्ठानउतुसमुट्ठानग्गहणेहि महाभूतानि विसेसितानि, एवं एत्थ ‘‘महाभूते पटिच्चा’’ति एतस्मिं निद्देसे महाभूतानं केनचि विसेसनेन अविसेसितत्ता चित्तसमुट्ठानरूपभावकटत्तारूपभावेहि विसेसेत्वाव वुत्तानीति योजना.

इदानि अञ्ञेनपि कारणेन तेसं विसेसितब्बतं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ न कोचि पच्चयोति इदं पट्ठाने आगतनियामेन रूपं उपनिस्सयपच्चयं न लभतीति कत्वा वुत्तं. तेनाह ‘‘हेतादीसू’’ति. तदविनाभावतो पन तस्स चित्तकम्मानं कारणभावो वेदितब्बो, यतो इद्धिचित्तनिब्बत्तानि कम्मपच्चयानि चाति वुत्तानि. ननु चित्तं आहारउतुसमुट्ठानानं पच्चयो होतीति? सच्चं होति, सो पन उपत्थम्भकत्तेन, न जनकत्तेनाति दस्सेन्तो आह ‘‘आहार…पे… जनक’’न्ति. किं पन तेसं जनकन्ति आह ‘‘महाभूतानेव…पे… जनकानी’’ति. चित्तेन कम्मुना च विना अभावे यथाक्कमं चित्तकम्मसमुट्ठानउपादारूपानन्ति अत्थो. चित्तसमुट्ठानरूपकटत्तारूपभूतानेवाति चित्तकम्मसमुट्ठानमहाभूतनिब्बत्तानेव महाभूतानं तेसं आसन्नकारणत्ता. अञ्ञानीति उतुआहारसमुट्ठानानि उपादारूपानि वदति. विसेसनं कतं ‘‘चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति. समानजातिकेन रूपेन उतुना आहारेन चाति अत्थो. पाकटविसेसनानेवाति इदं येहि महाभूतेहि तानि निब्बत्तानि, तेसं ‘‘आहारसमुट्ठानं उतुसमुट्ठान’’न्ति विसेसितत्ता वुत्तं. न विसेसनं अरहन्ति न विसेसितब्बानि कारणविसेसनेनेव विसेसस्स सिद्धत्ता, ‘‘महाभूते पटिच्च उपादारूप’’न्त्वेव वत्तब्बन्ति अत्थो. एतानि पन चित्तजकम्मजरूपानि.

सविसेसेनाति येन विसेसेन विसेसिता, तं दस्सेन्तो चित्तं सन्धायाह ‘‘सहजातादिपच्चयभावतो’’ति, इतरं पन सन्धाय ‘‘मूलकारणभावतो’’ति, कम्मूपनिस्सयपच्चयभावतोति अत्थो. इतरानीति आहारउतुसमुट्ठानानिपि उपादारूपानि. महाभूतविसेसनेनेव विसेसितानीति ‘‘आहारसमुट्ठानं एकं महाभूतं पटिच्च उतुसमुट्ठानं एकं महाभूतं पटिच्चा’’ति महाभूतविसेसनेनेव जनकपच्चयेन आहारेन उतुना च विसेसितानि. इधाति ‘‘चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति इमस्मिं वचने. एत्थ हि उपादारूपानं चित्तकम्मसमुट्ठानतावचनेन तंनिस्सयानम्पि तब्भावो पकासितोति. अञ्ञतरविसेसनं उभयविसेसनं होति उभयेसं अविनिब्भोगेन पवत्तनतो.

५८. पुब्बेति हेतुपच्चयादीसु. विसुं पच्चयभावेनाति ‘‘पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूप’’न्तिआदिना वत्थुस्स विसुं पच्चयभावेन. एत्थ च विसुंयेव पच्चयभावेन दस्सितानीति न सक्का वत्तुं, ‘‘खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा’’ति पच्चयुप्पन्नभावो विय खन्धानं एकतोपि पच्चयभावो दस्सितो. तेनेव हि तस्मिं अत्थे अत्तनो अरुचिं विभावेन्तो आह ‘‘इमिना अधिप्पायेनाहा’’ति. यो पनत्थो अत्तनो रुच्चति, तं दस्सेतुं ‘‘खन्धे पटिच्च वत्थूति इदं पना’’तिआदि वुत्तं. खन्धानं पच्चयभूतानं पटिच्चट्ठफरणतादस्सनं, वत्थुस्स पच्चयभूतस्स पटिच्चट्ठफरणतादस्सनं, न खन्धानन्ति सम्बन्धो. इधेवाति इमस्मिं अञ्ञमञ्ञपच्चये एव. हेतुपच्चयादीसुपि अयमेव नयो, तत्थ हि पटिच्चट्ठफरणस्स समानता. दस्सिताय पटिच्चट्ठद्वयफरणताय. खन्धवत्थूनञ्च दस्सितायेवाति खन्धवत्थूनञ्च एकतो पटिच्चट्ठफरणता दस्सितायेव.

एवमादीति आदि-सद्देन ‘‘अकुसलं धम्मं पटिच्चा’’ति एवमादि सङ्गय्हति. ननु भवितब्बन्ति योजना. हेतुपच्चयादीहि वियाति सदिसूदाहरणन्ति तं दस्सेन्तो ‘‘न ही’’तिआदिमाह. यं ‘‘एकं, तयो, द्वे च खन्धे पटिच्चा’’ति वुत्तं पच्चयजातन्ति अत्थो. पच्चयट्ठो हि पटिच्चट्ठो. तेनाह ‘‘ते हेतुपच्चयभूता एव न होन्ती’’ति. एतेन न पटिच्चट्ठफरणकस्स एकन्तिको हेतुआदिपच्चयभावोति दस्सेति. तेनाह ‘‘एस नयो आरम्मणपच्चयादीसू’’ति. न हि आरम्मणपच्चयभूतो धम्मो पटिच्चट्ठं फरति. वुत्तञ्च ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया’’ति.

पच्चयन्तरेनपि उपकारकतामत्तम्पि गहेत्वा पटिच्चवारे वारन्तरे च हेतुआदिपच्चया दस्सिताति उपचयेन यथावुत्तं विभावेन्तो ‘‘पच्चयवारे चा’’तिआदिमाह. तंपच्चयाति वत्थुपच्चया, यथारहं पच्चयभूतं वत्थुं लभित्वाति अत्थो. तेति कुसले खन्धे पटिच्च. तेसन्ति महाभूतानं खन्धानं. पच्चयभावाभावतोति इदं खन्धानं हेतुसहजातादिपच्चयभावस्स महाभूतेसु दिट्ठत्ता वुत्तं. यदि एवं अञ्ञमञ्ञपच्चयापि ते तेसं भवेय्युन्ति परस्स आसङ्कनिरासङ्कं करोन्तो ‘‘अञ्ञमञ्ञसद्दो ही’’तिआदिमाह. निरपेक्खोति अञ्ञनिरपेक्खो. न हि हेतुधम्मो धम्मन्तरापेक्खो हुत्वा हेतुपच्चयो होति, सद्दसीसेनेत्थ अत्थो वुत्तो. अञ्ञतरापेक्खोति अत्तना सहकारिकारणभूतं, इतरं वा यं किञ्चि अञ्ञतरं अपेक्खतीति अञ्ञतरापेक्खो. यथावुत्तेतरेतरापेक्खोति अरूपक्खन्धादिभेदं पाळियं वुत्तप्पकारं इतरेतरं मिथु पच्चयभूतं अपेक्खतीति इतरेतरापेक्खो. पच्चयपच्चयुप्पन्ना च खन्धा महाभूता इध यथावुत्ता भवेय्युन्ति कस्मा वुत्तं. न हि खन्धा महाभूता अञ्ञमञ्ञं अञ्ञमञ्ञपच्चयभावेन वुत्ता, अथ खन्धा च महाभूता चाति विसुं विसुं गय्हेय्युं, एवं सति ‘‘महाभूता खन्धानं न कोचि पच्चयो’’ति न वत्तब्बं.

यस्स सयं पच्चयो, ततो तेन तन्निस्सितेन वाति यस्स धम्मस्स सयं अत्तना पच्चयो होति, ततो धम्मतो सयं उप्पज्जमानं कथं तेन धम्मेन तन्निस्सितेन वा अञ्ञमञ्ञपच्चयेन एवंभूतं तं धम्मजातं अञ्ञमञ्ञपच्चया उप्पज्जतीति वत्तब्बतं अरहतीति वुत्तमेवत्थं उदाहरणेन विभावेति ‘‘यथा’’तिआदिना. तत्थ ‘‘खन्धे पटिच्च खन्धा’’ति इदं ‘‘तेन अञ्ञमञ्ञपच्चयेन उप्पज्जमान’’न्ति इमस्स उदाहरणं, ‘‘वत्थुं पच्चया खन्धा’’ति इदं पन ‘‘तन्निस्सितेन अञ्ञमञ्ञपच्चयेन उप्पज्जमान’’न्ति एतस्स. तस्माति वुत्तमेव अत्थं कारणभावेन पच्चामसति. अत्तनो पच्चयस्स पच्चयत्ताभावतोति अत्तनो पच्चयभूतस्स अरूपक्खन्धस्स पच्चयभावाभावतो. न हि महाभूता यतो खन्धतो उप्पन्ना, तेसं पच्चया होन्ति. तदपेक्खत्ताति इतरेतरपच्चयभावापेक्खत्ता. खन्धे पटिच्च पच्चया चाति पटिच्चवारे वुत्तनियामेनेव खन्धे पटिच्च, पच्चयवारे वुत्तनियामेन खन्धे पच्चया च. नअञ्ञमञ्ञपच्चया च वुत्ताति अञ्ञमञ्ञपच्चयतो अञ्ञस्मा निस्सयपच्चयादितो महाभूतानं उप्पत्ति वुत्ता चाति अत्थो. वत्थुं पच्चया उप्पज्जमानाति वत्थुं पुरेजातपच्चयं कत्वा उप्पज्जमाना. तन्निस्सितेन च अञ्ञमञ्ञपच्चयेनाति तं वत्थुं निस्सितेन खन्धेन अञ्ञमञ्ञपच्चयभूतेन उप्पज्जन्ति, तस्मा यथावुत्तेन कारणेन वत्थुं पच्चया…पे… वुत्ता, इमिना परियायेन पन उजुकं पवत्तियं वत्थुस्स अञ्ञमञ्ञपच्चयभावोति अत्थो.

५९. सा न गहिताति या ‘‘चक्खायतनं निस्साया’’तिआदिना चक्खायतनादीनं निस्सयपच्चयता वुत्ता, सा इध पटिच्चवारे न वुत्ताति अत्थो सहजातत्थो पटिच्चत्थोति कत्वा. तेनाह ‘‘चक्खायतनादीनि…पे… अधिप्पायो’’ति. येसं पन अरूपक्खन्धमहाभूतनामरूपचित्तचेतसिकमहाभूतरूपिधम्मानं वसेन छधा निस्सयपच्चयो इच्छितो, तेसं वसेन इध विभत्तो एव. कथं रूपिवसेन विभत्तोति चे? ‘‘वत्थुं पटिच्च खन्धा’’ति हदयवत्थुवसेन सरूपतो दस्सितो एव. इतरेसम्पि वसेन ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति निस्सयपच्चया’’ति एत्थ दस्सितो. यथा हि ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया’’तिआदीसु रूपायतनादीनं असतिपि पटिच्चट्ठफरणे आरम्मणपच्चयभावो दस्सितो होति, एवमिधापि चक्खायतनादीनं निस्सयपच्चयभावो दस्सितो होति. तेन वुत्तं ‘‘निस्सय…पे… न गहितानी’’ति.

६०. द्वीसु उपनिस्सयेसूति अनन्तरपकतूपनिस्सयेसु. कुसलापि पन महग्गताति पि-सद्देन अब्याकते महग्गते आकड्ढति ‘‘कुसलापि महग्गता आरम्मणूपनिस्सयं न लभन्ति, पगेव अब्याकता’’ति. कदाचि न लभन्ति, यदा गरुं कत्वा न पवत्तन्तीति अत्थो.

६१. अञ्ञत्थ हेतुपच्चयादीसु. पच्चयं अनिद्दिसित्वाति पच्चयं धम्मं सरूपतो अनिद्दिसित्वा. न हि हेतुपच्चयनिद्देसादीसु अलोभादिकुसलादिसरूपविसेसतो हेतुआदिधम्मा दस्सिता. कुसलादीसूति इदं अलोभादिविसेसनं. तेन यथा अलोभादीसु अयमेव पच्चयोति नियमो नत्थि, एवं तब्बिसेसेसु कुसलादीसूति दस्सेति. इध पन पुरेजातपच्चये. वत्थुनवत्थुधम्मेसूति निद्धारणे भुम्मं. पुरेजातपच्चया उप्पज्जमानानन्ति इमिना पटिसन्धिक्खणे, आरुप्पे उप्पज्जमाने च खन्धे निवत्तेति. कस्मा पनेत्थ वत्थुपुरेजातमेव गहितं, न आरम्मणपुरेजातन्ति चोदनं मनसि कत्वा आह ‘‘आरम्मणपुरेजातम्पि हि वत्थुपुरेजाते अविज्जमाने न लब्भती’’ति. तस्साति पटिसन्धिविपाकस्स. न उद्धटोति वुत्तमेवत्थं पाकटं कातुं ‘‘नेवविपाक…पे… तीणीति वुत्त’’न्ति वुत्तं. अलाभतोति यदि लब्भेय्य, ‘‘चत्तारी’’ति वत्तब्बं सियाति दस्सेति. तत्थाति विपाकत्तिके. तीणीति ‘‘विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति पुरेजातपच्चया, विपाकधम्मधम्मं, नेवविपाकनविपाकधम्मधम्मं पटिच्चा’’ति इमानि तीणि.

६३. तदुपादारूपानन्ति ते महाभूते निस्साय पवत्तउपादारूपानं. वदतीति एकक्खणिकनानाक्खणिककम्मपच्चयं वदति अविनिब्भोगवसेन पवत्तमानानं तेसं पच्चयेन विसेसाभावतो. पवत्तियं कटत्तारूपानन्ति विसेसनं पटिसन्धिक्खणे कटत्तारूपानं एकक्खणिकस्सपि कम्मपच्चयस्स इच्छितत्ता. तेनेव हि अट्ठकथायं ‘‘तथा पटिसन्धिक्खणे महाभूतान’’न्ति दुविधोपि कम्मपच्चयो वुत्तो.

६४. यं यं पटिसन्धियं लब्भतीति चक्खुन्द्रियादीसु यं यं इन्द्रियरूपं पटिसन्धियं लब्भति, तस्स तस्स वसेन इन्द्रियरूपञ्च वत्थुरूपञ्च ‘‘कटत्तारूप’’न्ति वुत्तं.

६९. केसञ्चीति पञ्चवोकारे पटिसन्धिक्खन्धादीनं. तेसञ्हि वत्थु नियमतो विप्पयुत्तपच्चयो होति. समानविप्पयुत्तपच्चयाति सदिसविप्पयुत्तपच्चया. कुसलाकुसला हि खन्धा एकच्चे च अब्याकता यस्स विप्पयुत्तपच्चया होन्ति, न सयं ततो विप्पयुत्तपच्चयं लभन्ति चित्तसमुट्ठानानं विप्पयुत्तपच्चयाभावतो वत्थुनाव विप्पयुत्तपच्चयेन उप्पज्जनतो. एकच्चे पन अब्याकता यस्स विप्पयुत्तपच्चया होन्ति, सयम्पि ततो विप्पयुत्तपच्चयं लभन्ति यथा पटिसन्धिक्खणे वत्थुक्खन्धा. तेन वुत्तं ‘‘केसञ्चि खन्धा…पे… नानाविप्पयुत्तपच्चयापी’’ति. पच्चयं पच्चयं करोतीति पच्चयधम्मं वत्थुं खन्धे च अत्तनो पच्चयभूतं करोति, यथावुत्तं पच्चयधम्मं पच्चयं कत्वा पवत्ततीति अत्थो. तंकिरियाकरणतोति विप्पयुत्तपच्चयकिच्चकरणतो. पटिच्च उप्पत्ति नत्थीति पटिच्चट्ठफरणं नत्थि सहजातट्ठो पटिच्चट्ठोति कत्वा. ‘‘पटिच्च उप्पज्जन्ती’’ति एत्तकमेवाह, किं पटिच्च? खन्धेति पाकटोयमत्थोति. तेनाह ‘‘किं पन पटिच्चा’’तिआदि. पच्चासत्तिञायेन अनन्तरस्स विधि पटिसेधो वा होतीति गण्हेय्याति तं निवारेतुं वुत्तन्ति दस्सेन्तो ‘‘अनन्तरत्ता…पे… वुत्तं होती’’ति आह.

७१-७२. सङ्खिपित्वा दस्सितानं वसेनेतं वुत्तन्ति सङ्खिपित्वा दस्सितानं पच्चयानं वसेन एतं ‘‘इमे तेवीसति पच्चया’’तिआदिवचनं वाचनामग्गं दस्सेन्तेहिपि पाळियं वुत्तन्ति अट्ठकथायं वुत्तं. एकेनपीति कुसलादीसु च पदेसु एकेनपि पदेन, तस्मिं तस्मिं वा पच्चयनिद्देसे वाक्यसङ्खातेन एकेनपि पदेन. तयो पच्चयाति हेतुआरम्मणाधिपतिपच्चया. ते चत्तारो पच्छाजातञ्च वज्जेत्वाति एत्थ यथावुत्ते चत्तारो पच्चये वित्थारितत्ता ‘‘वज्जेत्वा’’ति वुत्तं, पच्छाजातं पन सब्बेन सब्बं अग्गहितत्ता. एत्तका हि एकूनवीसति पच्चया यथावुत्ते पच्चये वज्जेत्वा अवसिट्ठा. ये पनाति पदकारके वदति. सङ्खिपित्वाति पदस्स ‘‘पाळियं वित्थारितं अवित्थारितञ्च सब्बं सङ्गहेत्वा वुत्त’’न्ति अत्थं वदन्ति. ‘‘तेवीसति पच्चया’’ति पाठेन भवितब्बं ‘‘सब्बं सङ्गहेत्वा’’ति वुत्तत्ता. पच्छाजातपच्चयोयेव हि वज्जेतब्बोति. एवं वादन्तरे वत्तब्बं वत्वा इदानि पाळिया अविपरीतं अत्थं दस्सेतुं ‘‘आदिम्हि पना’’तिआदि वुत्तं.

विभङ्गवारवण्णना निट्ठिता.