१. पच्चयानुलोमवण्णना

एकेकं तिकं दुकञ्चाति कुसलत्तिकादीसु बावीसतिया तिकेसु हेतुदुकादीसु सतं दुकेसु एकेकं तिकं दुकञ्च. न तिकदुकन्ति तुल्ययोगीनं न तिकदुकन्ति अत्थो. तिकविसिट्ठं पन दुकं, दुकविसिट्ठञ्च तिकं, तिकविसिट्ठतिकदुकविसिट्ठदुकेसु विय निस्साय उपरि देसना पवत्ता एवाति.

ये कुसलादिधम्मे पटिच्चाति वुत्ता ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया’’तिआदीसु, ते कुसलादिधम्मा पटिच्चत्थं फरन्ता हेतुआदिपच्चयट्ठं साधेन्ता कुसलादिपच्चया चेवाति अत्थो. तेनेवाहाति यस्मा पच्चयधम्मानं पच्चयुप्पन्नेसु पटिच्चत्थफरणं उभयेसं तेसं सहभावे सति, नाञ्ञथा. तेनेव कारणेनाह ‘‘ते च खो सहजातावा’’ति. तेति हेतुआदिपच्चया. तेसु हि हेतुसहजातअञ्ञमञ्ञनिस्सयादयो सहजाता, अनन्तरसमनन्तरादयो असहजाता पच्चया होन्तीति. एतेहि द्वीहि वारेहि इतरेतरत्थबोधनवसेन पवत्ताय देसनाय किं साधितं होतीति आह ‘‘एवञ्च निरुत्तिकोसल्लं जनितं होती’’ति.

ते ते पञ्हे उद्धरित्वाति ‘‘सिया कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदयो ये ये पञ्हा विस्सज्जनं लभन्ति, ते ते पञ्हे उद्धरित्वा. पमादलेखा एसाति इदं ‘‘कुसलो हेतु हेतुसम्पयुत्तकानं धम्मान’’न्ति लिखितं सन्धाय वुत्तं. पटिच्चसहजातवारेसु सहजातपच्चयो, पच्चयनिस्सयवारेसु निस्सयपच्चयो, संसट्ठसम्पयुत्तवारेसु सम्पयुत्तपच्चयो एकन्तिकोति कत्वा वुत्तोति आह ‘‘पुरिमवारेसु…पे… नियमेत्वा’’ति. तत्थाति तेसु पुरिमवारेसु छसु. न विञ्ञायन्ति सरूपतो अनुद्धटत्ता. एवमादीहि पञ्हेहि. हेतादिपच्चयपच्चयुप्पन्नेसूति हेतुआदीसु पच्चयधम्मेसु सम्पयुत्तक्खन्धादिभेदेसु तेसं पच्चयुप्पन्नेसु. निद्धारणे चेतं भुम्मं. हेतादिपच्चयानं निच्छयाभावतोति ‘‘इमे नाम ते हेतुआदयो पच्चयधम्मा’’ति निच्छयाभावतो सरूपतो अनिद्धारितत्ता. यथा हि नाम नानाजटाजटितं गुम्बन्तरगतञ्च तंसदिसं सरूपतो अदिस्समानं इदं तन्ति न विनिच्छिनीयति, एवं ञातुं इच्छितोपि अत्थो सरूपतो अनिद्धारितो निज्जटो निगुम्बो च नाम न होति निच्छयाभावतो, सरूपतो पन तस्मिं निद्धारिते तब्बिसयस्स निच्छयस्स वसेन पुग्गलस्स असम्बुद्धभावाप्पत्तिया सो पञ्हो निज्जटो निगुम्बो च नाम होतीति आह ‘‘निच्छयाभावतो ते पञ्हा निज्जटा निगुम्बा च कत्वा न विभत्ता’’ति, ‘‘न कोचि पुच्छासङ्गहितो…पे… विभत्ता’’ति च. तन्ति पञ्हाविस्सज्जनं सन्धाय निज्जटता न वुत्ता, अथ खो निच्छयुप्पादनन्ति अधिप्पायो.

ठपनं नाम इध विनेय्यसन्ताने पतिट्ठपनं, तं पन तस्स अत्थस्स दीपनं जोतनन्ति आह ‘‘पकासितत्ता’’ति. पकारेहीति हेतुआदिपच्चयप्पकारेहि, कुसलादिपच्चयपच्चयुप्पन्नप्पकारेहि वा.

२५-३४. परिकप्पनं विदहनन्ति कत्वा आह ‘‘परिकप्पपुच्छाति विधिपुच्छा’’ति. सियाति भवेय्याति अत्थो. एसो विधि किं अत्थीति एतेन ‘‘सिया’’ति विधिम्हि किरियापदं. पुच्छा पन वाक्यत्थसिद्धा वेदितब्बा. तमेव हि वाक्यत्थसिद्धं पुच्छं दस्सेतुं अट्ठकथायम्पि ‘‘किं सो कुसलं धम्मं पटिच्च सिया’’ति वुत्तं. संपुच्छनं परिकप्पपुच्छाति तस्मिं पक्खे हि किरियाय पदेनेव पुच्छा विभावीयतीति वुत्तं होतीति. ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति एत्थ ‘‘कुसलं धम्मं पटिच्च हेतुपच्चया’’ति उभयमिदं पच्चयवचनं, ‘‘कुसलो धम्मो उप्पज्जेय्या’’ति पच्चयुप्पन्नवचनं. तेसु पच्चयधम्मस्स पच्चयभावे विभाविते पच्चयुप्पन्नस्स उप्पत्ति अत्थतो विभावितायेव होतीति पच्चयधम्मोव पुच्छितब्बो. तत्थ च पच्चयधम्मविसिट्ठो पटिच्चत्थो वा पुच्छितब्बो सिया पच्चयविसिट्ठो वाति दुविधा पुच्छितब्बायेव अत्थविकप्पा अट्ठकथायं वुत्ता. तेसु पठमस्मिं पुच्छा सदोसाति दस्सेन्तो ‘‘यो कुसलो धम्मो उप्पज्जेय्या’’तिआदिमाह. तत्थ सब्बपुच्छानं पवत्तितोति कुसलमूलादीनं सत्तसत्तपुच्छानं पवत्तनतो, उप्पज्जमानं कुसलं. तेहि पच्चयेहीति पच्छाजातविपाकपच्चयेहि उप्पत्ति अनुञ्ञाताति आपज्जति, न च तं युत्तन्ति अधिप्पायो. तंतंपच्चयाति ततो ततो योनिसोमनसिकारादिपच्चयतो. भवनमत्थिता एत्थ न च पुच्छिताति ‘‘किं सिया’’ति वुत्तयोजनाय दोसमाह. एवञ्च कत्वाति उप्पत्तिया एव पुच्छितत्ता.

तत्थाति ‘‘अथ वा’’तिआदिना वुत्ते अत्थन्तरे. उप्पज्जेय्याति उप्पत्तिं अनुजानित्वाति ‘‘उप्पज्जेय्या’’ति एत्थ वुत्तं कुसलपच्चयं उप्पत्तिं अनुजानित्वा. तस्साति उप्पत्तिया. भवनपुच्छनन्ति हेतुपच्चया भवनपुच्छनं न युत्तन्ति सम्बन्धो. पुन तस्साति हेतुपच्चया उप्पत्तिया. भवनपुच्छनन्ति केवलं भवनपुच्छनं. तस्माति यस्मा वुत्तनयेन उभयत्थापि उप्पत्तिअनुजाननमुखेन भवनपुच्छनं अयुत्तं, तस्मा. अनुजाननञ्च अट्ठकथायं वुत्ते अत्थविकप्पद्वये अत्थतो आपन्नं, तं अननुजानन्तो आह ‘‘अननुजानित्वावा’’तिआदि. संपुच्छनमेवाति इमिना संपुच्छने ‘‘उप्पज्जेय्या’’ति इदं किरियापदन्ति दस्सेति. यदि एवं ‘‘सिया’’ति इदं कथन्ति आह ‘‘सियाति…पे… पुच्छती’’ति. अयं नयोति ‘‘सिया’’तिआदिना अनन्तरवुत्तो अत्थनयो. न विञ्ञायति अनामट्ठविसेसत्ता. द्वेपि पुच्छाति सम्भवनपुच्छा तब्बिसेसपुच्छा चाति दुविधापि पुच्छा एकायेव पुच्छा संपुच्छनभावतो एकाधिकरणभावतो च.

गमनुस्सुक्कवचनन्ति गमनस्स उस्सुक्कवचनं. गमनकिरियाय यथा अत्तनो कत्ता उपरि कत्तब्बकिरियाय योग्यरूपो होति, एवमेव ठानं गमनुस्सुक्कनं तस्स बोधनं वचनं. एवंभूता च किरिया यस्मा अत्थतो किरियन्तरापेक्खा नाम होति, तस्मा वुत्तं ‘‘गमनस्स…पे… अत्थो’’ति. कथं पनेतस्मिं सहजातपच्चयपट्ठाने पटिच्चवारे पटिच्चसद्दस्स पच्छिमकालकिरियापेक्खताति चोदनं मनसि कत्वा आह ‘‘यदिपी’’तिआदि. तेनेतं दस्सेति ‘‘असतिपि पटिअयनुप्पज्जनानं कालभेदे अञ्ञत्र हेतुफलेसु दिस्समानं पुरिमपच्छिमकालतं हेतुफलतासामञ्ञतो इधापि समारोपेत्वा रुळ्हीवसेन पुरिमपच्छिमकालवोहारो कतो’’ति. तेनाह ‘‘गहणप्पवत्तिआकारवसेन…पे… दट्ठब्बो’’ति. तत्थ अत्तपटिलाभो उप्पादोति अत्थो.

गमनन्ति ‘‘पटिच्चा’’ति एत्थ लब्भमानं अयनकिरियं परियायन्तरेनाह. सा पनत्थतो पवत्ति, पवत्ति च धम्मानं यथापच्चयं उप्पत्तियेव. सभावधम्मानञ्हि उप्पत्तियं लोके सब्बो किरियाकारकवोहारो, तस्मा ‘‘पटिच्चा’’ति एत्थ लब्भमानं यं पटिअयनं पटिगमनं अत्थतो पटिउप्पज्जमानं, तञ्च गच्छन्तादिअपेक्खाय होतीति आह ‘‘गच्छन्तस्स पटिगमनं, उप्पज्जन्तस्स पटिउप्पज्जन’’न्ति. तयिदं गमनपटिगमनं, उप्पज्जनपटिउप्पज्जनं समानकिरिया. कथं? यस्मा पटिकरणं पटिसद्दत्थो. तस्माति यस्मा सहजातपच्चयभूतस्स उप्पज्जन्तस्स पटिउप्पज्जनं ‘‘पटिच्च उप्पज्जती’’ति एत्थ अत्थो, तस्मा. तदायत्तुप्पत्तियाति सहयोगे करणवचनं, करणत्थे, हेतुत्थे वा, तस्मिं उप्पज्जमाने कुसलधम्मे आयत्ताय पटिबद्धाय उप्पत्तिया सहेव पटिगन्त्वाति अत्थो. तेन पटिअयनत्तलाभानं समानकालतं दस्सेति. तेनेवाह ‘‘सहजातपच्चयं कत्वाति वुत्तं होती’’तिआदि. ननु च समानकालकिरियायं ईदिसो सद्दप्पयोगो नत्थि, पुरिमकालकिरियायमेव च अत्थीति? नायमेकन्तो समानकालकिरियायम्पि केहिचि इच्छितत्ता. तथा हि –

‘‘निहन्त्वा तिमिरं लोके, उदितो सतरंसमि;

लोकेकचक्खुभूतोय-मत्थमेति दिवाकरो.

‘‘सिरीविलासरूपेन, सब्बसोभाविभाविना;

ओभासेत्वादितो बुद्धो, सतरंसि यथा परो’’ति. –

च पयोगा दिस्सन्ति.

३५-३८. तासूति दुकमूलकनये हेतारम्मणदुके एकूनपञ्ञासपुच्छा, तासु. हेतारम्मणदुकेति ‘‘हेतुपच्चया आरम्मणपच्चया’’ति एवं हेतुपच्चयआरम्मणपच्चयानं वसेन आगते पच्चयदुके. द्विन्नं पुच्छानं दस्सितत्ताति यस्मिं वाचनामग्गे कुसलपदमूला कुसलपदावसाना, कुसलादिपदत्तयमूला कुसलादिपदत्तयावसाना च एकूनपञ्ञासाय पुच्छानं आदिपरियोसानभूता द्वे एव पुच्छा दस्सिता, तं सन्धाय वुत्तं. एत्थाति एतस्मिं पण्णत्तिवारे पुच्छानं वुत्तो न पच्चयानन्ति अत्थो. पुच्छाय हि वसेन हेतुपच्चये हेतुपच्चयसङ्खातं एकमूलं एतस्साति एकमूलको, नयसद्दापेक्खाय चायं पुल्लिङ्गनिद्देसो. एवं आरम्मणपच्चयमूलकादीसु. तथा हेतुआरम्मणपच्चयसङ्खातानि द्वे मूलानि एतस्साति द्विमूलकोतिआदिना योजेतब्बा. पच्चयानं पन वुच्चमाने पठमनयस्स एकमूलकता न सिया. न हि तत्थ पच्चयन्तरं अत्थि, यं मूलभावेन वत्तब्बं सिया. तेनाह ‘‘पच्चयानं पन वसेना’’तिआदि. हेतारम्मणदुकादीनन्ति अवयवे सामिवचनं, अधिपतिआदीनन्ति सम्बन्धो. ततो परं मूलस्स अभावतो सब्बमूलकं अनवसेसानं पच्चयानं मूलभावेन गहितत्ता. न हि मूलवन्तभावेन गहिता पच्चया मूलभावेन गय्हन्ति. पच्चयगमनं पाळिगमनन्ति विञ्ञायति अभिधेय्यानुरूपं लिङ्गवचनादीति कत्वा. इधाति अनुलोमे. च-सद्दो उपचयत्थो. सो तेवीसतिमूलस्स सब्बमूलभावं उपचयेन वुच्चमानं जोतेति.

३९-४०. एवं सतीति ‘‘आरम्मणपच्चया हेतुपच्चया’’ति आरभित्वा ‘‘आरम्मणपच्चया अविगतपच्चया, आरम्मणपच्चया हेतुपच्चया’’ति एवं वाचनामग्गे सति. चक्कबन्धनवसेन पाळिगति आपज्जतु, को दोसोति कदाचि वदेय्याति आह ‘‘हेट्ठिमसोधनवसेन च इध अभिधम्मे पाळि गता’’ति. तथा हि खन्धविभङ्गादीसुपि पाळि हेट्ठिमसोधनवसेन पवत्ता. गणनचारेन तमत्थं साधेतुं ‘‘एवञ्च कत्वा’’तिआदि वुत्तं. आरम्मणादीसूति आरम्मणमूलकादीसु नयेसु. तस्मिं तस्मिन्ति तस्मिं तस्मिं आरम्मणादिपच्चये. सुद्धिकतोति सुद्धिकनयतो. तस्माति आरम्मणमूलकादीसु सुद्धिकनयस्स अलब्भमानत्ता. एकमूलकनयो दट्ठब्बो आरम्मणमूलकेति अधिप्पायो. ‘‘आरम्मणपच्चया…पे… अविगतपच्चयाति वा’’तिआदि तादिसं वाचनामग्गं सन्धाय वुत्तं. यत्थ ‘‘आरम्मणपच्चया हेतुपच्चया, आरम्मणपच्चया अधिपतिपच्चया, आरम्मणपच्चया…पे… अविगतपच्चया’’ति एवं आरम्मणमूलके अनन्तरपच्चयमूलभूता आरम्मणपच्चयपरियोसानमेव एकमूलकं दस्सेत्वा उपरि अवसिट्ठएकमूलकतो पट्ठाय याव सब्बमूलके विगतपच्चया, ताव संखिपित्वा अविगतपच्चयोव दस्सितो. तेनाह ‘‘एकमूलकेसू’’तिआदि. इतो परेसुपि एदिसेसु ठानेसु एसेव नयो. मूलमेव दस्सेत्वाति अधिपतिमूलके एकमूलकस्स आदिमेव दस्सेत्वा. न सुद्धिकदस्सनन्ति न सुद्धिकनयदस्सनं. ‘‘सुद्धिकनयो हि विसेसाभावतो आरम्मणमूलकादीसु न लब्भती’’ति हि वुत्तं. नापि सब्बमूलके कतिपयपच्चयदस्सनं उपरि सब्बमूलके एकमूलकस्स आगतत्ता.

४१. एकस्मिञ्चाति अविगतमूलकादिके च नये. सङ्खेपन्तरगतोति सङ्खेपस्स सङ्खिपितस्स अब्भन्तरगतो, सङ्खिपितब्बोति अत्थो. मज्झिमानं दस्सनन्ति मज्झिमानं नयतो दस्सनं, अञ्ञथा सङ्खेपो एव न सिया. गतिदस्सनन्ति अन्तदस्सनं अकत्वा पाळिगतिया दस्सनं, तञ्च आदितो पट्ठाय कतिपयदस्सनमेव. तेन विगतपच्चयुद्धारणेन ओसानचतुक्कं दस्सेति अविगतमूलके विगतपच्चयस्स ओसानभावतो. सब्बमूलकस्स अवसानेन ‘‘विगतपच्चया’’ति पदेन.

यथा हेतुआदीनं पच्चयानं उद्देसानुपुब्बिया दुकतिकादियोजना कता, एवं तत्थ आरम्मणादिपच्चये लङ्घित्वापि सक्का योजनं कातुं, तथा कस्मा न कता? यदिपि अनवसेसतो पच्चयानं मूलभावेन गहितत्ता केसञ्चि केहिचि योजने अत्थविसेसो नत्थि, आरम्मणमूलकादीसु पन आरम्मणाधिपतिदुकादीनं हेतुमूलके च हेतुअधिपतिअनन्तरतिकादीनं तंतंअवसिट्ठपच्चयेहि योजनाय अत्थेव विसेसो, एवं सन्तेपि यस्मा उप्पटिपाटिया योजना न सुखग्गहणा, सक्का च ञाणुत्तरेन पुग्गलेन यथादस्सितेन नयेन योजितुन्ति उप्पटिपाटिया पच्चये अग्गहेत्वा पटिपाटियाव ते योजेत्वा दस्सिताति इममत्थमाह ‘‘एत्थ चा’’तिआदिना.

तञ्च गमनं युत्तन्ति यं सब्बेहि तिकेहि एकेकस्स दुकस्स योजनावसेन पाळिगमनं, तं युत्तं तिकेसु दुकानं पक्खेपभावतो. तत्थाति दुकेसु. एकेकस्मिन्ति एकेकस्मिं दुकतिके. नयाति अनुलोमनयादयो वारे वारे चत्तारो नया, पुच्छा पन सत्तवीसति. यदि एवं कस्मा हेतुदुकेन समानाति? तं तिकपदेसु पच्चेकं हेतुदुकस्स लब्भमानस्स हेतुदुकभावसामञ्ञतो वुत्तं.

वुत्तनयेनाति ‘‘न ही’’तिआदिना दुकतिके वुत्तनयेन. तत्थ हि न दुकस्स योजना अत्थि, अथ खो दुकानं एकेकेन पदेन तिकस्स योजना. तेनाह ‘‘एकेको तिको दुकसतेन योजितो’’ति. एकेकस्मिन्ति एकेकस्मिं तिकदुके.

तिकादयो छ नयाति ‘‘तिकञ्च पट्ठानवर’’न्तिआदिना गाथायं वुत्ता तिकपट्ठानादयो छ नया. सत्तविधम्पीति वारभेदेन सत्तधा भिन्दित्वा वुत्तम्पि. अनुलोमन्ति पच्चयानुलोमं अनुलोमभावसामञ्ञेन सह गहेत्वा. तथा चतुब्बिधम्पि तिकपट्ठानं तिकपट्ठानतासामञ्ञेन, दुकपट्ठानादीनि च चत्तारि चत्तारि तंसामञ्ञेन सह गहेत्वा. इममत्थं गहेत्वा ‘‘तिकञ्च पट्ठानवर’’न्ति गाथाय अधिप्पायविभावनवसेन ‘‘अनुलोमम्ही’’तिआदिना वुत्तं इममत्थं गहेत्वा. सत्तप्पभेदेति पटिच्चवारादिवसेन सत्तप्पभेदे. छपि एते तिकादिभेदेन चतुचतुप्पभेदा धम्मानुलोमादिवसेन छ उद्धरितब्बाति इदं दस्सेतीति योजना. अयञ्हेत्थ सङ्खेपत्थो – धम्मानुलोमादिविभागभिन्नापि तिकादिभावसामञ्ञेन एकज्झं कत्वा वुत्ता तिकपट्ठानादिसङ्खाता तिकादयो छ धम्मनया पटिच्चवारादिवसेन विभजियमाना तत्थ तत्थ निद्धारियमाने अनुलोमतासामञ्ञेन अनुलोमन्ति एकतो गहिते पच्चयानुलोमे सुट्ठु अतिविय गम्भीराति. अट्ठकथायं पन ‘‘इध पन अयं गाथा तस्मिं धम्मानुलोमे पच्चयानुलोमं सन्धाय वुत्ता’’ति धम्मानुलोमो पच्चयानुलोमस्स विसेसनभावेन नियमेत्वा वुत्तो. एस नयो पच्चनीयगाथादीसुपि. तिकपट्ठानस्स दुकपट्ठानस्स च पुब्बे अत्थो वुत्तोति आह ‘‘दुकतिकपट्ठानादीसू’’ति. तिकेहि पट्ठानन्ति तिकेहि नानप्पकारतो पच्चयविभावनं, तिकेहि वा ञाणस्स पवत्तनट्ठानं. दुकसम्बन्धि तिकपट्ठानं, दुकविसिट्ठानं वा तिकानं पट्ठानं दुकतिकपट्ठानन्ति इममत्थं दस्सेन्तो ‘‘दुकान’’न्तिआदिमाह. दुकादिविसेसितस्साति दुकादिपदविसेसितस्स दुकादिभावो दट्ठब्बो ‘‘हेतुं कुसलं धम्मं पटिच्च, नहेतुं कुसलं धम्मं पटिच्चा’’तिआदिवचनतो.

पच्चयानुलोमवण्णना निट्ठिता.