२. पच्चयपच्चनीयवण्णना

४२-४४. यावाति पाळिपदस्स अत्थवचनं यत्तकोति आह ‘‘पभेदो’’ति. अत्थि तेवीसतिमूलकस्साति अत्थो. ताव तत्तकं पभेदं. तत्थाति अनुलोमे आगतन्ति अत्थो. नयदस्सनवसेन दस्सितं, किन्ति? एकेकस्स पदस्स वित्थारं दस्सेति. अवसेसस्स पच्चयस्स मूलवन्तभावेन गहितस्स.

पच्चयपच्चनीयवण्णना निट्ठिता.