२१. अत्थिपच्चयनिद्देसवण्णना
२१. यस्मिं सति यं होति, असति च न होति, सो तस्स पच्चयोति यदिदं समासतो पच्चयलक्खणं यं सन्धाय सुत्ते वुत्तं ‘‘इमस्मिं सति इदं होति, इमस्मिं असति इदं न होती’’ति, तयिदं अत्थिपच्चये योजेत्वा दस्सेन्तो ‘‘यो ही’’तिआदिं वत्वा अयञ्च नयो निब्बाने न लब्भति, तस्मा निब्बानं अत्थिपच्चयभावेन न उद्धटन्ति दस्सेतुं ‘‘निब्बानञ्च…पे… उपकारकं होती’’ति आह. तेन पच्चयधम्मानं पच्चयभावो विसेसतो ब्यतिरेकमुखेन पाकटो होतीति दस्सेति. नत्थिभावोपकारकताविरुद्धोति नत्थिपच्चयभावविरुद्धो. विगताविगतपच्चया विय हि अञ्ञमञ्ञं उजुपच्चनीकभावेन ठिता नत्थिअत्थिपच्चया. न निब्बानं अत्थिपच्चयो नत्थिभावोपकारकताअविरोधतो. ये हि अत्थिपच्चयधम्मा, ते नत्थिभावोपकारकताविरुद्धा एव दिट्ठाति अधिप्पायो.
सति च उप्पन्नत्तेति सम्बन्धो. येसं पच्चया होन्ति आहारिन्द्रियाति योजना. एकतोति सह. सहजातादिपच्चयत्ताभावतोति सहजातपुरेजातपच्छाजातपच्चयत्ताभावतो. तदभावोति सहजातादिपच्चयत्ताभावो. एतेसन्ति अत्थिपच्चयतावसेन पवत्तमानानं आहारिन्द्रियानं. धम्मसभाववसेनाति धम्मतावसेन. धम्मता हेसा, यदिदं पच्चयुप्पन्नेहि सह पुरेतरं पच्छा च लब्भमाना आहारिन्द्रिया तेसं अत्थिपच्चया होन्ति, न सहजातादिपच्चयाति. यथा वा चक्खादिद्वारानं रूपादिआरम्मणानं सतिपि नियतवुत्तिताय द्वारारम्मणतो विञ्ञाणस्स छब्बिधभावे आरम्मणमनामसित्वा, द्वारतो द्वारमनामसित्वा आरम्मणतो छब्बिधता वुच्चति, एवमिधापि आहारिन्द्रियानं पच्चयुप्पन्नेहि सतिपि सहजातादिभावे अरूपक्खन्धादिवसेन सहजातादिभेदभिन्नस्स अत्थिपच्चयस्स दस्सितत्ता पञ्हावारे आहारिन्द्रियानं वसेन आगते चतुत्थपञ्चमकोट्ठासभूते अत्थिपच्चयविसेसे सहजातादिभेदं आमसितुं न लब्भतीति दस्सेतुं अट्ठकथायं ‘‘आहारो इन्द्रियञ्च सहजातादिभेदं न लभती’’ति वुत्तं, न पन आहारिन्द्रियेसु सहजातादिभावस्स अभावतो. एवम्पेत्थ अत्थो दट्ठब्बो.
अत्थिपच्चयनिद्देसवण्णना निट्ठिता.