२२-२३-२४. नत्थिविगतअविगतपच्चयनिद्देसवण्णना

२२-२३. एत्थाति नत्थिपच्चये. नानन्ति नानत्तं. एतेनाति अनन्तरपच्चयतो नत्थिपच्चयस्स विसेसमत्तदीपनेन ‘‘पच्चयलक्खणमेव हेत्थ नान’’न्ति इमिना वचनेन. अत्थोति धम्मो. ब्यञ्जनसङ्गहितेति ‘‘नत्थिपच्चयो विगतपच्चयो’’ति एवमादिब्यञ्जनेन सङ्गहिते. पच्चयलक्खणमत्तेति एत्थ पवत्तिओकासदानेन उपकारका अरूपधम्मा, विगतभावेन उपकारकाति एवमादिके पच्चयानं लक्खणमत्ते.

नत्थिविगतअविगतपच्चयनिद्देसवण्णना निट्ठिता.

पच्चयनिद्देसवण्णना निट्ठिता.

पच्चयनिद्देसपकिण्णकविनिच्छयकथावण्णना

आदिमपाठोति पुरिमपाठो. तथा च सतीति दोसस्सपि सत्तरसहि पच्चयेहि पच्चयभावे सति. अधिपतिपच्चयभावोपिस्स अनुञ्ञातो होतीति आह ‘‘दोसस्सपि गरुकरणं पाळियं वत्तब्बं सिया’’ति. ‘‘सेसान’’न्ति वचनेनेव निवारितोति कदाचि आसङ्केय्याति तंनिवत्तनत्थमाह ‘‘न च सेसान’’न्तिआदि. पुरेजातादीहीति पुरेजातकम्माहारझानिन्द्रियमग्गविपाकपच्चयेहि. तन्निवारणत्थन्ति तस्स यथावुत्तदोसस्स निवारणत्थं. विसुञ्च अग्गहेत्वाति लोभमोहा विपाकपच्चयापि न होन्ति, तथा दोसोति एवं विसुञ्च अग्गहेत्वा. फोट्ठब्बायतनं कायविञ्ञाणधातुया आरम्मणादिपच्चयो होन्तंयेव पथवीआदिसभावत्ता अत्तना सहजातानं सहजातादिपच्चया होन्तियेवाति वुत्तं ‘‘फोट्ठब्बायतनस्स सहजातादिपच्चयभावं दस्सेती’’ति. ‘‘सब्बधम्मान’’न्ति ‘‘सब्बे धम्मा मनोविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति एत्थ वुत्ते सब्बधम्मे सन्धायाह ‘‘सब्बधम्मानं यथायोगं हेतादिपच्चयभावं दस्सेती’’ति. न हि एतं…पे… भावदस्सनं, अथ खो एकधम्मस्स अनेकपच्चयभावदस्सनं, तस्मा ‘‘एतेन फोट्ठब्बायतनस्सा’’तिआदि वुत्तन्ति अधिप्पायो. रूपादीनन्ति रूपायतनादीनं.

भेदाति विसेसा. भेदं अनामसित्वाति चक्खुविञ्ञाणधातुआदिविसेसं अग्गहेत्वा. ते एवाति यथावुत्तविसेसानं सामञ्ञभूते खन्धे एव. यं सन्धाय ‘‘एवं न सक्का वत्तु’’न्ति वुत्तं, तं विभावेतुं ‘‘न ही’’तिआदि वुत्तं. पट्ठानसंवण्णना हेसाति एतेन सुत्ते वुत्तपरियायमग्गभावेनेत्थ न सक्का मिच्छावाचादीनं मग्गपच्चयं वत्तुन्ति दस्सेति. सेसपच्चयभावोति मग्गपच्चयं ठपेत्वा यथावुत्तेहि सेसेहि अट्ठारसहि पच्चयेहि पच्चयभावो. अधिपतिपच्चयो न होतीति आरम्मणाधिपतिपच्चयो न होति. तन्ति विचिकिच्छं. तत्थाति यथावुत्तेसु अहिरिकादीसु.

दसधा पच्चया होन्ति, पुन तथा हदयवत्थुन्ति इदं अत्थमत्तवचनं. पाठो पन ‘‘हदयवत्थु तेसञ्चेव विप्पयुत्तस्स च वसेन दसधा पच्चयो होती’’ति वेदितब्बो. रूपसद्दगन्धरसायतनमत्तमेवाति इदं रूपादीनं सहजातपच्चयताय विय निस्सयपच्चयताय च अभावतो, पुरेजातपच्चयताय च भावतो वुत्तं. एतानीति यथावुत्तानि रूपसद्दगन्धरसारम्मणानि. सब्बातिक्कन्तपच्चयापेक्खाति ‘‘एकधम्मस्स अनेकपच्चयभावतो’’ति एतस्मिं विचारे हेतुआदिअतिक्कन्तपच्चयापेक्खा एतेसं रूपादीनं अपुब्बता नत्थि, अथ खो आरम्मणआरम्मणाधिपतिआरम्मणूपनिस्सयपच्चयापेक्खा. न हि रूपादीनि हेतुसहजाताधिपतिआदिवसेन पच्चया होन्तीति. तस्साति रूपजीवितिन्द्रियस्स पुरेजातपच्चयभावतो अपुब्बता, तस्मा तं एकूनवीसतिविधो पच्चयो होतीति वुत्तं होति. सत्तधा पच्चयभावो योजेतब्बो, न हि ओजा पुरेजातपच्चयो न होतीति.

अत्थोति वा हेतुआदिधम्मानं सभावो वेदितब्बो. सो हि अत्तनो पच्चयुप्पन्नेहि अरणीयतो उपगन्तब्बतो, ञाणेन वा ञातब्बतो ‘‘अत्थो’’ति वुच्चति. आकारोति तस्सेव पवत्तिआकारो, येन अत्तनो पच्चयुप्पन्नानं पच्चयभावं उपगच्छतीति एवमेत्थ अत्थो दट्ठब्बो. तं पन विप्पयुत्तं. ‘‘सत्तहाकारेही’’ति पठानस्स कारणमाह ‘‘उक्कट्ठपरिच्छेदो ही’’तिआदिना.

यं कम्मपच्चयो…पे… दट्ठब्बं आसेवनकम्मपच्चयानं पच्चयुप्पन्नस्स अनन्तरट्ठानताय. सहजातम्पि हि अनन्तरमेवाति. कोचि पनेत्थाति एत्थ एतस्मिं पकतूपनिस्सयसमुदाये कोचि तदेकदेसभूतो कम्मसभावो पकतूपनिस्सयोति अत्थो. तत्थाति ‘‘यदिदं आरम्मणपुरेजाते पनेत्थ इन्द्रियविप्पयुत्तपच्चयता न लब्भती’’ति वुत्तं, तस्मिं, तस्मिं वा आरम्मणपुरेजातग्गहणे. वत्थुस्स विप्पयुत्तपच्चयता लब्भतीति न वत्तब्बा. न हि आरम्मणभूतं वत्थु विप्पयुत्तपच्चयो होति, अथ खो निस्सयभूतमेवाति. इतो उत्तरीति एत्थ ‘‘इतो’’ति इदं पच्चामसनं पुरेजातं वा सन्धाय आरम्मणपुरेजातं वा. तत्थ पठमनयं अपेक्खित्वा वुत्तं ‘‘पुरेजाततो परतोपी’’ति. तेन कम्मादिपच्चयेसुपि वक्खमानेसु लब्भमानालब्भमानं वेदितब्बन्ति वुत्तं होति. दुतियं पन नयं अनपेक्खित्वा अट्ठकथायं आगतवसेन वुत्तं ‘‘इतो वा इन्द्रियविप्पयुत्ततो’’ति, अत्तना वुत्तनयेन पन ‘‘निस्सयिन्द्रियविप्पयुत्ततो वा’’ति. तत्थ वत्तब्बं सयमेवाह ‘‘आरम्मणाधिपती’’तिआदि. कम्मादीसु लब्भमानालब्भमानं न वक्खति ‘‘इतो उत्तरी’’तिआदिना पगेव अतिदेसस्स कतत्ता, तस्मा पुरिमोयेव पुरेजाततोपीति वुत्तअत्थोयेव अधिप्पेतो.

‘‘मग्गपच्चयतं अविजहन्तोवा’’ति इमिना च मग्गपच्चयो वुत्तोति ‘‘मग्गवज्जानं नवन्न’’न्ति वुत्तं पच्छिमपाठे, पुरिमपाठे पन ‘‘मग्गपच्चयतं अविजहन्तोवा’’ति वुत्तत्ता एव मग्गपच्चयेन सद्धिं सहजातादिपच्चया गहेतब्बाति ‘‘दसन्न’’न्ति वुत्तं. तत्थ पच्छिमपाठे ‘‘एकादसहाकारेही’’ति वत्तब्बं, पुरिमपाठे ‘‘द्वादसही’’ति.

समनन्तरनिरुद्धताय आरम्मणभावेन चाति विज्जमानम्पि विसेसमनामसित्वा केवलं समनन्तरनिरुद्धताय आरम्मणभावेन, न च समनन्तरनिरुद्धताआरम्मणभावसामञ्ञेनाति अत्थो. ‘‘इमिना उपायेना’’ति पच्चयसभागतादस्सनेन पच्चयविसभागतादस्सनेन च वुत्तं पदद्वयं एकज्झं कत्वा पदुद्धारो कतोति दस्सेन्तो ‘‘हेतुआदीनं सहजातानं…पे… योजेतब्बा’’ति आह. हेतुआरम्मणादीनं सहजातासहजातभावेन अञ्ञमञ्ञविसभागताति योजना. एवमादिनाति आदि-सद्देन पुरेजातानं चक्खादीनं रूपादीनञ्च पुरेजातभावेन सभागता, पवत्तियं वत्थुखन्धादीनं पुरेजातपच्छाजातानं पुरेजातपच्छाजातभावेन विसभागताति एवमादीनम्पि सङ्गहो दट्ठब्बो. हेतुनहेतुआदिभावतोपि चेत्थ युगळकतो विञ्ञातब्बो विनिच्छयो. हेतुपच्चयो हि हेतुभावेन पच्चयो, इतरे तदञ्ञभावेन. एवमितरेसुपि यथारहं युगळकतो वेदितब्बो.

उभयप्पधानताति जननोपत्थम्भनप्पधानता. ठानन्ति पदस्स अत्थवचनं कारणभावोति विनापि भावपच्चयं भावपच्चयस्स अत्थो ञायतीति. उपनिस्सयं भिन्दन्तेनाति अनन्तरूपनिस्सयपकतूपनिस्सयविभागेन विभजन्तेन. तयोपि उपनिस्सया वत्तब्बा उपनिस्सयविभागभावतो. उपनिस्सयग्गहणमेव कातब्बं सामञ्ञरूपेन. तत्थाति एवमवट्ठिते अनन्तरूपनिस्सयपकतूपनिस्सयोति भिन्दनं विभागकरणं यदि पकतूपनिस्सयस्स रूपानं पच्चयत्ताभावदस्सनत्थं, ननु आरम्मणूपनिस्सयअनन्तरूपनिस्सयापि रूपानं पच्चया न होन्तियेवाति? सच्चं न होन्ति, ते पन दस्सितनयाति तदेकदेसेन इतरम्पि दस्सितमेव होतीति इममत्थं दस्सेन्तो ‘‘आरम्मणं…पे… दट्ठब्ब’’न्ति आह. तंसमानगतिकत्ताति तेहि अनन्तरादीहि समानगतिकत्ता अरूपानंयेव पच्चयभावतो. तन्ति पुरेजातपच्चयं. तत्थाति अनन्तरादीसु पठित्वा.

पच्चयनिद्देसपकिण्णकविनिच्छयकथावण्णना निट्ठिता.