१७. झानपच्चयनिद्देसवण्णना
१७. सोमनस्सदोमनस्ससङ्खातानीति सोमनस्सदोमनस्सपरियायेन वुत्तानि, झानङ्गभावविसेसनतो वा सोमनस्सदोमनस्सभूतानेव सुखदुक्खानि झानङ्गानि, न इतरसुखदुक्खानीति झानङ्गभूतानंयेव सुखदुक्खानं झानङ्गभावदस्सनत्थं सोमनस्सदोमनस्सग्गहणं कतं. इदानि यथावुत्तमेव ‘‘द्विपञ्चविञ्ञाणेसू’’तिआदिना वित्थारतो विभावेति, तं सुविञ्ञेय्यमेव. तेनाति विसेसनभूतेन सोमनस्सदोमनस्सग्गहणेन.
अभिनिपातमत्तत्ताति आरम्मणकरणमत्तभावतो. चिन्तनापवत्तिया उपनिज्झायनपवत्तिया. यथावुत्तेनेव कारणेनाति ‘‘उपनिज्झानाकारस्स अभावतो’’ति एतेन कारणेन. पुब्बेतिआदितो. चत्तारि अङ्गानि वज्जितानीति सत्तसु अङ्गेसु दस्सियमानेसु चत्तारि अङ्गानि वज्जितानि. अट्ठकथा हेसाति लेसेन अपकासेतब्बताय कारणमाह. तीसुपि एकमेव वत्तब्बं सिया, तंसमानलक्खणताय इतरेसं तिण्णम्पि गहणं होतीति. तिण्णं पन वचनेनाति उपेक्खासुखदुक्खानं अझानङ्गतादस्सनत्थेन वचनेन. ततो उपेक्खादितो अञ्ञस्स धम्मस्स चित्तेकग्गताय झानङ्गन्ति उद्धटभावो आपज्जति अझानङ्गेसु अग्गहितत्ता. यथावुत्तकारणतोति ‘‘उपनिज्झानाकारस्स अभावतो’’ति वुत्तकारणतो अञ्ञेन कारणेन अनुद्धटभावो वा आपज्जति अनुपनिज्झायनसभावेहि सद्धिं अग्गहितत्ता उपनिज्झायनाकारभावतो अञ्ञेनेव कारणेन चित्तेकग्गताय पाळियं अनुद्धटभावो आपज्जति. तंदोसपरिहरणत्थन्ति यथावुत्तदोसविनिमोचनत्थं.
ये पनातिआदि पदकारमत्तदस्सनं. सोमनस्सादीहीति सोमनस्सदोमनस्सझानङ्गुपेक्खाहि. अविभूतभावो उपेक्खनं. उपेक्खा हि अविभूतकिच्चा वुत्ता. समानानं केसं? सुखादीनं, केहि? सोमनस्सादीहि, कथं? सुख…पे… युत्तताति योजना. न चित्तेकग्गतायाति सुखादीहि, तदञ्ञेहि अभिनिरोपनादीहि च अनिन्द्रियकिच्चताय च अनुपनिज्झायनकिच्चताय च असमानताय पञ्चविञ्ञाणेसु चित्तेकग्गताय झानङ्गन्ति अनुद्धटभावे कारणं न वत्तब्बन्ति. साति चित्तेकग्गता. एत्थाति ‘‘उपेक्खासुखदुक्खानी’’ति एतस्मिं अट्ठकथावचने न गहिता. विचिकिच्छायुत्तमनोधातुआदीसूति विचिकिच्छासम्पयुत्तचित्ते मनोधातुया सम्पटिच्छनादीसु च. तस्सापि चित्तेकग्गतायपि.
झानपच्चयनिद्देसवण्णना निट्ठिता.