१८. मग्गपच्चयनिद्देसवण्णना
१८. दुविधम्पि सङ्कप्पन्ति सम्मासङ्कप्पो मिच्छासङ्कप्पोति च एवं अनवज्जसावज्जभेदेन दुविधम्पि. वीरियं समाधिन्ति एत्थापि एसेव नयो. सङ्गण्हित्वा वितक्कादिभावसामञ्ञेन सह गहेत्वा, एकेकमेव कत्वा गहेत्वाति अत्थो. तेहि मिच्छावाचाकम्मन्ताजीवेहि. इधाति इमस्मिं मग्गपच्चयनिद्देसे लब्भमानानि च मग्गपच्चयभावतो, च-सद्देन अलब्भमानानि च मग्गपच्चयत्ताभावा. यदि एवं कस्मा वुत्तानीति आह ‘‘मग्गङ्गवचनसामञ्ञेना’’ति. एवं परियायनिद्देसो इध किमत्थियोति चोदनं सन्धायाह ‘‘एवञ्हि सुत्तवोहारोपि दस्सितो होती’’ति. एवं पन दस्सेन्तेनाति परमत्थतो अमग्गङ्गानिपि सुत्ते मग्गङ्गवोहारसिद्धिया इध मग्गङ्गेहि सह दस्सेन्तेन. उद्धरित्वाति पदुद्धारं कत्वा. इदानि मिच्छावाचादीहि सद्धिं द्वादसङ्गानि न दस्सेतब्बानि, कस्माति चेति आह ‘‘न हि पाळियं…पे… वत्तब्बो’’ति. तप्पटिपक्खभावतोयेव मिच्छामग्गङ्गानि, न मिच्छादिट्ठिआदयो विय सभावतोति अधिप्पायो.
परियायनिप्परियायमग्गङ्गदस्सनत्थेपि अत्थवचने एवं न वत्तब्बमेवाति दस्सेन्तो ‘‘परियाय…पे… अधिकरणानी’’ति आह. तस्सत्थो – यथा ‘‘अञ्ञभागियस्स अधिकरणस्सा’’ति एत्थ पाळिगतअधिकरणसद्दपतिरूपको अञ्ञो अधिकरणसद्दो पाळिगततदञ्ञसाधारणताय उभयपदत्थो उद्धटो ‘‘अधिकरणं नाम चत्तारि अधिकरणानी’’ति, एवमिधापि निप्परियायं इतरञ्च मग्गङ्गं दस्सेतुकामेन पाळिगततदञ्ञसाधारणो मग्गङ्गसद्दो उद्धरितब्बो सिया, तथा न कतन्ति. तस्माति यस्मा पाळिगतोयेव मग्गङ्गसद्दो उद्धटो, न तदञ्ञसाधारणो, न च अत्थुद्धारमुखेन अधिप्पेतत्थो नियमितो, तस्मा. तेसूति अहेतुकचित्तुप्पादेसु. ‘‘सम्मादिट्ठि…पे… समाधयो’’ति एत्थ सङ्कप्पवायामसमाधयो सम्मामिच्छासद्देहि विसेसेत्वा वुत्ताति आह ‘‘सम्मादिट्ठिआदयो यथावुत्ता सन्ती’’ति. सङ्कप्पवायामसमाधिप्पत्ता पन तत्थ केचि सन्तियेवाति. अथ वा सम्मादिट्ठिआदयोति वुत्तप्पकारे सम्मादिट्ठिआदिके अनवसेसे सन्धाय वुत्तं. तेनाह ‘‘यथावुत्ता’’ति. उप्पत्तिट्ठाननियमनत्थत्ता न विसेसनत्थत्ताति अधिप्पायो.
मग्गपच्चयनिद्देसवण्णना निट्ठिता.