१६. इन्द्रियपच्चयनिद्देसवण्णना

१६. ‘‘मिस्सकत्ता’’ति इदं इन्द्रियताय रूपारूपजीवितिन्द्रियानं एकज्झं कत्वा देसिततं सन्धाय वुत्तं, तस्मा मिस्सकत्ताति रूपजीवितिन्द्रियमिस्सकत्ताति अत्थो. जीवितिन्द्रियन्ति अरूपजीवितिन्द्रियं. न सब्बेन सब्बं वज्जितब्बन्ति यथा पञ्हापुच्छके अरूपजीवितिन्द्रियं मिस्सकत्ता न गहितं, न एवमिध अरूपजीवितिन्द्रियं अग्गहितन्ति अत्थो.

अरूपानं चक्खुविञ्ञाणादीनं पच्चयन्तरापेक्खानि आवज्जनारम्मणादिअञ्ञपच्चयसापेक्खानि इन्द्रियपच्चया सियुं चक्खादीनं रूपारूपानं अञ्ञमञ्ञं कदाचिपि अविनिब्भुत्तभावस्स अभावतो, पच्चयन्तरसमोधानापेक्खताय च. यो पन निरपेक्खोति यथा चक्खादीनि पच्चयन्तरेसु सापेक्खानि, एवं सापेक्खो अहुत्वा यो तत्थ निरपेक्खो इन्द्रियपच्चयो होति अविनिब्भुत्तधम्मानं यथा दुविधम्पि जीवितिन्द्रियं, सो अत्तनो…पे… नत्थीति योजना. अविनिब्भुत्तानं तेसम्पि लिङ्गादीनं सियुं विनिब्भुत्तानं पच्चयुप्पन्नानं इन्द्रियपच्चयताभावस्स अदिट्ठत्ता. ननु चक्खादीनं विनिब्भुत्तानं इन्द्रियपच्चयभावो दिट्ठोति? सच्चं दिट्ठो, न पन सो समानजातियाति दस्सेन्तो ‘‘न ही’’तिआदिमाह. सति चेवन्ति एवं वुत्तप्पकारे समानजातियंयेव अविनिब्भुत्तस्स इन्द्रियपच्चयभावे सति इत्थिपुरिसिन्द्रियेहि सद्धिं. सहयोगे हि इदं करणवचनं. यदिपि इत्थिपुरिसिन्द्रियानि लिङ्गादीनं कललादिकाले इन्द्रियपच्चयतं न फरेय्युं तेसं तदा अभावतो. ये पन रूपधम्मा तदा सन्ति, तेहि अविनिब्भुत्ताव, तेसं कस्मा न फरन्तीति आह ‘‘अञ्ञेसं पना’’तिआदि. अबीजभावतो अनिमित्तभावतो. तदनुरूपानन्ति कललादिअवत्थानुरूपानं अत्थितं इच्छन्ति, यतो ‘‘इत्थी, पुरिसो’’ति पकतिविभागो विञ्ञायतीति तेसं अधिप्पायो.

कुसलजातियन्ति निद्धारणे भुम्मं. ये पन ‘‘कुसलजातिक’’न्ति पठन्ति, तेसं पच्चत्तेकवचनं. विसुं एकजाति वा भूमि वा न होति तदेकदेसभावतो. हेतुआदीसुपीति आदि-सद्देन ‘‘अकुसलाहारेसुपि एसेव नयो’’ति एवमादिकं सङ्गण्हाति. एस नयोति य्वायं ‘‘भूमिवसेन वुत्तेसू’’तिआदिना अरूपे अलब्भमानस्स इन्द्रियपच्चयस्स अट्ठपने अत्थनयो वुत्तो, एस नयो योजेतब्बोति. तथा अपरियापन्नकुसलहेतु, तथा अकुसलहेतूति एत्थापि पठमापरियापन्नकुसलहेतु दोमनस्ससहगताकुसलहेतु च विसुं एकजाति भूमि वा न होन्तीति आरुप्पे अलब्भमानापि विसुं न ठपिताति योजेतब्बो. एस नयो ‘‘अकुसलाहारेसुपि एसेव नयो’’ति एवमादीसु.

सति सहजातपच्चयत्ते उप्पादक्खणेपि इन्द्रियपच्चयता सियाति कत्वा वुत्तं ‘‘सहजातपच्चयत्ताभावं सन्धाया’’ति. वुत्तञ्हि ‘‘उप्पज्जमानो सह उप्पज्जमानभावेन उपकारको धम्मो सहजातपच्चयो’’ति (पट्ठा. अट्ठ. पच्चयुद्देसवण्णना). तस्स पन सहजातपच्चयत्ताभावो यदिपि अट्ठकथायं ‘‘सहजातपच्चयता पन तस्स नत्थी’’ति सरूपेनेव दस्सितो, तथापि तं अननुजानन्तो ‘‘उप्पाद…पे… निवारेतु’’न्ति वत्वा ‘‘वक्खती’’तिआदिना तमत्थं समत्थेति. कम्मपच्चयसदिसन्ति हि एतेन तस्स उप्पादक्खणे पच्चयभावो पकासितो. पवत्तेचाति च-सद्देन पटिसन्धियञ्च कटत्तारूपस्स रूपजीवितिन्द्रियतो अञ्ञो इन्द्रियपच्चयो न हि अत्थीति योजना. पटिच्चवारादयो सम्पयुत्तवारपरियोसाना छ वारा उप्पादक्खणमेव गहेत्वा पवत्ता ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना, न ठितिक्खणन्ति अधिप्पायो. एवञ्च कत्वाति उप्पादक्खणमेव गहेत्वा पवत्तत्ता. एतेसूति यथावुत्तेसु छसु वारेसु. केचि पन ‘‘रूपजीवितिन्द्रियस्स अनुपालनं उप्पादक्खणे न पाकटं बलवञ्च यथा ठितिक्खणे पच्छाजातादिपच्चयलाभतो थिरभावप्पत्तियास्स तं पाकटं बलवञ्च, तस्मा ‘ठितिक्खणे’ति वुत्त’’न्ति वदन्ति.

इन्द्रियपच्चयनिद्देसवण्णना निट्ठिता.