३. कामगुणकथावण्णना
५१०. सब्बेपीति कुसलाकुसलक्खन्धादयोपि. तेसम्पि हि आलम्बनत्थिकतालक्खणस्स कत्तुकम्यताछन्दस्स वसेन सिया कमनट्ठताति अधिप्पायो. धातुकथायं ‘‘कामभवो पञ्चहि खन्धेहि एकादसहि आयतनेहि सत्तरसहि धातूहि सङ्गहितो. कतिहि असङ्गहितो? न केहिचि खन्धेहि एकेनायतनेन एकाय धातुया असङ्गहितो’’ति आगतत्ता आह ‘‘उपादिन्नक्खन्धानमेव कामभवभावो धातुकथायं दस्सितो’’ति. पञ्चाति गणनपरिच्छेदो, तदञ्ञगणननिवत्तनत्थोति ‘‘पञ्च कामगुणा’’ति वचनं ततो अञ्ञेसं तब्भावं निवत्तेतीति आह ‘‘पञ्चेव कामकोट्ठासा कामोति वुत्ता’’ति. ततो एव कामधातूति वचनं न अञ्ञस्स नामं, तेसंयेव नामन्ति अत्थो. तयिदं परवादिनो मतिमत्तन्ति वुत्तं ‘‘इमिना अधिप्पायेना’’ति. एवं वचनमत्तन्ति एवं ‘‘पञ्चिमे कामगुणा’’ति वचनमत्तं निस्साय, न पनत्थस्स अविपरीतं अत्थन्ति अत्थो.
कामगुणकथावण्णना निट्ठिता.