४. दानकथावण्णना
४७९. फलदानभावदीपनत्थन्ति फलदानसब्भावदीपनत्थं. फलदानं वुत्तं विय होतीति चित्तेन फलदानं पधानभावे वुत्तं विय होतीति अत्थो. अञ्ञथा दानभावोति न सक्का वत्तुं. दानभावोपि हि ‘‘दानं अनिट्ठफल’’न्तिआदिना वुत्तोयेवाति. तन्निवारणत्थन्ति फलदाननिवारणत्थं. एतन्ति ‘‘दानं अनिट्ठफल’’न्तिआदिवचनं. भेसज्जादिवसेन आबाधानिट्ठता देय्यधम्मस्स अनिट्ठफलतापरियायो दट्ठब्बो.
कथं तथेव सुत्तं सकवादिपरवादिवादेसु युज्जतीति चोदनाय ‘‘न पन एकेनत्थेना’’ति वुत्तं विभावेतुं ‘‘देय्यधम्मोव दान’’न्तिआदि वुत्तं. तत्थ निवत्तनपक्खेयेव एव-कारो युत्तो, न साधनपक्खे द्विन्नम्पि दानभावस्स इच्छितत्ता. तेनाह ‘‘चेतसिकोवाति अत्थो दट्ठब्बो, देय्यधम्मोवा’’ति च. तेनेवाह ‘‘द्विन्नञ्हि दानानन्तिआदि. सङ्करभावमोचनत्थन्ति सतिपि दानभावे सभावसङ्करमोचनत्थं. तेनाह ‘‘चेतसिकस्सा’’तिआदि.
दानकथावण्णना निट्ठिता.