८. नियामोक्कन्तिकथावण्णना

४०३. पारमीपूरणन्ति इदं बोधिचरियाय उपलक्खणं, न पारमीनं पुण्णभावदस्सनं. तेन तेसं आरम्भसमादानादीनम्पि सङ्गहो कतोति दट्ठब्बं. महाभिनीहारतो पट्ठाय हि महासत्ता नियताति वुच्चन्ति. यथाह – ‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा’’ति, ‘‘धुवं बुद्धो भविस्सती’’ति च, न नियामस्स नाम कस्सचि धम्मस्स उप्पन्नत्ता ब्याकरोन्ति, अथ खो एकंसेनायं पारमियो पूरेत्वा बुद्धो भविस्सतीति कत्वा ब्याकरोन्तीति परवादीपरिकप्पितं धम्मन्तरं पटिसेधेति, न बोधिया नियतत्तं. तेनाह ‘‘केवलञ्हि न’’न्तिआदि.

नियामोक्कन्तिकथावण्णना निट्ठिता.