७. दिब्बचक्खुकथावण्णना

३७३. विसिनोति विसेसेन बन्धति विसयीनं अत्तपटिबन्धं करोतीति विसयो, आरम्मणं, अनुभवति एतेनाति आनुभावो, सामत्थियं, बलन्ति अत्थो, गोचरकरणं गोचरो, विसये आनुभावगोचरा विसय…पे… चराति. तेहि यथा विसिट्ठं विसेसं होति, तथा पच्चयभूतेन झानधम्मेन आहितबलं कतबलाधानं. विसयग्गहणञ्चेत्थ आनुभावगोचरकरणानं पवत्तिट्ठानदस्सनं यत्थस्स तेहि उपत्थद्धत्ता बलाधानं पाकटं होति. तेनाह ‘‘यादिसे विसये’’तिआदि. बलाधानञ्च उत्तरिमनुस्सधम्मतो महग्गतधम्मविसेसतो उप्पन्नेहि पणीतेहि चित्तजरूपेहि विसेसापत्ति. यं निस्साय परावुत्तीति एके वदन्ति. पुरिमं मंसचक्खुमत्तमेवाति यथावुत्तबलाधानतो पुरिमं मंसचक्खुमत्तमेव. वदन्तो सङ्गहकारो. विसयग्गहणं पाळियं कतं. न विसयविसेसदस्सनत्थन्ति न विसयस्स विसेसदस्सनत्थं. यतो उभिन्नम्पि रूपायतनमेव विसयोति विसयस्स सदिसतं अविसेसं आह, सदिसस्स वा विसेसं दीपेतीति योजना.

धम्मुपत्थद्ध …पे… अधिप्पायो, अञ्ञथा लद्धियेव न सियाति भावो. मग्गोति उपायो, कारणन्ति अत्थो. पकतिचक्खुमतो एव हि दिब्बचक्खु उप्पज्जति. कस्मा? कसिणालोकं वड्ढेत्वा दिब्बचक्खुञाणस्स उप्पादनं, सो च कसिणमण्डले उग्गहनिमित्तेन विना नत्थि, तस्मा वुत्तं ‘‘मंसचक्खुपच्चयतादस्सनत्थमेव वुत्त’’न्ति. तेनाति ‘‘मग्गो’’ति वचनेन. रूपावचरज्झानपच्चयेनाति रूपावचरज्झानेन पच्चयभूतेन उप्पन्नानि रूपावचरज्झानचित्तसमुट्ठितानि. झानकम्मसमुट्ठितेसु वत्तब्बमेव नत्थि. तस्स हेसा लद्धि.

३७४. येन दिब्बचक्खुनो पञ्ञाचक्खुभावस्स इच्छनेन पटिजाननेन. तीणि चक्खूनि मंसदिब्बपञ्ञाचक्खूनि चक्खुन्तरभावं वदतो भवेय्युं, तस्मा तं न इच्छतीति अत्थो.

दिब्बचक्खुकथावण्णना निट्ठिता.