२. अरियन्तिकथावण्णना

३५७. सङ्खारे सन्धाय पटिजानन्तस्साति दिट्ठिया परिकप्पितेन सत्तेन सुञ्ञे सङ्खारे सन्धाय ‘‘सुञ्ञतञ्च मनसि करोती’’ति पुच्छाय ‘‘आमन्ता’’ति पटिजानन्तस्स. द्विन्नं फस्सानं समोधानं कथं आपज्जति ठानाठानभूते सङ्खारे वुत्तनयेन सुञ्ञतं मनसि करोन्तस्साति अधिप्पायो. यथावुत्तनयेनाति ‘‘दिट्ठिया परिकप्पितेन सत्तेन सुञ्ञा पञ्चक्खन्धा’’ति पकारेन नयेन. अथ वा यथावुत्तनयेनाति ‘‘ठानाठानमनसिकारो सङ्खारारम्मणो, सुञ्ञतामनसिकारो निब्बानारम्मणो’’ति एवं वुत्तनयेन. ‘‘सङ्खारे सन्धाय पटिजानन्तस्सा’’ति वुत्तत्ता ‘‘द्विन्नं फस्सानं समोधानं कथं आपज्जती’’ति आह. सत्तसुञ्ञताय सुञ्ञत्तेपि सङ्खारानं अञ्ञोव ठानाठानमनसिकारो, अञ्ञो सुञ्ञतामनसिकारोति युज्जतेव द्विन्नं फस्सानं समोधानापत्तिचोदना, सङ्खारे सन्धाय पटिजानन्तस्स पन कथं अरियभावसिद्धि ठानाठानञाणादीनन्ति विचारेतब्बं. किं वा एताय युत्तिचिन्ताय. उम्मत्तकपच्छिसदिसो हि परवादिवादो. अञ्ञेसुपि ठानेसु ईदिसेसु एसेव नयो. आरोपेत्वाति इत्थिपुरिसादिआकारं, सत्ताकारमेव वा असन्तं रूपादिउपादाने आरोपेत्वा. अभूतारोपनञ्हेत्थ पणिदहनन्ति अधिप्पेतं. तेनाह ‘‘परिकप्पनवसेना’’ति. सोति यथावुत्तो पणिधि. एकस्मिम्पि खन्धे.

अरियन्तिकथावण्णना निट्ठिता.