५. वचीभेदकथावण्णना

३२६. सोति पठममग्गट्ठो. तस्माति यस्मा ‘‘विरजं वीतमलं धम्मचक्खुं उदपादि ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’’न्ति सुत्तस्स अत्थं अञ्ञथा गहेत्वा उदयब्बयानुपस्सनानिस्सन्देन मग्गक्खणेपि दुक्खन्ति विपस्सना उपट्ठाति, तस्मा ‘‘सो दुक्खमिच्चेव वाचं भासती’’ति वदन्ति.

३२८. इच्छितेति परवादिना सम्पटिच्छिते. आरोपितेति युत्तिनिद्धारणेन तस्मिं अत्थे पतिट्ठापिते युज्जति, वचीसमुट्ठापनक्खणतो पन पच्छा तं सद्दं सुणातीति इच्छिते न युज्जति सोतविञ्ञाणस्स पच्चुप्पन्नारम्मणत्ताति अधिप्पायो. यस्मा पन अत्तना निच्छारितं सद्दं अत्तनापि सुणाति, तस्मा सोतविञ्ञाणं ‘‘येन तं सद्दं सुणाती’’ति अट्ठकथायं वुत्तन्ति दट्ठब्बं.

३३२. लोकुत्तरमग्गक्खणेति पठमज्झानिकस्स पठममग्गस्स खणे. अभिभूसुत्ताहरणे अधिप्पायो वत्तब्बोति एतेन तदाहरणस्स असम्बन्धतं दस्सेति. तेनाह ‘‘तस्मा असाधक’’न्ति.

वचीभेदकथावण्णना निट्ठिता.