७. चित्तट्ठितिकथावण्णना
३३५. एवन्ति ‘‘एकचित्तं यावतायुकं तिट्ठती’’ति वुत्ताकारेन. अञ्ञत्थाति अरूपभवतो अञ्ञस्मिं. एतेनाति ‘‘एकमेव चित्तं आरुप्पे तिट्ठति, यावतायुकं तिट्ठती’’ति एवंवादिना दुतियापि अड्ढकथा पस्सितब्बा पठमकथाय चिरकालावट्ठानवचनस्स अञ्ञदत्थु भावविभावनतोति अधिप्पायो. पुरिमायाति ‘‘यावतायुकं तिट्ठती’’ति पञ्हतो पुरिमाय. तत्थ हि ‘‘वस्ससतं तिट्ठती’’ति पुच्छाय ‘‘आमन्ता’’ति अनुञ्ञा कता, पच्छिमायं पन ‘‘मनुस्सानं एकं चित्तं यावतायुकं तिट्ठती’’ति ‘‘न हेवं वत्तब्बे’’ति पटिक्खेपो कतो. अविरोधो विभावेतब्बो, यतो तत्थेव अनुञ्ञा कता, न पच्छाति अधिप्पायो. वस्ससतादीति च आदि-सद्देन न केवलं ‘‘द्वे वस्ससतानी’’ति एवमादियेव सङ्गहितं, अथ खो ‘‘एकं चित्तं दिवसं तिट्ठती’’ति एवमादिपीति दट्ठब्बं. ‘‘मुहुत्तं मुहुत्तं उप्पज्जतीति पञ्हो सकवादिना पुच्छितो विय वुत्तो’’ति इदं विचारेतब्बं. ‘‘मुहुत्तं मुहुत्तं उप्पज्जती’’ति पञ्हो परवादिस्स. ‘‘उप्पादवयधम्मिनो’’तिआदिसुत्तत्थवसेन पटिञ्ञा सकवादिस्साति हि वुत्तं.
चित्तट्ठितिकथावण्णना निट्ठिता.