१. वादयुत्तिवण्णना

२८२. सब्बं अत्थीति एत्थ यस्मा पच्चुप्पन्नं विय अतीतानागतम्पि धरमानसभावन्ति परवादिनो लद्धि, तस्मा सब्बन्ति कालविभागतो अतीतादिभेदं सब्बं. सो पन ‘‘यम्पि नत्थि, तम्पि अत्थी’’ति कालविमुत्तस्स वसेन अनुयोगो, तं अतिप्पसङ्गदस्सनवसेन परवादिपटिञ्ञाय दोसारोपनं. नयदस्सनं वा अतीतानागतानं नत्थिभावस्स. अत्थीति पन अयं अत्थिभावो यस्मा देसकालाकारधम्मेहि विना न होति, तस्मा तं ताव तेहि सद्धिं योजेत्वा अनुयोगं दस्सेतुं ‘‘सब्बत्थ सब्बमत्थी’’तिआदिना पाळि पवत्ता. तत्थ यदिपि सब्बत्थाति इदं सामञ्ञवचनं, तं पन यस्मा विसेसनिविट्ठं होति, परतो च सब्बेसूति धम्मा विभागतो वुच्चन्ति, तस्मा ओळारिकस्स पाकटस्स रूपधम्मसमुदायस्स वसेन अत्थं दस्सेतुं अट्ठकथायं ‘‘सब्बत्थाति सब्बस्मिं सरीरे’’ति वुत्तं, निदस्सनमत्तं वा एतं दट्ठब्बं. तथा च काणादकापिलेहि पटिञ्ञायमाना आकासकालादिसत्तपकतिपुरिसा विय परवादिना पटिञ्ञायमानं सब्बं सब्बब्यापीति आपन्नमेव होतीति. ‘‘सब्बत्थ सरीरे’’ति च ‘‘तिले तेल’’न्ति विय ब्यापने भुम्मन्ति सरीरपरियापन्नेन सब्बेन भवितब्बन्ति वुत्तं ‘‘सिरसि पादा…पे… अत्थो’’ति.

सब्बस्मिं काले सब्बमत्थीति योजना. एतस्मिं पक्खेयेवस्स अञ्ञवादो परिदीपितो सिया ‘‘यं अत्थि, अत्थेव तं, यं नत्थि, नत्थेव तं, असतो नत्थि सम्भवो, सतो नत्थि विनासो’’ति. एवं सब्बेनाकारेन सब्बं सब्बेसु धम्मेसु सब्बं अत्थीति अत्थोति सम्बन्धो. इमेहि पन पक्खेहि ‘‘सब्बं सब्बसभावं, अनेकसत्तिनिचिताभावा असतो नत्थि सम्भवो’’ति वादो परिदीपितो सिया. योगरहितन्ति केनचि युत्तायुत्तलक्खणसंयोगरहितं. तं पन एकसभावन्ति संयोगरहितं नाम अत्थतो एकसभावं, एकधम्मोति अत्थो. एतेन देववादीनं ब्रह्मदस्सनं अत्थेवातिवादो परिदीपितो सिया. अत्थीति पुच्छतीति यदि सब्बमत्थीति तव वादो, यथावुत्ताय मम दिट्ठिया सम्मादिट्ठिभावो अत्थीति एकन्तेन तया सम्पटिच्छितब्बो, तस्मा ‘‘किं सो अत्थी’’ति पुच्छतीति अत्थो.

वादयुत्तिवण्णना निट्ठिता.