२. संसन्दनब्रह्मचरियकथावण्णना
२७३. रूपावचरमग्गेनाति रूपावचरज्झानेन. तञ्हि रूपभवूपपत्तिया उपायभावतो मग्गोति वुत्तो. यथाह ‘‘रूपुपपत्तिया मग्गं भावेती’’ति (ध. स. १६०). इदन्ति इदं रूपावचरज्झानं. ‘‘इधविहायनिट्ठहेतुभूतो रूपावचरमग्गो’’तिआदिकं दीपेन्तं वचनं अनागामिमग्गस्स तब्भावदीपकेन ‘‘इध भावितमग्गो’’तिआदिकेन कथं समेतीति चोदेत्वा यथा समेति, तं दस्सेतुं ‘‘पुब्बे पना’’तिआदि वुत्तं. तत्थ ‘‘पुब्बे’’ति इमिना ‘‘इध भावितमग्गो’’तिआदिकं वदन्ति, इधापि पन ‘‘रूपावचरमग्गेना’’तिआदिकं. तत्थ अनागामी एवाति अनागामिफलट्ठो एव. झानानागामीति असमुच्छिन्नज्झत्तसंयोजनोपि रूपभवे उप्पज्जित्वा अनावत्तिधम्ममग्गं भावेत्वा तत्थेव परिनिब्बायनतो. अधिप्पायोति यथावुत्तो द्विन्नं अट्ठकथावचनानं अविरोधदीपको अधिप्पायो.
इधाति कामलोके. तत्थाति ब्रह्मलोके. एत्थ च परवादी एवं पुच्छितब्बो ‘‘तीहि, भिक्खवे, ठानेही’’ति सुत्तं किं यथारुतवसेन गहेतब्बत्थं, उदाहु सन्धायभासितन्ति? तत्थ जानमानो सन्धायभासितन्ति वदेय्य. अञ्ञथा ‘‘परनिम्मितवसवत्तिदेवे उपादाया’’तिआदि वत्तुं न सक्का ‘‘देवे च तावतिंसे’’ति वुत्तत्ता. यथा हि तस्स ‘‘सेय्यथापि देवेहि तावतिंसेहि सद्धिं मन्तेत्वा’’तिआदीसु विय सक्कं देवराजानं उपादाय कामावचरदेवेसु तावतिंसदेवा पाकटा पञ्ञाताति तेसं गहणं, न तेयेव अधिप्पेताति सुत्तपदस्स सन्धायभासितत्थं सम्पटिच्छितब्बं, एवं ‘‘इध ब्रह्मचरियवासो’’ति एत्थापि अनवज्जसुखअब्यासेकसुखनेक्खम्मसुखादिसन्निस्सयभावेन महानिसंसताय सासने पब्बज्जा ‘‘इध ब्रह्मचरियवासो’’ति इमस्मिं सुत्ते अधिप्पेता. सा हि उत्तरकुरुकानं देवानञ्च अनोकासभावतो दुक्करा दुल्लभा च. तत्थ सूरियपरिवत्तादीहिपि देवेसु मग्गपटिलाभाय अत्थिता विभावेतब्बा, उत्तरकुरुकानं पन विसेसानधिगमभावो उभिन्नम्पि इच्छितो एवाति.
संसन्दनब्रह्मचरियकथावण्णना निट्ठिता.
ब्रह्मचरियकथावण्णना निट्ठिता.