३. ओधिसोकथावण्णना

२७४. ओधिसोति भागसो, भागेनाति अत्थो. भागो नाम यस्मा एकदेसो होति, तस्मा ‘‘एकदेसेन एकदेसेना’’ति वुत्तं. तत्थ यदि चतुन्नं मग्गानं वसेन समुदयपक्खिकस्स किलेसगणस्स चतुभागेहि पहानं ‘‘ओधिसो पहान’’न्ति अधिप्पेतं, इच्छितमेवेतं सकवादिस्स ‘‘तिण्णं संयोजनानं परिक्खया दिट्ठिगतानं पहानाया’’ति च आदिवचनतो. यस्मा पन मग्गो चतूसु सच्चेसु नानाभिसमयवसेन किच्चकरो, न एकाभिसमयवसेनाति परवादिनो लद्धि, तस्मा यथा ‘‘मग्गो कालेन दुक्खं परिजानाति, कालेन समुदयं पजहती’’तिआदिना नानक्खणवसेन सच्चेसु पवत्ततीति इच्छितो, एवं पच्चेकम्पि नानक्खणवसेन पवत्तेय्य. तथा सति दुक्खादीनं एकदेसएकदेसमेव परिजानाति पजहतीति दस्सेतुं पाळियं ‘‘सोतापत्ति…पे… एकदेसे पजहती’’तिआदि वुत्तं. सति हि नानाभिसमये पठममग्गादीहि पहातब्बानं संयोजनत्तयादीनं दुक्खदस्सनादीहि एकदेसएकदेसप्पहानं सियाति एकदेससोतापत्तिमग्गट्ठादिता, ततो एव एकदेससोतापन्नादिता च आपज्जति अनन्तरफलत्ता लोकुत्तरकुसलानं, न च तं युत्तं. न हि कालभेदेन विना सो एव सोतापन्नो, असोतापन्नो चाति सक्का विञ्ञातुं. तेनाह ‘‘एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो’’तिआदि.

अपिचायं नानाभिसमयवादी एवं पुच्छितब्बो ‘‘मग्गञाणं सच्चानि पटिविज्झन्तं किं आरम्मणतो पटिविज्झति, उदाहु किच्चतो’’ति. यदि आरम्मणतोति वदेय्य, तस्स विपस्सनाञाणस्स विय दुक्खसमुदयानं अच्चन्तपरिच्छेदसमुच्छेदा न युत्ता ततो अनिस्सटत्ता, तथा मग्गदस्सनं. न हि सयमेव अत्तानं आरब्भ पवत्ततीति युत्तं, मग्गन्तरपरिकप्पनायं अनवट्ठानं आपज्जतीति, तस्मा तीणि सच्चानि किच्चतो, निरोधं किच्चतो आरम्मणतो च पटिविज्झतीति एवमसम्मोहतो पटिविज्झन्तस्स मग्गञाणस्स नत्थेव नानाभिसमयो. वुत्तञ्हेतं ‘‘यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदि. न चेतं कालन्तरदस्सनं सन्धाय वुत्तं. ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि…पे… दुक्खनिरोधगामिनिपटिपदम्पि सो पस्सती’’ति (सं. नि. ५.११००) एकसच्चदस्सनसमङ्गिनो अञ्ञसच्चदस्सनसमङ्गिभावविचारणायं तदत्थसाधनत्थं आयस्मता गवंपतित्थेरेन आभतत्ता पच्चेकञ्च सच्चत्तयदस्सनस्स योजितत्ता. अञ्ञथा पुरिमदिट्ठस्स पुन अदस्सनतो समुदयादिदस्सने दुक्खादिदस्सनमयोजनीयं सिया. न हि लोकुत्तरमग्गो लोकियमग्गो विय कतकारिभावेन पवत्तति समुच्छेदकत्ता. तथा योजने च सब्बं दस्सनं दस्सनन्तरपरन्ति दस्सनानुपरमो सिया. एवं आगमतो युत्तितो च नानाभिसमयस्स असम्भवतो पच्चेकं मग्गानं ओधिसो पहानं नत्थीति निट्ठमेत्थ गन्तब्बं.

ओधिसोकथावण्णना निट्ठिता.