१. सुद्धब्रह्मचरियकथावण्णना

२६९. हेट्ठापीति परनिम्मितवसवत्तिदेवेहि हेट्ठापि. मग्गभावनम्पि न इच्छन्तीति विञ्ञायति ‘‘इध ब्रह्मचरियवासो’’ति इमिना ‘‘द्वेपि ब्रह्मचरियवासा नत्थि देवेसूति उपलद्धिवसेना’’ति वुत्तत्ता.

२७०. तस्सेवाति परवादिनो एव. पुग्गलवसेनाति ‘‘गिहीनञ्चेव एकच्चानञ्च देवान’’न्ति एवं पुग्गलवसेन. तस्साति परवादिनो. पटिक्खेपो न युत्तोति एवं पुग्गलवसेन अत्थयोजना न युत्ताति अधिप्पायो. पुग्गलाधिट्ठानेन पन कतापि अत्थवण्णना ओकासवसेन परिच्छिज्जतीति नायं दोसो. तस्सायं अधिप्पायोति अयं ‘‘गिहीनञ्चेवा’’तिआदिना वुत्तो तस्स परवादिनो यदि अधिप्पायो, एवं सञ्ञाय परवादिनो सकवादिना समानादायोति न निग्गहारहो सिया. तेनाह ‘‘सक…पे… तब्बो’’ति. पठमं पन अनुजानित्वा पच्छा पटिक्खेपेनेव निग्गहेतब्बता वेदितब्बा. केचि ‘‘यत्थ नत्थि पब्बज्जा, नत्थि तत्थ ब्रह्मचरियवासोति पुच्छाय एकच्चानं मनुस्सानं मग्गप्पटिवेधं सन्धाय परवादिनो पटिक्खेपो. यदिपि सो देवानं मग्गप्पटिलाभं न इच्छति, सम्भवन्तं पन सब्बं दस्सेतुं अट्ठकथायं ‘गिहीन’मिच्चेव अवत्वा ‘एकच्चानञ्च देवान’न्ति वुत्त’’न्ति वदन्ति, तं न सुन्दरं ‘‘सन्धाया’’ति वुत्तत्ता, पुरिमोयेवत्थो युत्तो.

सुद्धब्रह्मचरियकथावण्णना निट्ठिता.