११. गतिअनुयोगवण्णना

६९-७२. यानिस्स सुत्तानि निस्साय लद्धि उप्पन्ना, तेसं दस्सनतो परतो ‘‘तेन हि पुग्गलो सन्धावती’’तिआदिना पाळि आगता, पुरतो पन ‘‘न वत्तब्बं पुग्गलो सन्धावती’’तिआदिना, तस्मा वुत्तं ‘‘दस्सेन्तो…पे… भवितब्ब’’न्ति. दस्सेत्वाति वा वत्तब्बन्ति ‘‘यानिस्स…पे… तानि दस्सेत्वा ‘तेन हि पुग्गलो सन्धावती’तिआदिमाहा’’ति वत्तब्बन्ति अत्थो. दस्सेन्तोति वा इदं दस्सनकिरियाय न वत्तमानतामत्तवचनं, अथ खो तस्सा लक्खणत्थवचनं, हेतुभाववचनं वाति न कोचि दोसो.

९१. सो वत्तब्बोति सो जीवसरीरानं अनञ्ञतापज्जनाकारो वत्तब्बो, नत्थीति अधिप्पायो. ‘‘रूपी अत्ता’’ति इमिस्सा लद्धिया वसेन ‘‘येन रूपसङ्खातेन अत्तनो सभावभूतेन सरीरेन सद्धिं गच्छती’’ति एवं पन अत्थे सति सो आकारो वुत्तो एव होति, तथा च सति ‘‘रूपं पुग्गलोति अननुञ्ञातत्ता’’ति एवम्पि वत्तुं न सक्का. यस्मा पन ‘‘इध सरीरनिक्खेपा’’ति अनन्तरं वक्खति, तस्मा ‘‘सो वत्तब्बो’’ति वुत्तं. निरयूपगस्स पुग्गलस्स अन्तराभवं न इच्छतीति इदं पुरातनानं अन्तराभववादीनं वसेन वुत्तं. अधुनातना पन ‘‘उद्धंपादो तु नारको’’ति वदन्ता तस्सपि अन्तराभवं इच्छन्तेव, केचि पन असञ्ञूपगानं. अरूपूपगानं पन सब्बेपि न इच्छन्ति. तत्थ ये ‘‘सञ्ञुप्पादा च पन ते देवा तम्हा काया चवन्ती’’ति सुत्तस्स अत्थं मिच्छा गहेत्वा चुतूपपातकालेसु असञ्ञीनं सञ्ञा अत्थीति अन्तराभवतोव असञ्ञूपपत्तिं इच्छन्ति, तदञ्ञेसं वसेन ‘‘सवेदनो…पे… पटिक्खिपती’’ति दस्सेन्तो ‘‘ये पना’’तिआदिमाह. के पनेवं इच्छन्ति? सब्बत्थिवादीसु एकच्चे.

९२. नेवसञ्ञानासञ्ञायतनेति नेवसञ्ञानासञ्ञायतने भवे, अचित्तुप्पादे वा सञ्ञा अत्थीति इच्छन्तीति न वत्तब्बन्ति सम्बन्धो. यतो सो सञ्ञाभवेन असङ्गहितो, भवन्तरभावेन च सङ्गहितो.

९३. इन्धनुपादानो अग्गि विय इन्धनेन रूपादिउपादानो पुग्गलो रूपादिना विना नत्थीति एत्थ अयमधिप्पायविभावना – यथा न विना इन्धनेन अग्गि पञ्ञापीयति, न च तं अञ्ञं इन्धनतो सक्का पटिजानितुं, नापि अनञ्ञं. यदि हि अञ्ञं सिया, न उण्हं इन्धनं सिया, अथ अनञ्ञं, निदहितब्बंयेव दाहकं सिया, एवं न विना रूपादीहि पुग्गलो पञ्ञापीयति, न च तेहि अञ्ञो, नापि अनञ्ञो सस्सतुच्छेदभावप्पसङ्गतोति परवादिनो अधिप्पायो. तत्थ यदि अग्गिन्धनोपमा लोकवोहारेन वुत्ता, अपळित्तं कट्ठादिइन्धनं निदहितब्बञ्च, पळित्तं भासुरुण्हं अग्गिदाहकञ्च, तञ्च ओजट्ठमकरूपं पबन्धवसेन पवत्तं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं. यदि एवं पुग्गलो रूपादीहि अञ्ञो अनिच्चो च आपन्नो, अथ परमत्थतो च, तस्मिंयेव कट्ठादिसञ्ञिते रूपसङ्खातपळित्ते यं उसुमं सो अग्गि तंसहजातानि तीणिभूतानि इन्धनं. एवम्पि सिद्धं लक्खणभेदतो अग्गिन्धनानं अञ्ञत्तन्ति अग्गि विय इन्धनतो रूपादीहि अञ्ञो पुग्गलो अनिच्चो च आपज्जतीति.

गतिअनुयोगवण्णना निट्ठिता.