१२. उपादापञ्ञत्तानुयोगवण्णना
९७. नीलगुणयोगतो नीलो, नीलो एव नीलको, तस्स, अयं पनस्स नीलपञ्ञत्ति नीलरूपुपादानाति आह ‘‘नीलं…पे… पञ्ञत्ती’’ति. एवं पन पाठे ठिते नीलं उपादाय नीलोति कथमयं पदुद्धारोति आह ‘‘नीलं रूपं…पे… एत्थ यो पुट्ठो नीलं उपादाय नीलो’’ति. एत्थाति एतस्मिं वचने. तदादीसूति ‘‘पीतं रूपं उपादाया’’तिआदिकं अट्ठकथायं आदि-सद्देन गहितमेव तदत्थदस्सनवसेन गण्हाति.
९८. वुत्तन्ति ‘‘मग्गकुसलो’’तिआदीसु छेकट्ठं सन्धाय वुत्तं. कुसलपञ्ञत्तिं कुसलवोहारं.
११२. पुब्बपक्खं दस्सेत्वा उत्तरमाहाति परवादी पुब्बपक्खं दस्सेत्वा सकवादिस्स उत्तरमाह.
११५. ‘‘रूपं रूपवा’’तिआदिनयप्पवत्तं परवादिवादं भिन्दितुं ‘‘यथा न निगळो नेगळिको’’तिआदिना सकवादिवादो आरद्धोति आह ‘‘यस्स रूपं सो रूपवाति उत्तरपक्खे वुत्तं वचनं उद्धरित्वा’’ति.
११८. विञ्ञाणनिस्सयभावूपगमनन्ति चक्खुविञ्ञाणस्स निस्सयभावूपगमनं. तयिदं विसेसनं चक्खुस्साति इमिनाव सिद्धन्ति न कतं दट्ठब्बं.
उपादापञ्ञत्तानुयोगवण्णना निट्ठिता.