१०. पञ्ञत्तानुयोगवण्णना
६१-६६. रूपकायाविरहं सन्धाय आह, न रूपतण्हासब्भावं. तथा सति अनेकन्तिकत्ता पटिक्खिपितब्बमेव सिया, न अनुजानितब्बन्ति. ‘‘अत्थिताया’’ति आहाति सम्बन्धो. कामीभावस्स अनेकन्तिकत्ता कस्सचि कामधातूपपन्नस्स कामधातुया आयत्तत्ताभावतो च कदाचि भावस्सेवाति योजना.
६७. कायानुपस्सनायाति कायानुपस्सनादेसनाय. सा हि कायकायानुपस्सीनं विभागग्गहणस्स कारणभूता, कायानुपस्सना एव वा. एवंलद्धिकत्ताति अञ्ञो कायो अञ्ञो पुग्गलोति एवंलद्धिकत्ता. आहच्च भासितन्ति ठानकरणानि आहन्त्वा कथितं, भगवता सामं देसितन्ति अत्थो.
पञ्ञत्तानुयोगवण्णना निट्ठिता.