२. सळायतनुप्पत्तिकथावण्णना

६९१-६९२. केचि वादिनोति कापिले सन्धायाह. ते हि अभिब्यत्तवादिनो विज्जमानमेव कारणे फलं अनभिब्यत्तं हुत्वा ठितं पच्छा अभिब्यत्तिं गच्छतीति वदन्ता बीजावत्थाय विज्जमानापि रुक्खादीनं न अङ्कुरादयो आविभवन्ति, बीजमत्तं आविभावं गच्छतीति कथेन्ति.

सळायतनुप्पत्तिकथावण्णना निट्ठिता.