९. वचनसोधनवण्णना

५५-५९. पदद्वयस्स अत्थतो एकत्तेति पदद्वयस्स एकत्तत्थे सतीति अत्थो. परिकप्पवचनञ्हेतं दोसदस्सनत्थं ‘‘एवं सन्ते अयं दोसो’’ति. तयिदं एकत्तं उपलब्भति एवाति पच्छिमपदावधारणं वेदितब्बं. ‘‘केहिचि पुग्गलो केहिचि न पुग्गलो’’ति ब्यभिचारदस्सनतो परेन न सम्पटिच्छितन्ति कत्वा तमेव असम्पटिच्छितत्तं विभावेन्तो ‘‘पुग्गलस्स ही’’तिआदिमाह. तत्थ अविभजितब्बतन्ति ‘‘उपलब्भति चा’’ति एवं अविभजितब्बतं. विभजितब्बतन्ति ‘‘पुग्गलो च तदञ्ञञ्च उपलब्भती’’ति एवं विभजितब्बतं. एतेन ‘‘पुग्गलो उपलब्भति एवा’’ति पच्छिमपदावधारणं वेदितब्बं, न ‘‘पुग्गलो एव उपलब्भती’’ति इममत्थं दस्सेति. तं विभागन्ति यथावुत्तं विभजितब्बाविभजितब्बं विभागं वदतो सकवादिनो, अञ्ञस्स वा कस्सचि. एतस्साति परवादिनो. यथावुत्तविभागन्ति ‘‘पुग्गलो उपलब्भति…पे… केहिचि न पुग्गलो’’ति एवं पाळियं वुत्तप्पकारं विभागं. यथाआपादितेनाति ‘‘पुग्गलो उपलब्भतीति पदद्वयस्स अत्थतो एकत्ते’’तिआदिना आपादितप्पकारेन. न भवितब्बन्ति यदिपि तेन पुग्गलो उपलब्भति एव वुच्चति, उपलब्भतीति पन पुग्गलो एव न वुच्चति, अथ खो अञ्ञोपि, तस्मा यथावुत्तेन पसङ्गेन न भवितब्बं. तेनाह ‘‘मग्गितब्बो एत्थ अधिप्पायो’’ति.

६०. अत्थतो पुग्गलो नत्थीति वुत्तं होति अत्तसुञ्ञतादस्सनेन अनत्तलक्खणस्स विहितत्ता.

वचनसोधनवण्णना निट्ठिता.