९. धम्मट्ठितताकथावण्णना

६२७. अविज्जाय या ठितताति अविज्जाय सङ्खारानं अनन्तरपच्चयभावे या नियतता धम्मनियामतासङ्खाता, या ठितसभावता निप्फन्ना, न धम्ममत्तताट्ठितताय निप्फन्नाय वसेन, अनन्तरपच्चयभावसङ्खाता ठितता पच्चयता होतीति अत्थो. अञ्ञमञ्ञपच्चयभावरहितस्साति इदं सहजातनिस्सयादिपच्चयानं पटिक्खेपपदं दट्ठब्बं, न अञ्ञमञ्ञपच्चयतामत्तस्स. सब्बो तादिसोति इमिना समनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनादिकं सङ्गण्हाति. अञ्ञमञ्ञपच्चयतञ्चाति एत्थापि वुत्तनयेन अत्थो वेदितब्बो. एत्थ पन पच्चयुप्पन्नस्सपि पच्चयभावतो सङ्खारानम्पि वसेन योजेतब्बं. तेनाह ‘‘तस्सा च इतरा’’ति.

धम्मट्ठितताकथावण्णना निट्ठिता.