१. निरोधकथावण्णना

५७१-५७२. सकसमये ‘‘पुरिमचित्तस्स निरोधानन्तरं पच्छिमचित्तं उप्पज्जती’’ति इच्छितं, परवादी पन ‘‘यस्मिं खणे भवङ्गचित्तं, तस्मिंयेव खणे किरियमयचित्तं उप्पज्जती’’ति वदति. एवं सति पुरिमपच्छिमचित्तानं सहभावोपि अनुञ्ञातो होति. तेनाह ‘‘भङ्गक्खणेन सहेवा’’ति. तथा च सति विपाककिरियक्खन्धानं विय किरियविपाकक्खन्धानं विपाकविपाकक्खन्धानं किरियकिरियक्खन्धानञ्च वुत्तनयेन सहभावो वत्तब्बोति इममत्थं दस्सेन्तो ‘‘भवङ्गचित्तस्सा’’तिआदिमाह. तत्थ उपपत्तिभवभावेन एसिया इच्छितब्बाति उपपत्तेसिया विपाकक्खन्धा, ते च येभुय्येन भवङ्गपरियायकाति अट्ठकथायं वुत्तं ‘‘उपपत्तेसियन्ति सङ्खं गतस्स भवङ्गचित्तस्सा’’ति. आदिपरियोसानमत्तञ्हि तस्स पटिसन्धिचुतिचित्तं, तदारम्मणं भवङ्गन्त्वेव वुच्चतीति. चक्खुविञ्ञाणादीनं किरियावेमज्झे पतितत्ता किरियाचतुक्खन्धग्गहणेन गहणं युत्तन्ति वुत्तं. चक्खुविञ्ञाणादीनन्ति हि आदि-सद्देन न सोतविञ्ञाणादीनंयेव गहणं, अथ खो सम्पटिच्छनसन्तीरणानम्पीति दट्ठब्बं.

निरोधकथावण्णना निट्ठिता.