३. पञ्चविञ्ञाणसमङ्गिस्समग्गकथावण्णना

५७६. लक्खणन्ति पञ्चविञ्ञाणानं उप्पन्नारम्मणतादिअवितथेकप्पकारतालक्खणं. कामं मनोविञ्ञाणं अवत्थुकम्पि होति, सवत्थुकत्ते पन तम्पि उप्पन्नवत्थुकमेव. तथा हि पाळियं ठपनायं ‘‘हञ्चि पञ्चविञ्ञाणा उप्पन्नारम्मणा’’त्वेव वुत्तं. मनोविञ्ञाणस्सपि उप्पन्नवत्थुकतापरियायो अत्थीति ‘‘पञ्च विञ्ञाणा’’ति अवत्वा ‘‘छ विञ्ञाणा उप्पन्नवत्थुका’’ति वुत्ते ‘‘नो च वत रे वत्तब्बे पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति वत्तुं न सक्काति दस्सेन्तो आह ‘‘छ विञ्ञाणा…पे… अधिप्पेत’’न्ति.

५७७. ‘‘अनिमित्तं सुञ्ञतं अप्पणिहित’’न्ति निब्बानस्स ते परियाया. चक्खुविञ्ञाणस्स अनिमित्तगाहिभावे सुञ्ञतारम्मणतापि सियाति वुत्तं ‘‘तदेव सुञ्ञतन्ति अधिप्पायो’’ति.

पञ्चविञ्ञाणसमङ्गिस्समग्गकथावण्णना निट्ठिता.