३. ततियकथिनसिक्खापदवण्णना
४९७-४९९. ततिये पाळियं चीवरपच्चासा निक्खिपितुन्ति एत्थ चीवरपच्चासाय सतिया निक्खिपितुन्ति एवमत्थो गहेतब्बो. भण्डिकाबद्धानि भण्डिकबद्धानीतिपि पठन्ति, भण्डिकं कत्वा बद्धानीति अत्थो. निट्ठितचीवरस्मिं भिक्खुनाति एत्थ पुरिमसिक्खापदे विय सामिवसेनेव करणवचनस्स अत्थो वेदितब्बो.
५००. अनत्थते कथिने चीवरमासे भिक्खुनो उप्पन्नचीवरं अनधिट्ठितं अविकप्पितं तस्मिं मासे ठपेतुं वट्टतीति आह ‘‘एकं पच्छिमकत्तिकमासं ठपेत्वा’’ति. केचि पन ‘‘कालेपि आदिस्स दिन्नं, एतं अकालचीवरन्ति वचनतो अनत्थते कथिने पच्छिमकत्तिकमाससङ्खाते चीवरमासे उप्पन्नचीवरस्सपि पच्चासाचीवरे असति दसाहपरिहारोयेव, ततो परं ठपेतुं न वट्टती’’ति वदन्ति, तं अट्ठकथाय न समेति. तथा हि अच्चेकचीवरसिक्खापदट्ठकथायं (पारा. अट्ठ. २.६४६-६४९ आदयो) ‘‘पवारणमासस्स जुण्हपक्खपञ्चमियं उप्पन्नस्स अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा परिहारो’’ति वुत्तं. तमेव च परिहारं सन्धाय ‘‘छट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितचीवरम्पि एतं परिहारं लभतियेवा’’ति (पारा. अट्ठ. २.६४६-६४९) वुत्तं. तस्मा चीवरमासे दसाहतो परम्पि अनधिट्ठितं अविकप्पितम्पि ठपेतुं वट्टति.
यदि एवं ‘‘कालेपि आदिस्स दिन्नं, एतं अकालचीवर’’न्ति इदं कस्मा वुत्तन्ति चे? अकालचीवरसामञ्ञतो अत्थुद्धारवसेन वुत्तं पठमानियते सोतस्स रहो विय. एकादसमासे सत्तमासे च उप्पन्नञ्हि चीवरं वुत्थवस्सेहि सेसेहि च सम्मुखीभूतेहि भाजेतुं लब्भतीति अकालचीवरं नाम जातं. काले पन ‘‘सङ्घस्स इदं अकालचीवरं दम्मी’’ति अनुद्दिसित्वा ‘‘सङ्घस्स दम्मी’’ति दिन्नं वुत्थवस्सेहियेव भाजेतब्बं, न अञ्ञेहीति कालचीवरन्ति वुच्चति. आदिस्स दिन्नं पन सम्मुखीभूतेहि सब्बेहियेव भाजेतब्बन्ति अकालचीवरं, तस्मा कालेपि आदिस्स दिन्नस्स वुत्थवस्सेहि सेसेहि च सम्पत्तेहि भाजनीयत्ता अकालचीवरसामञ्ञतो ‘‘कालेपि आदिस्स दिन्नं, एतं अकालचीवर’’न्ति अत्थुद्धारवसेन वुत्तं. यदि एवं ‘‘एकपुग्गलस्स वा इदं तुय्हं दम्मीति दिन्न’’न्ति कस्मा वुत्तं. न हि पुग्गलस्स आदिस्स दिन्नं केनचि भाजनीयं होतीति? नायं विरोधो आदिस्स वचनसामञ्ञतो लब्भमानमत्थं दस्सेतुं तथा वुत्तत्ता.
एवं पन अवत्वाति ‘‘ततो चे उत्तरि’’न्ति इमस्स ‘‘मासपरमतो उत्तरि’’न्ति पदभाजनं अवत्वा. ताव उप्पन्नं पच्चासाचीवरन्ति पच्चत्तवचनं ‘‘अत्तनो गतिकं करोती’’ति करणकिरियाय कत्तुभावतो. अन्तरा उप्पन्नञ्हि पच्चासाचीवरं मासपरमं मूलचीवरं ठपेतुं अदत्वा अत्तनो दसाहपरमताय एव परिच्छिन्दतीति अत्तनो गतिकं करोति. ततो उद्धं मूलचीवरन्ति एत्थ पन मूलचीवरन्ति पच्चत्तवचनं. वीसतिमदिवसतो उद्धञ्हि उप्पन्नं पच्चासाचीवरं दसाहपरमं गन्तुं अदत्वा मूलचीवरं अत्तना सद्धिं करणसम्बन्धतामत्तेन सककालवसेन परिच्छिन्दतीति अत्तनो गतिकं करोति. पच्चासाचीवरे पन लभित्वा विसुं ठपेन्तस्स दसाहं अनतिक्कन्ते नत्थि तप्पच्चया आपत्ति. पाळियं दसाहा कारेतब्बन्ति एत्थ दसाहाति करणत्थे निस्सक्कवचनं, दसाहेनाति अत्थो. पञ्चाहुप्पन्नेतिआदिं रस्सं कत्वापि पठन्ति. एकवीसे उप्पन्ने…पे… नवाहा कारेतब्बन्तिआदि पच्चासाचीवरस्स उप्पन्नदिवसं ठपेत्वा वुत्तं.
अञ्ञं पच्चासाचीवरं…पे… कारेतब्बन्ति इदं सतिया एव पच्चासाय वुत्तन्ति वेदितब्बं. सचे पन ‘‘इतो पट्ठाय चीवरं न लभिस्सामी’’ति पच्चासा उपच्छिन्ना, मूलचीवरम्पि दसाहं चे सम्पत्तं, तदहेव अधिट्ठातब्बं. पच्चासाचीवरम्पि परिक्खारचोळं अधिट्ठातब्बन्ति पठमतरं उप्पन्नं विसभागपच्चासाचीवरं सन्धाय वदति. अञ्ञमञ्ञन्ति अञ्ञं अञ्ञं, अयमेव वा पाठो. अङ्गं पनेत्थ पठमकथिने वुत्तसदिसमेव. केवलञ्हि तत्थ दसाहातिक्कमो, इध मासातिक्कमोति अयं विसेसो.
ततियकथिनसिक्खापदवण्णना निट्ठिता.