५. सञ्चरित्तसिक्खापदवण्णना
२९६. पञ्चमे पण्डितस्स भावो पण्डिच्चं, ञाणस्सेतं अधिवचनं. गतिमन्ताति ञाणगतिया समन्नागता. पण्डिताति इमिना सभावञाणेन समन्नागतता वुत्ता, ब्यत्ताति इमिना इत्थिकत्तब्बेसु विसारदपञ्ञाय. तेनाह ‘‘उपायञ्ञू विसारदा’’ति. मेधाविनीति ठानुप्पत्तिपञ्ञासङ्खाताय तस्मिं तस्मिं अत्थकिच्चे उपट्ठिते ठानसो तङ्खणे एव उप्पज्जनपञ्ञाय समन्नागता. तेनाह ‘‘दिट्ठं दिट्ठं करोती’’ति. छेकाति यागुभत्तसम्पादनादीसु निपुणा. उट्ठानवीरियसम्पन्नाति कायिकेन वीरियेन समन्नागता, यथा अञ्ञा कुसीता निसिन्नट्ठाने निसिन्नाव होन्ति, ठितट्ठाने ठिताव, एवं अहुत्वा विप्फारिकेन चित्तेन सब्बकिच्चं निप्फादेतीति वुत्तं होति. कुमारिकायाति निमित्तत्थे भुम्मं, हेतुम्हि वा करणवचनं. तेनाह ‘‘कुमारिकाय कारणा’’ति. आवहनं आवाहो, परिग्गहभावेन दारिकाय गण्हापनं, तथा दापनं विवाहो. तेनाह ‘‘दारकस्सा’’तिआदि.
२९७-२९८. भत्तपाचनं सन्धाय रन्धापनं वुत्तं, यस्स कस्सचि पाचनं सन्धाय पचापनं वुत्तं. दुट्ठुं कुलं गता दुग्गताति इममत्थं दस्सेन्तो ‘‘यत्थ वा गता’’तिआदिमाह. आहरणं आहारो. न उपाहटन्ति न दिन्नं. कयो गहणं, विक्कयो दानं. तदुभयं सङ्गण्हित्वा ‘‘वोहारो’’ति वुत्तं. मण्डितपसाधितोति एत्थ बाहिरुपकरणेन अलङ्करणं मण्डनं, अज्झत्तिकानं केसादीनंयेव सण्ठपनं पसाधनं.
३००. ‘‘अब्भुतं कातुं न वट्टती’’ति इमिना दुक्कटं होतीति दीपेति. ‘‘पराजितेन दातब्ब’’न्ति वुत्तत्ता अदेन्तो धुरनिक्खेपेन कारेतब्बो. अचिरकाले अधिकारो एतस्स अत्थीति अचिरकालाधिकारिकं, सञ्चरित्तं. ‘‘अचिरकालाचारिक’’न्ति वा पाठो, अचिरकाले आचारो अज्झाचारो एतस्साति अचिरकालाचारिकं.
किञ्चापि एहिभिक्खूपसम्पन्ना चेव सरणगमनूपसम्पन्ना च सञ्चरित्तादिपण्णत्तिवज्जं आपत्तिं आपज्जन्ति, तेसं पन न सब्बकालिकत्ता ते वज्जेत्वा सब्बकालानुरूपं तन्तिं ठपेन्तो भगवा इधापि ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्नं भिक्खुं दस्सेतुं ‘‘तत्र य्वायं भिक्खु…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति पदभाजनं आह, न पन नेसं सञ्चरित्तादिआपज्जने अभब्बभावतो. खीणासवापि हि अप्पस्सुता किञ्चापि लोकवज्जं नापज्जन्ति, पण्णत्तियं पन अकोविदत्ता विहारकारं कुटिकारं सहागारं सहसेय्यन्ति एवरूपा कायद्वारे आपत्तियो आपज्जन्ति, सञ्चरित्तं पदसोधम्मं उत्तरिछप्पञ्चवाचं भूतारोचनन्ति एवरूपा वचीद्वारे आपत्तियो आपज्जन्ति, उपनिक्खित्तसादियनवसेन मनोद्वारे रूपियपटिग्गहणापत्तिं आपज्जन्ति.
३०१. सञ्चरणं सञ्चरो, सो एतस्स अत्थीति सञ्चरी, तस्स भावो सञ्चरित्तं. तेनाह ‘‘सञ्चरणभाव’’न्ति, इत्थिपुरिसानं अन्तरे सञ्चरणभावन्ति अत्थो. जायत्तने जारत्तनेति च निमित्तत्थे भुम्मं, जायभावत्थं जारभावत्थन्ति वुत्तं होति. जायभावेति भरियभावाय. जारभावेति सामिकभावाय. किञ्चापि इमस्स पदभाजने ‘‘जारी भविस्ससी’’ति इत्थिलिङ्गवसेन पदभाजनं वुत्तं, जारत्तनेति पन निद्देसस्स उभयलिङ्गसाधारणत्ता पुरिसलिङ्गवसेनपि योजेत्वा अत्थं दस्सेन्तो ‘‘इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेती’’तिआदिमाह. एत्थ हि ‘‘जारो भविस्ससी’’ति इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेति नाम. पाळियं पन इत्थिलिङ्गवसेनेव योजना कता, तदनुसारेन पुरिसलिङ्गवसेनपि सक्का योजेतुन्ति.
इदानि पाळियं वुत्तनयेनपि अत्थं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. पति भविस्ससीति वुत्तमेवत्थं ‘‘सामिको भविस्ससी’’ति परियायवचनेन विसेसेत्वा दस्सेति. इदञ्च जारत्तनेति निद्देसस्स उभयलिङ्गसाधारणत्ता वुत्तं. मुहुत्तिका भविस्ससीति असामिकं सन्धाय वुत्तं, जारी भविस्ससीति ससामिकं सन्धाय. अन्तमसो तङ्खणिकायपीति इदं निदस्सनमत्तन्ति आह ‘‘एतेनेवुपायेना’’तिआदि.
३०३. सेरिविहारन्ति सच्छन्दचारं. अत्तनो वसन्ति अत्तनो आणं. गोत्तन्ति गोतमगोत्तादिकं गोत्तं. धम्मोति पण्डरङ्गपरिब्बाजकादीनं, तेसं तेसं वा कुलानं धम्मो. गोत्तवन्तेसु गोत्तसद्दो, धम्मचारीसु च धम्मसद्दो वत्ततीति आह ‘‘सगोत्तेही’’तिआदि. तत्थ सगोत्तेहीति समानगोत्तेहि, एकवंसजातेहीति अत्थो. सहधम्मिकेहीति एकस्स सत्थुसासने सहचरितब्बधम्मेहि, समानकुलधम्मेहि वा. तेनेवाह ‘‘एकं सत्थार’’न्तिआदि. तत्थ ‘‘एकं सत्थारं उद्दिस्स पब्बजितेही’’ति इमिना पण्डरङ्गपरिब्बाजकादयो वुत्ता, एकगणपरियापन्नेहीति मालाकारादिएकगणपरियापन्नेहि.
ससामिका सारक्खा. यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा. पच्छिमानं द्विन्नन्ति सारक्खसपरिदण्डानं मिच्छाचारो होति तासं ससामिकभावतो. न इतरासन्ति इतरासं मातुरक्खितादीनं अट्ठन्नं पुरिसन्तरगमने नत्थि मिच्छाचारो तासं असामिकभावतो. या हि सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेन्ति, तासं मिच्छाचारो, न च मातादयो तासं फस्से इस्सरा. मातादयो हि न अत्तना फस्सानुभवनत्थं ता रक्खन्ति, केवलं अनाचारं निसेधेन्ता पुरिसन्तरगमनं तासं वारेन्ति. पुरिसस्स पन एतासु अट्ठसुपि होतियेव मिच्छाचारो मातादीहि यथा पुरिसेन सद्धिं संवासं न कप्पेति, तथा रक्खितत्ता परेसं रक्खितगोपितं फस्सं थेनेत्वा फुट्ठभावतो.
धनेन कीताति भरियभावत्थं धनेन कीता. तेनाह ‘‘यस्मा पना’’तिआदि. भोगेनाति भोगहेतु. भोगत्थञ्हि वसन्ती ‘‘भोगवासिनी’’ति वुच्चति. लभित्वाति यो नं वासेति, तस्स हत्थतो लभित्वा. उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी. तेनाह ‘‘उभिन्न’’न्तिआदि. धजेन आहटाति एत्थ धजयोगतो सेनाव धजसद्देन वुत्ता, उस्सितद्धजाय सेनाय आहटाति वुत्तं होति. तेनाह ‘‘उस्सितद्धजाया’’तिआदि.
३०५. बहिद्धा विमट्ठं नाम होतीति अञ्ञत्थ आरोचितं नाम होति. तं किरियं सम्पादेस्सतीति तस्सा आरोचेत्वा तं किच्चं सम्पादेतु वा मा वा, तंकिरियासम्पादने योग्यतं सन्धाय वुत्तं. दारकं दारिकञ्च अजानापेत्वा तेसं मातापितुआदीहि मातापितुआदीनंयेव सन्तिकं सासने पेसितेपि हरणवीमंसनपच्चाहरणसङ्खाताय तिवङ्गसम्पत्तिया सङ्घादिसेसो होतियेवाति दट्ठब्बं. यं उद्दिस्स सासनं पेसितं, तंयेव सन्धाय तस्सा मातुआदीनं आरोचिते वत्थुनो एकत्ता मातुआदयोपि खेत्तमेवाति खेत्तमेव ओतिण्णभावं दस्सेतुं ‘‘बुद्धं पच्चक्खामी’’तिआदि उदाहटं. इमिना समेतीति एत्थायमधिप्पायो – यथा सयं अनारोचेत्वा अञ्ञेन अन्तेवासिआदिना आरोचापेन्तस्स विसङ्केतो नत्थि, एवं तस्सा सयं अनारोचेत्वा आरोचनत्थं मातुआदीनं वदन्तस्सपि नत्थि विसङ्केतोति. घरं नयतीति घरणी. मूलट्ठानञ्च वसेनाति एत्थ पुरिसस्स मातुआदयो सासनपेसने मूलभूतत्ता ‘‘मूलट्ठा’’ति वुच्चन्ति. मातुरक्खिताय माता भिक्खुं पहिणतीति एत्थ अत्तनो वा धीतु सन्तिकं ‘‘इत्थन्नामस्स भरिया होतू’’ति भिक्खुं पहिणति, पुरिसस्स वा सन्तिकं ‘‘मम धीता इत्थन्नामस्स भरिया होतू’’ति पहिणतीति गहेतब्बं. एस नयो सेसेसुपि. पुब्बे वुत्तनयत्ताति पठमसङ्घादिसेसे वुत्तनयत्ता.
३३८. एत्तोव पक्कमतीति पुन आगन्त्वा आणापकस्स अनारोचेत्वा ततोयेव पक्कमति. अञ्ञेन करणीयेनाति गमनहेतुविसुद्धिदस्सनत्थं वुत्तं. तेनेव पन करणीयेन गन्त्वापि किञ्चि अनारोचेन्तो न वीमंसति नाम. अनभिनन्दित्वाति इदं तथा पटिपज्जमानं सन्धाय वुत्तं, सतिपि अभिनन्दने सासनं अनारोचेन्तो पन न वीमंसति नाम. ततियपदे वुत्तनयेनाति ‘‘सो तस्सा वचनं अनभिनन्दित्वा’’तिआदिना वुत्तनयेन. वत्थुगणनायाति सम्बहुलानं इत्थिपुरिसानं समभावे सति द्विन्नं द्विन्नं इत्थिपुरिसवत्थूनं गणनाय. सचे पन एकतो अधिका होन्ति, अधिकानं गणनाय आपत्तिभेदो वेदितब्बो.
३३९-३४०. पाळियं चतुत्थवारे असतिपि ‘‘गच्छन्तो न सम्पादेति, आगच्छन्तो विसंवादेति, अनापत्ती’’ति इदं अत्थतो आपन्नमेवाति कत्वा वुत्तं ‘‘चतुत्थे अनापत्ती’’ति. कारुकानन्ति वड्ढकीआदीनं. तच्छकअयोकारतन्तवायरजकन्हापितका पञ्च कारवो ‘‘कारुका’’ति वुच्चन्ति. एवरूपेन…पे… अनापत्तीति तादिसं गिहिवेय्यावच्चम्पि न होतीति कत्वा वुत्तं.
कायतो समुट्ठातीति पण्णत्तिं वा अलंवचनीयभावं वा अजानन्तस्स कायतो समुट्ठाति. वाचतो समुट्ठातीति एत्थापि एसेव नयो. कायवाचतो समुट्ठातीति पण्णत्तिं जानित्वा अलंवचनीयभावं अजानन्तस्सपि कायवाचतो समुट्ठातीति वेदितब्बं. अलंवचनीया होन्तीति देसचारित्तवसेन पण्णदानादिना परिच्चत्ता होन्ति. पण्णत्तिं पन जानित्वाति एत्थ अलंवचनीयभावं वाति च दट्ठब्बं. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. सञ्चरित्तसिक्खापदवण्णना) ‘‘तदुभयं पन जानित्वा एतेहेव तीहि नयेहि समापज्जन्तस्स तानेव तीणि तदुभयजाननचित्तेन सचित्तकानि होन्ती’’ति वुत्तं. तस्मा पण्णत्तिजाननचित्तेनाति एत्थापि तदुभयजाननं वत्तब्बं. भिक्खुं अजानापेत्वा अत्तनो अधिप्पायं पण्णे लिखित्वा दिन्नं हरन्तस्सपि आपत्ति होति, इमस्स सिक्खापदस्स अचित्तकत्ताति न गहेतब्बं. पाळियं पन ‘‘आरोचेती’’ति वुत्तत्ता अट्ठकथायञ्च तत्थ तत्थ आरोचनस्सेव दस्सितत्ता कायेन वा वाचाय वा आरोचेन्तस्सेव आपत्ति होतीति गहेतब्बं.
३४१. दुट्ठुल्लादीसुपीति आदि-सद्देन सञ्चरित्तम्पि सङ्गण्हाति. एत्थ पन किञ्चापि इत्थी नाम मनुस्सित्थी, न यक्खी, न पेती, न तिरच्छानगता, पुरिसो नाम मनुस्सपुरिसो, न यक्खोतिआदि न वुत्तं, तथापि मनुस्सजातिकाव इत्थिपुरिसा इध अधिप्पेता. तस्मा येसु सञ्चरित्तं समापज्जति, तेसं मनुस्सजातिकता, न नालंवचनीयता, पटिग्गण्हनवीमंसनपच्चाहरणानीति इमानेत्थ पञ्चङ्गानि.
सञ्चरित्तसिक्खापदवण्णना निट्ठिता.