२. कायसंसग्गसिक्खापदवण्णना

२६९. दुतिये येसु विवटेसु अन्धकारो होति, तानि विवरन्तोति ब्राह्मणिया सद्धिं कायसंसग्गं समापज्जितुकामो एवमकासि. तेन कतस्सपि विप्पकारस्स अत्तनि कतत्ता ‘‘अत्तनो विप्पकार’’न्ति वुत्तं. उळारत्तताति उळारचित्तता, पणीताधिमुत्तताति वुत्तं होति.

२७०. ओतिण्णोति इदं कम्मसाधनं कत्तुसाधनं वा होतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘यक्खादीहि विय सत्ता’’तिआदिमाह. असमपेक्खित्वाति यथासभावं अनुपपरिक्खित्वा, यथा ते रतिजनका रूपादयो विसया अनिच्चदुक्खासुभानत्ताकारेन अवत्थिता, तथा अपस्सित्वाति वुत्तं होति.

२७१. सञ्ञमवेलन्ति सीलमरियादं. आचारोति आचरणं हत्थगहणादिकिरिया. अस्साति ‘‘कायसंसग्गं समापज्जेय्या’’ति पदस्स.

२७३. एतेसं पदानं वसेनाति आमसनादिपदानं वसेन. इतो चितो च…पे… सञ्चोपेतीति अत्तनो हत्थं वा कायं वा तिरियं इतो चितो च सञ्चारेति. ‘‘कायतो अमोचेत्वावाति वचनतो मत्थकतो पट्ठाय हत्थं ओतारेन्तस्स कायतो मोचेत्वा निवत्थसाटकूपरि ओमसन्तस्स थुल्लच्चयं, साटकतो ओतारेत्वा जङ्घतो पट्ठाय कायं ओमसन्तस्स पुन सङ्घादिसेसो’’ति वदन्ति.

द्वादससुपि आमसनादिप्पयोगेसु एकेकस्मिं पयोगे कायतो अमोचिते एकेकाव आपत्ति होतीति आह ‘‘मूलग्गहणमेव पमाण’’न्ति. इदञ्च एकेन हत्थेन कायं गहेत्वा इतरेन हत्थेन कायपरामसनं सन्धाय वुत्तं. एकेन पन हत्थेन कायपटिबद्धं गहेत्वा इतरेन तत्थ तत्थ कायं परामसतो पयोगगणनाय आपत्ति. अयं पन सङ्घादिसेसो न केवलं वत्थुवसेनेव, अपिच सञ्ञावसेनपीति आह ‘‘इत्थिया इत्थिसञ्ञिस्स सङ्घादिसेसो’’ति. पाळियं तिरच्छानगतो च होतीति एत्थ तिरच्छानगतित्थिया तिरच्छानगतपुरिसस्स च गहणं वेदितब्बं.

समसारागोति कायसंसग्गरागेन एकसदिसरागो. पुरिमनयेनेवाति रज्जुवत्थादीहि परिक्खिपित्वा गहणे वुत्तनयेन. पुन पुरिमनयेनेवाति समसारागो वुत्तो. अनन्तरनयेनेवाति कायपटिबद्धआमसननयेन. वेणिग्गहणेन लोमानम्पि सङ्गहितत्ता लोमानं फुसनेपि सङ्घादिसेसो वुत्तो. इदानि वुत्तमेवत्थं पकासेतुकामो ‘‘उपादिन्नकेन ही’’तिआदिमाह.

यथानिद्दिट्ठनिद्देसेति यथावुत्तकायसंसग्गनिद्देसे. तेनाति तेन यथावुत्तकारणेन. सञ्ञाय विरागितम्हीति सञ्ञाय विरद्धाय. लिङ्गब्यत्तयेन ‘‘विरागितम्ही’’ति वुत्तं. इमं नाम वत्थुन्ति इमस्मिं सिक्खापदे आगतं सन्धाय वदति. अञ्ञम्पि यं किञ्चि वत्थुं सन्धाय वदतीतिपि केचि. सारत्तन्ति कायसंसग्गरागेन सारत्तं. विरत्तन्ति कायसंसग्गरागरहितं मातुभगिनीआदिं सन्धाय वदति. ‘‘विरत्तं गण्हिस्सामी’’ति विरत्तं गण्हि, दुक्कटन्ति मातुपेमादिवसेन गहणे दुक्कटं वुत्तं.

इमाय पाळिया समेतीति सम्बन्धो. कथं समेतीति चे? यदि हि ‘‘इत्थिया कायपटिबद्धं गण्हिस्सामी’’ति चित्ते उप्पन्ने इत्थिसञ्ञा विरागिता भवेय्य, कायपटिबद्धग्गहणे थुल्लच्चयं वदन्तेन भगवता ‘‘इत्थी च होति इत्थिसञ्ञी चा’’ति न वत्तब्बं सिया, वुत्तञ्च, तस्मा ‘‘इत्थिया कायपटिबद्धं गण्हिस्सामी’’ति कायं गण्हन्तस्स इत्थिसञ्ञा विरागिता नाम न होतीति ‘‘कायपटिबद्धं गण्हिस्सामीति कायं गण्हन्तो यथावत्थुकमेव आपज्जती’’ति महासुमत्थेरेन वुत्तवादो इमाय पाळिया समेति. यो पनेत्थ ‘‘सतिपि इत्थिसञ्ञाय कायपटिबद्धं गण्हन्तस्स गहणसमये ‘कायपटिबद्धं गण्हिस्सामी’ति सञ्ञं ठपेत्वा ‘इत्थिं गण्हामी’ति सञ्ञाय अभावतो वत्थुसञ्ञानं भिन्नत्ता अयुत्त’’न्ति वदेय्य, सो पुच्छितब्बो ‘‘किं कायपटिबद्धं वत्थादिं गण्हन्तो इत्थिया रागेन गण्हाति, उदाहु वत्थादीसु रागेना’’ति. यदि ‘‘वत्थादीसु रागेन गण्हाती’’ति वदेय्य, इत्थिया कायपटिबद्धं अहुत्वा अञ्ञत्थ ठितं वत्थादिं गण्हन्तस्सपि थुल्लच्चयं सिया, तस्मा इत्थी इत्थिसञ्ञा सारत्तभावो गहणञ्चाति अङ्गपारिपूरिसब्भावतो महासुमत्थेरवादोव युत्तवादो. अट्ठकथाविनिच्छयेहि च समेतीति एत्थापि अयमधिप्पायो – यदि सञ्ञाविरागेन विरागितं नाम सिया, ‘‘सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हामी’’ति एवंसञ्ञिस्स ‘‘मज्झगतित्थियो कायपटिबद्धेन गण्हामी’’ति एवरूपाय सञ्ञाय अभावतो मज्झगतानं वसेन थुल्लच्चयं न सिया, एवं सन्तेपि अट्ठकथाय थुल्लच्चयस्स वुत्तत्ता सञ्ञाविरागेन विरागितं नाम न होतीति अयमत्थो सिद्धोयेवाति. नीलेन दुविञ्ञेय्यसभावतो काळित्थी वुत्ता.

२७९. सेवनाधिप्पायोति फस्ससुखसेवनाधिप्पायो. इत्थिया कायेन भिक्खुस्स कायपटिबद्धामसनवारेपि फस्सं पटिविजानातीति इदं अत्तनो कायपटिबद्धामसनेपि कायसम्बन्धसभावतो वुत्तं. एत्थाति निस्सग्गियेन निस्सग्गियवारे. मोक्खाधिप्पायोति एत्थ पठमं कायसंसग्गरागे सतिपि पच्छा मोक्खाधिप्पायस्स अनापत्ति.

२८१. पारिपन्थिकाति विलुम्पनिका, अन्तरायिकाति वुत्तं होति. नदीसोतेन वुय्हमानं मातरन्ति उक्कट्ठपरिच्छेददस्सनत्थं वुत्तं, अञ्ञासुपि पन इत्थीसु कारुञ्ञाधिप्पायेन मातरि वुत्तनयेन पटिपज्जन्तस्स नेवत्थि दोसोति वदन्ति. ‘‘मातर’’न्ति वुत्तत्ता अञ्ञासं न वट्टतीति वदन्तापि अत्थि. तिणण्डुपकन्ति हिरीवेरादिमूलेहि कतचुम्बटकं. तालपण्णमुद्दिकन्ति तालपण्णेहि कतअङ्गुलिमुद्दिकं. परिवत्तेत्वाति अत्तनो निवासनपारुपनभावतो अपनेत्वा, चीवरत्थाय अपनामेत्वाति वुत्तं होति. चीवरत्थाय पादमूले ठपेति, वट्टतीति इदं निदस्सनमत्तं, पच्चत्थरणवितानादिअत्थम्पि वट्टतियेव, पूजादिअत्थं तावकालिकम्पि गहेतुं वट्टति.

इत्थिसण्ठानेन कतन्ति एत्थ हेट्ठिमपरिच्छेदतो पाराजिकवत्थुभूततिरच्छानगतित्थीनम्पि अनामासभावतो तादिसं इत्थिसण्ठानेन कतं तिरच्छानगतरूपम्पि अनामासन्ति दट्ठब्बं. ‘‘भिक्खुनीहि पटिमारूपं आमसितुं वट्टती’’ति वदन्ति आचरिया. इत्थिरूपानि दस्सेत्वा कतं वत्थञ्च पच्चत्थरणञ्च भित्तिञ्च इत्थिरूपं अनामसित्वा गण्हितुं वट्टति. भिन्दित्वाति एत्थ हत्थेन अग्गहेत्वाव केनचिदेव दण्डादिना भिन्दितब्बं. एत्थ च ‘‘अनामासम्पि हत्थेन अपरामसित्वा दण्डादिना केनचि भिन्दितुं वट्टती’’ति इध वुत्तत्ता ‘‘पंसुकूलं गण्हन्तेन मातुगामसरीरेपि सत्थादीहि वणं कत्वा गहेतब्ब’’न्ति वुत्तत्ता च गहितमण्डूकसप्पिनिं दण्डादीहि निप्पीळेत्वा मण्डूकं विस्सज्जापेतुं वट्टति.

मग्गं अधिट्ठायाति मग्गे गच्छामीति एवं मग्गसञ्ञी हुत्वाति अत्थो. कीळन्तेनाति इदं गिहिसन्तकं सन्धाय वुत्तं, भिक्खुसन्तकं पन येन केनचि अधिप्पायेन अनामसितब्बमेव दुरुपचिण्णभावतो. तालपनसादीनीति चेत्थ आदि-सद्देन नाळिकेरलबुजतिपुसअलाबुकुम्भण्डपुस्सफलएळालुकफलानं सङ्गहो दट्ठब्बो. ‘‘यथावुत्तफलानंयेव चेत्थ कीळाधिप्पायेन आमसनं न वट्टती’’ति वुत्तत्ता पासाणसक्खरादीनि कीळाधिप्पायेनपि आमसितुं वट्टति.

मुत्ताति हत्थिकुम्भजादिका अट्ठविधा मुत्ता. तथा हि हत्थिकुम्भं, वराहदाठं, भुजङ्गसीसं, वलाहकं, वेळु, मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाविहीना. वराहदाठजा वराहदाठवण्णाव. भुजङ्गसीसजा नीलादिवण्णा सुविसुद्धा वट्टला. वलाहकजा आभासूरा दुब्बिभागरूपा रत्तिभागे अन्धकारं विद्धमन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति. वेळुजा करकफलसमानवण्णा न आभासूरा, ते च वेळू अमनुस्सगोचरे एव पदेसे जायन्ति. मच्छसिरजा पाठीनपिट्ठिसमआनवण्णा वट्टला लघवो च होन्ति पभाविहीना च, ते च मच्छा समुद्दमज्झेयेव जायन्ति. सङ्खजा सङ्खउदरच्छविवण्णा कोलफलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका. भुजङ्गजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सप्पिजाव, इतरा कदाचि काचि, तस्मा सम्मोहविनोदनियं ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं.

मणीति ठपेत्वा वेळुरियादिके सेसो जोतिरसादिभेदो सब्बोपि मणि. वेळुरियोति वंसवण्णमणि. सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिलापण्डुसिलासेतसिलादिभेदा सब्बापि सिला. रजतन्ति कहापणादिकं वुत्तावसेसं रतनसम्मतं. जातरूपन्ति सुवण्णं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरमणि. भण्डमूलत्थायाति पत्तचीवरादिभण्डमूलत्थाय. कुट्ठरोगस्साति निदस्सनमत्तं, ताय वूपसमेतब्बस्स यस्स कस्सचि रोगस्सत्थायपि वट्टतियेव. ‘‘भेसज्जत्थञ्च अधिट्ठायेव मुत्ता वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. आकरमुत्तोति आकरतो मुत्तमत्तो. ‘‘भण्डमूलत्थाय सम्पटिच्छितुं वट्टती’’ति इमिना च आमसितुम्पि वट्टतीति दस्सेति. पचित्वा कतोति काचकारेहि पचित्वा कतो.

धोतविद्धो च रतनमिस्सोति अलङ्कारत्थं कञ्चनलतादिं दस्सेत्वा कतो रतनखचितो धोतविद्धो अनामासो. धोतविद्धो च रतनमिस्सो चाति विसुं वा पदं सम्बन्धितब्बं. पानीयसङ्खोति इमिना च सङ्खेन कतपानीयभाजनपिधानादिसमणपरिक्खारोपि आमसितुं वट्टतीति सिद्धं. सेसन्ति रतनमिस्सं ठपेत्वा अवसेसं. मुग्गवण्णंयेव रतनसम्मिस्सं करोन्ति, न अञ्ञन्ति आह ‘‘मुग्गवण्णावा’’ति, मुग्गवण्णा रतनमिस्साव न वट्टतीति वुत्तं होति. सेसाति रतनसम्मिस्सं ठपेत्वा अवसेसा मुग्गवण्णा नीलसिला.

बीजतो पट्ठायाति धातुपासाणतो पट्ठाय. सुवण्णचेतियन्ति धातुकरण्डकं. पटिक्खिपीति ‘‘धातुट्ठपनत्थाय गण्हथा’’ति अवत्वा ‘‘तुम्हाकं गण्हथा’’ति पेसितत्ता पटिक्खिपि. सुवण्णबुब्बुळकन्ति सुवण्णतारकं. ‘‘केळापयितुन्ति इतो चितो च सञ्चारन्तेहि आमसितुं वट्टती’’ति महाअट्ठकथायं वुत्तं. कचवरमेव हरितुं वट्टतीति चेतियगोपका वा भिक्खू होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि पमज्जितुं वट्टतियेव.

आरकूटलोहन्ति कित्तिमलोहं. तीणि हि कित्तिमलोहानि कंसलोहं, वट्टलोहं, आरकूटन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, पकतिरसतम्बे मिस्सेत्वा कतं आरकूटं. तेनेव तंकरणेन निब्बत्तत्ता ‘‘कित्तिमलोह’’न्ति वुच्चति. ‘‘जातरूपगतिकमेवाति वुत्तत्ता आरकूटं सुवण्णसदिसमेव आमसितुं न वट्टति, अञ्ञं पन वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘आरकूटं अनामसितब्बतो जातरूपगतिकमेवाति वुत्तं, तस्मा उभयम्पि जातरूपं विय आमसितुं न वट्टती’’ति वदन्ति. पठमं वुत्तोयेव च अत्थो गण्ठिपदकारेहि अधिप्पेतो. पटिजग्गितुं वट्टतीति सेनासनपटिबद्धत्ता वुत्तं.

सामिकानं पेसेतब्बन्ति सामिकानं सासनं पेसेतब्बं. भिन्दित्वाति हत्थेन अग्गहेत्वा अञ्ञेन येन केनचि भिन्दित्वा. भेरिसङ्घाटोति सङ्घटितचम्मभेरी. वीणासङ्घाटोति सङ्घटितचम्मवीणा. चम्मविनद्धानं भेरिवीणानमेतं अधिवचनं. तुच्छपोक्खरन्ति अविनद्धचम्मं भेरिपोक्खरं वीणापोक्खरञ्च. आरोपितचम्मन्ति भेरिआदीनं विनद्धनत्थाय मुखवट्टियं आरोपितचम्मं ततो उद्धरित्वा विसुं ठपितचम्मञ्च. ओनहितुं वाति भेरिपोक्खरादीनि चम्मं आरोपेत्वा विनन्धितुं. ओनहापेतुं वाति तथेव अञ्ञेहि विनन्धापेतुं. पाराजिकप्पहोनककालेति अकुथितकाले.

२८२. सङ्कमादि भूमिगतिकत्ता न कायपटिबद्धट्ठानियन्ति दुक्कटं वुत्तं. एकपदिकसङ्कमोति खुद्दकसेतु. सकटमग्गसङ्कमोति सकटमग्गभूतो महासेतु. ठाना चालेतुन्ति रज्जुं ठाना चालेतुं. पटिच्छादेतब्बाति अपनेतब्बा. मनुस्सित्थी, इत्थिसञ्ञिता, कायसंसग्गरागो, तेन रागेन वायामो, हत्थग्गाहादिसमापज्जनन्ति इमानेत्थ पञ्च अङ्गानि.

कायसंसग्गसिक्खापदवण्णना निट्ठिता.