समथभेदं

अधिकरणपरियायवारकथावण्णना

२९३. लोभो पुब्बङ्गमोतिआदीसु पन लोभहेतु विवदनतो ‘‘लोभो पुब्बङ्गमो’’ति वुत्तं. एवं सेसेसुपि. ठानानीति कारणानि. तिट्ठन्ति एत्थाति ठानं. के तिट्ठन्ति? विवादाधिकरणादयो. वसन्ति एत्थाति वत्थु. भवन्ति एत्थाति भूमि. कुसलाकुसलाब्याकतचित्तसमङ्गिनो विवदनतो ‘‘नव हेतू’’ति वुत्तं. द्वादस मूलानीति ‘‘कोधनो होति उपनाही’’तिआदीनि द्वादस मूलानि.

२९४-२९५. इमानेव द्वादस कायवाचाहि सद्धिं ‘‘चुद्दस मूलानी’’ति वुत्तानि. सत्त आपत्तिक्खन्धा ठानानीति एत्थ आपत्तिं आपज्जित्वा पटिच्छादेन्तस्स या आपत्ति, तस्सा पुब्बे आपन्ना आपत्तियो ठानानीति वेदितब्बं. ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति वचनतो आपत्ताधिकरणे अकुसलाब्याकतवसेन छ हेतू वुत्ता. कुसलचित्तं पन अङ्गं होति, न हेतु.

२९६. चत्तारि कम्मानि ठानानीति एत्थ ‘‘एवं कत्तब्ब’’न्ति इतिकत्तब्बतादस्सनवसेन पवत्तपाळि कम्मं नाम, यथाठितपाळिवसेन करोन्तानं किरिया किच्चाधिकरणं नाम. ञत्तिञत्तिदुतियञत्तिचतुत्थकम्मानि ञत्तितो जायन्ति, अपलोकनकम्मं अपलोकनतोवाति आह ‘‘ञत्तितो वा अपलोकनतो वा’’ति. किच्चाधिकरणं एकेन समथेन सम्मति, सम्पज्जतीति अत्थो. तेहि समेतब्बत्ता ‘‘विवादाधिकरणस्स साधारणा’’ति वुत्तं.

तब्भागियवारकथावण्णना

२९८. विवादाधिकरणस्स तब्भागियाति विवादाधिकरणस्स वूपसमतो तप्पक्खिका.

समथा समथस्स साधारणवारकथावण्णना

२९९. एकं अधिकरणं सब्बे समथा एकतो हुत्वा समेतुं सक्कोन्ति न सक्कोन्तीति पुच्छन्तो ‘‘समथा समथस्स साधारणा, समथा समथस्स असाधारणा’’ति आह. येभुय्यसिकाय समनं सम्मुखाविनयं विना न होतीति आह ‘‘येभुय्यसिका सम्मुखाविनयस्स साधारणा’’ति. सतिविनयादीहि समनस्स येभुय्यसिकाय किच्चं नत्थीति आह ‘‘सतिविनयस्स…पे… असाधारणा’’ति. एवं सेसेसुपि. तब्भागियवारेपि एसेव नयो.

विनयवारकथावण्णना

३०२. सब्बेसम्पि समथानं विनयपरियायो लब्भतीति ‘‘विनयो सम्मुखाविनयो’’तिआदिना विनयवारो उद्धटो. सिया न सम्मुखाविनयोति एत्थ सम्मुखाविनयं ठपेत्वा सतिविनयादयो सेससमथा अधिप्पेता. एस नयो सेसेसुपि.

कुसलवारकथावण्णना

३०३. सङ्घस्स सम्मुखा पटिञ्ञाते तं पटिजाननं सङ्घसम्मुखता नाम. तस्स पटिजाननचित्तं सन्धाय ‘‘सम्मुखाविनयो कुसलो’’तिआदि वुत्तन्ति वदन्ति. नत्थि सम्मुखाविनयो अकुसलोति धम्मविनयपुग्गलसम्मुखताहि तिवङ्गिको सम्मुखाविनयो एतेहि विना नत्थि. तत्थ कुसलचित्तेहि करणकाले कुसलो, अरहन्तेहि करणकाले अब्याकतो. एतेसं सङ्घसम्मुखतादीनं अकुसलपटिपक्खत्ता अकुसलस्स सम्भवो नत्थि, तस्मा ‘‘नत्थि सम्मुखाविनयो अकुसलो’’ति वुत्तं. ‘‘येभुय्यसिका अधम्मवादीहि वूपसमनकाले, धम्मवादीनम्पि अधम्मवादिम्हि सलाकग्गाहापके जाते अकुसला. सतिविनयो अनरहतो सञ्चिच्च सतिविनयदाने अकुसलो. अमूळ्हविनयो अनुम्मत्तकस्स दाने, पटिञ्ञातकरणं मूळ्हस्स अजानतो पटिञ्ञाय करणे, तस्सपापियसिका सुद्धस्स करणे, तिणवत्थारकं महाकलहे सञ्चिच्च करणे च अकुसलं. सब्बत्थ अरहतो वसेनेव अब्याकत’’न्ति सब्बमेतं गण्ठिपदेसु वुत्तं.

समथवारविस्सज्जनावारकथावण्णना

३०४-३०५. यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीतिआदि पुच्छा. यस्मिं समये सम्मुखाविनयेन चातिआदि तस्सा विस्सज्जनं, यस्मिं समये सम्मुखाविनयेन च येभुय्यसिकाय च अधिकरणं वूपसम्मति, तस्मिं समये यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एवं सब्बत्थ सम्बन्धो. यत्थ पटिञ्ञातकरणं लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एत्थ एकं वा द्वे वा बहू वा भिक्खू ‘‘इमं नाम आपत्तिं आपन्नोसी’’ति पुच्छिते सति ‘‘आमा’’ति पटिजानने द्वेपि पटिञ्ञातकरणसम्मुखाविनया लब्भन्ति. तत्थ ‘‘सङ्घसम्मुखता धम्मविनयपुग्गलसम्मुखता’’ति एवं वुत्तसम्मुखाविनये सङ्घस्स पुरतो पटिञ्ञातं चे, सङ्घसम्मुखता. तत्थेव देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति. अथ विवदन्ता अञ्ञमञ्ञं पटिजानन्ति चे, पुग्गलसम्मुखता. तस्सेव सन्तिके देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति. एकस्सेव वा एकस्स सन्तिके आपत्तिदेसनकाले ‘‘पस्ससि, पस्सामी’’ति वुत्ते तत्थ धम्मविनयपुग्गलसम्मुखतासञ्ञितो सम्मुखाविनयो च पटिञ्ञातकरणञ्च लद्धं होति.

संसट्ठवारकथावण्णना

३०६. अधिकरणानं वूपसमोव समथो नाम, तस्मा अधिकरणेन विना समथा नत्थीति आह ‘‘मा हेवन्तिस्स वचनीयो…पे… विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति.

समथाधिकरणवारकथावण्णना

३०९-३१०. समथा समथेहि सम्मन्तीतिआदि पुच्छा. सिया समथा समथेहि सम्मन्तीतिआदि विस्सज्जनं. तत्थ समथा समथेहि सम्मन्तीति एत्थ सम्मन्तीति सम्पज्जन्ति, अधिकरणा वा पन सम्मन्ति वूपसमं गच्छन्ति, तस्मा येभुय्यसिका सम्मुखाविनयेन सम्मतीति एत्थ सम्मुखाविनयेन सद्धिं येभुय्यसिका सम्पज्जति, न सतिविनयादीहि सद्धिं तेसं तस्सा अनुपकारत्ताति एवमत्थो दट्ठब्बो.

३११. ‘‘सम्मुखाविनयो विवादाधिकरणेन सम्मती’’ति पाठो. ‘‘सम्मुखाविनयो न केनचि सम्मती’’ति हि अवसाने वुत्तत्ता सम्मुखाविनयो सयं समथेन वा अधिकरणेन वा समेतब्बो न होति.

३१३. विवादाधिकरणं…पे… किच्चाधिकरणेन सम्मतीति एत्थ ‘‘सुणातु मे भन्ते …पे… पठमं सलाकं निक्खिपामी’’ति एवं विवादाधिकरणं किच्चाधिकरणेन सम्मतीति दट्ठब्बं.

समुट्ठापनवारकथावण्णना

३१४. विवादाधिकरणं न कतमं अधिकरणं समुट्ठापेतीति ‘‘नायं धम्मो’’ति वुत्तमत्तेनेव किञ्चि अधिकरणं न समुट्ठापेतीति अत्थो.

भजतिवारकथावण्णना

३१८-९. कतमं अधिकरणं परियापन्नन्ति कतमाधिकरणपरियापन्नं, अयमेव वा पाठो. विवादाधिकरणं विवादाधिकरणं भजतीति पठमुप्पन्नविवादं पच्छा उप्पन्नो भजति. विवादाधिकरणं द्वे समथे भजतीति ‘‘मं वूपसमेतुं समत्था तुम्हे’’ति वदन्तं विय भजति. द्वीहि समथेहि सङ्गहितन्ति ‘‘मयं तं वूपसमेस्सामा’’ति वदन्तेहि विय द्वीहि समथेहि सङ्गहितं.