खन्धकपुच्छावारो
पुच्छाविस्सज्जनावण्णना
३२०. निदानेन च निद्देसेन च सद्धिन्ति एत्थ निदानेनाति सिक्खापदपञ्ञत्तिदेससङ्खातेन निदानेन. निद्देसेनाति पुग्गलादिनिद्देसेन. उभयेनपि तस्स तस्स सिक्खापदस्स वत्थु दस्सितं, तस्मा वत्थुना सद्धिं खन्धकं पुच्छिस्सामीति अयमेत्थ अत्थो. तत्थाति तस्मिं उपसम्पदक्खन्धके. उत्तमानि पदानि वुत्तानीति ‘‘न, भिक्खवे, ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो’’तिआदिना (महाव. ९९, १२४) नयेन उत्तमपदानि वुत्तानि. चम्मसंयुत्तेति चम्मक्खन्धके.