३-५. ठानियसुत्तादिवण्णना

२०४-२०६. कामरागेन गधितब्बट्ठानभूता कामरागट्ठानियाति आह ‘‘आरम्मणधम्मान’’न्ति. ‘‘मनसिकारबहुलीकारा’’ति वुत्तत्ता ‘‘आरम्मणेनेव कथित’’न्ति वुत्तं. वुत्तपरिच्छेदोति एतेन न केवलं आरम्मणवसेनेव, अथ खो उपनिस्सयवसेनपेत्थ अत्थो लब्भतीति दस्सेति. पठमवग्गस्स हि दुतिये सुत्ते उपनिस्सयवसेनेव अत्थो दस्सितो. मिस्सकबोज्झङ्गा कथिता अविभागेनेव कथितत्ता. अपरिहानियेति तीहि सिक्खाहि अपरिहानावहे.