९-१०. पञ्चकङ्गसुत्तादिवण्णना

२६७-२६८. दण्डमुग्गरं अग्गसोण्डमुग्गरं. काळसुत्तपक्खिपनं काळसुत्तनाळि. वासिआदीनि पञ्च अङ्गानि अस्साति पञ्चकङ्गो. वत्थुविज्जाय वुत्तविधिना कत्तब्बनिस्सयानि ठपेतीति थपति. पण्डितउदायित्थेरो, न लाळुदायित्थेरो. द्वेपानन्दाति अट्ठकथाय पदुद्धारो कतो – ‘‘द्वेपि मया आनन्दा’’ति पन पाळियं. पसादकायसन्निस्सिता कायिका, चेतोसन्निस्सिता चेतसिका. आधिपच्चट्ठेन सुखमेव इन्द्रियन्ति सुखिन्द्रियं. उपविचारवसेनाति रूपादीनि उपेच्च विचरणवसेन. अतीते आरम्मणे. पच्चुप्पन्नेति अद्धापच्चुप्पन्ने. एवं अट्ठाधिकं सतं अट्ठसतं.

पाटियेक्को अनुसन्धीति पुच्छानुसन्धिआदीहि विसुं तेहि असम्मिस्सो एको अनुसन्धि. एकापि वेदना कथिता ‘‘तत्र, भिक्खवे, सुतवा अरियसावको’’ति आहरित्वा ‘‘फस्सपच्चया वेदना’’ति. यस्मा भगवा चतुत्थज्झानुपेक्खावेदनं वत्वा – ‘‘अत्थानन्द, एतस्मा सुखा अञ्ञं सुख’’न्तिआदिं वदन्तो थपतिनो वादं उपत्थम्भेति नाम. तेन हि उपेक्खावेदना ‘‘सुख’’न्तेव वुत्ता सन्तसभावत्ता. अभिक्कन्ततरन्ति अतिविय कन्ततरं मनोरमतरं. तेनाह ‘‘सुन्दरतर’’न्ति. पणीततरन्ति पधानभावं नीतताय उळारतरं. तेनाह ‘‘अतप्पकतर’’न्ति. सुखन्ति वुत्ता पटिपक्खस्स सुट्ठु खादनेन, सुकरं ओकासदानमस्साति वा. निरोधो सुखं नाम सब्बसो उदयब्बयाभावतो. तेनाह ‘‘निद्दुक्खभावसङ्खातेन सुखट्ठेना’’ति.

सुखस्मिंयेवाति सुखमिच्चेव पञ्ञपेति. निरोधसमापत्तिं सीसं कत्वाति निरोधसमापत्तिदेसनाय सीसं उत्तमं कत्वा. देसनाय उद्देसाधिमुत्ते उट्ठापेत्वा वित्थारितत्ता ‘‘नेय्यपुग्गलस्स वसेना’’ति वुत्तं. दसमं अनन्तरसुत्ते वुत्तनयत्ता उत्तानत्थमेव.

पञ्चकङ्गसुत्तादिवण्णना निट्ठिता.

रहोगतवग्गवण्णना निट्ठिता.