३. अट्ठसतपरियायवग्गो

१. सीवकसुत्तवण्णना

२६९. चूळा पन अस्स महती अत्थि सविसेसा, तस्मा ‘‘मोळियसीवको’’ति वुच्चति. छन्नपरिब्बाजकोति कम्बलादिना कोपीनपटिच्छादकपरिब्बाजको. पित्तपच्चयानीति पित्तहेतुकानि. ‘‘तिस्सो वेदना’’ति वत्वा तासं सम्भवं दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. कुसलवेदना उप्पज्जति पित्तपच्चया. पित्तभेसज्जं करिस्सामीति भेसज्जसम्भरणत्थञ्चेव तदत्थं आमिसकिञ्जक्खसम्भरणत्थञ्च पाणं हनतीति योजना. मज्झत्तो भेसज्जकरणे उदासीनो.

तस्माति यस्मा पित्तादिपच्चयहेतुकन्ति अत्तनो च लोकस्स च पच्चक्खं अतिधावन्ति ये समणा वा ब्राह्मणा वा, तस्मा तेसं मिच्छा. पित्तादीनं तिण्णम्पि समोधानसन्निपाते जातानि सन्निपातिकानि. पुरिमउतुनो विसदिसो उतुविपरिणामोति आह ‘‘विसभागउतुतो जातानी’’ति. अनुदको थद्धलूखभूमिविभागो जङ्गलदेसो, वुत्तविपरियायेन अनुपदेसो वेदितब्बो. मलयं हिमसीतबहुलो, इतरो उण्हबहुलो.

अत्तनो पकतिचरियानं विसमं कायस्स परिहरणवसेन, जातानि पन असय्हसहनअदेसअकालचरणादिना वेदितब्बानीति आह ‘‘महाभारवहना’’तिआदि. परस्स उपक्कमतो निब्बत्तानि ओपक्कमिकानीति आह – ‘‘अयं चोरो वा’’तिआदि. केवलन्ति बाहिरपच्चयं अनपेक्खित्वा केवलं तेनेव. तेनाह ‘‘कम्मविपाकतोव जातानी’’ति. सक्का पटिबाहितुं पतीकारेन. लोकवोहारो नाम कथितो पित्तसमुट्ठानादिसमञ्ञाय लोकसिद्धत्ता. कामं सरीरसन्निस्सिता वेदना कम्मनिब्बत्ताव, तस्सा पन पच्चुप्पन्नपच्चयवसेन एवमयं लोकवोहारोति वुत्तञ्चेव गहेत्वा परवादपटिसेधो कतोति दट्ठब्बं.

सीवकसुत्तवण्णना निट्ठिता.

२-१०. अट्ठसतसुत्तादिवण्णना

२७०-२७८. वेदनानं अट्ठाधिकं सतं, तस्स अट्ठसतस्स तब्भावस्स परियायो कारणं एत्थ अत्थीति अट्ठसतपरियायो, सुत्तं. तेनाह ‘‘अट्ठसतस्स कारणभूत’’न्ति. धम्मकारणन्ति परियत्तिधम्मभूतं कारणं. कायिकाति पञ्चद्वारकायिका. तेनाह ‘‘कामावचरेयेव लब्भन्ती’’ति, कामभूमिकाति अत्थो. अरूपावचरे नत्थि, तिभूमिकाति अत्थो. तेनाह – ‘‘अरूपे तिकचतुक्कज्झानं उप्पज्जति, तञ्च खो लोकुत्तरं, न लोकिय’’न्ति. इतरा उपेक्खावेदना. उपविचरन्ति उपेच्च पज्जन्तीति अत्थो. तंसम्पयुत्तानन्ति विचारसम्पयुत्तानं.

पटिलाभतोति पटिलद्धभावतो. समनुपस्सतोति पच्चवेक्खतो पस्सतो. अतीतं खणत्तयातिक्कमेन अतिक्कन्तं, निरुद्धप्पत्तिया निरुद्धं, पकतिविजहनेन विपरिणतं. समनुस्सरतोति चिन्तयतो. गेहस्सितन्ति कामगुणनिस्सितं. कामगुणा हि इध गेहनिस्सितधम्मेन गेहपरियायेन वुत्ता.

विपरिणामविरागनिरोधन्ति विपरिणामनं विरज्जनलक्खणं निरुज्झनञ्च विदित्वा. पुब्बेति अतीते. एतरहीति इदानि वत्तमाना. सम्मप्पञ्ञाय पस्सतोति विपस्सनापञ्ञाय चेव मग्गपञ्ञाय च याथावतो पस्सतो. उस्सुक्कापेतुन्ति विपस्सनं पट्ठपेत्वा मग्गपटिवेधं पापेतुं. निब्बानं उद्दिस्स पवत्तितत्ता नेक्खम्मस्सितसोमनस्सानि नाम. लोकामिसपटिसंयुत्तानन्ति कामगुणनिस्सितानं. तदायतनन्ति तं आयतनं तं कारणं अरहत्तं. अनुत्तरेसु विमोक्खेसूति अरियफलधम्मेसु. पिहन्ति अधिगमिच्छं.

उपेक्खाति सोमनस्सरहितअञ्ञाणुपेक्खा. बाल्ययोगतो बालस्स, ततो एव मूळ्हस्स पुथुज्जनस्स. किलेसोधीनं मग्गोधीहि अजितत्ता अनोधिजिनस्स. सत्तमभवादितो उद्धं पवत्तनविपाकस्स अजितत्ता अविपाकजिनस्स. अनेकादीनवे वट्टे आदीनवस्स अजाननेन अनादीनवदस्साविनो. पटिपत्तिपटिवेधबाहुसच्चाभावेन अस्सुतवतो पुथुज्जनस्स. रूपं सा नातिवत्तति न अतिक्कमति ञाणसम्पयुत्ताभावतो. सब्बसङ्गाहकोति सब्बधम्मे सङ्गण्हनको. ततियादीनि याव दसमा हेट्ठा वुत्तनयत्ता उत्तानत्थानेव.

अट्ठसतसुत्तादिवण्णना निट्ठिता.

११. निरामिससुत्तवण्णना

२७९. आरम्मणतो सम्पयोगतो च किलेसामिसेन सामिसा. निरामिसायाति निस्सक्कवचनं. निरामिसतरावाति एकंसवचनं तस्सा तथा निस्समेतब्बताय. सा हि पीति सब्बसो सन्तकिलेसामिसे सन्ताने पवत्तिया अच्चन्तसभावधम्मारम्मणविसयताय सयम्पि सातिसयं सन्तसभावाकारेन पवत्तिया निरामिसायपि निरामिसतरा वुत्ता. तेनाह ‘‘ननु चा’’तिआदि. इदानि तमत्थं उपमाय साधेतुं ‘‘यथा ही’’तिआदिमाह. अप्पटिहारिकन्ति पटिहरणरहितं अप्पटिहारं, केनचि अनावटन्ति अत्थो. सेसवारेसूति सुखवारउपेक्खावारेसु.

विमोक्खवारो पन न अतिदिट्ठो इतरेहि विसदिसत्ता. तेनाह ‘‘विमोक्खवारे पना’’तिआदि. रूपपटिसंयुत्तोति भावितरूपपटिसंयुत्तो. सामिसो नाम यस्मा सामिसरूपपटिबद्धवुत्ति चेव सामिसरूपपटिभागञ्च, तस्मा ‘‘रूपामिस’’न्ति वुच्चति, तेन रूपामिसेन सामिसो नाम. अरूपामिसस्स अभावतो अरूपपटिसंयुत्तो विमोक्खो निरामिसो नाम.

निरामिससुत्तवण्णना निट्ठिता.

अट्ठसतपरियायवग्गवण्णना निट्ठिता.

वेदनासंयुत्तवण्णना निट्ठिता.